________________
भीमरा ॥ १२ ॥
XXXXXXXXXXXXXXXXXXX**X**X**X**X*XX**X**X*XX**************
भवतः । पाण्टाहृतेरपत्यं युवा सौवीरगोत्र: पाण्टाहृतः पाष्टान्तायनिर्वा । मिमतस्य मैमतः मैमतायनिर्वा । सौवीरेष्वित्येव । पाण्टाहृतायनः । ' यावेगः ' ( ६-१-५४ ) इत्यायन । मैमतायनः । नत्र नडादित्वात् । अनन्तरो मैमतिः ॥ १०४ ॥ #भागवित्तितार्णविन्दवाकशापेयान्निन्दायामिकण्वा ॥ ६ ॥ २ ॥ १०५ ॥ भागवित्ति तार्णविन्दव आकाशापेय इत्येतेभ्यः सौवीरेषु वृद्धे वर्तमानेभ्यो यून्यपत्ये इकण प्रत्ययो वा भवति निन्दायां गम्यमानायाम् । भागवित्तेरपत्यं युवा निन्दितः भागवित्तिकः भागवित्तायनो वा जाल्मः । सार्णविन्द विकः तार्णविन्दविर्वा । आकशापेयिकः आकशापेयिवी । निन्दायामिति किम् । अन्यत्र भागवित्तायनः तार्गविन्दविः आकशापेयिः इत्येव भवति ॥ १०५ ॥ सौयाभायनियामुन्दायनिवार्ष्यायणेरीयश्च वा ॥। ६ । १ । २०६ ॥ एभ्य आयनिवन्तेभ्यः सौवीरेषु वृद्धे वर्तमानेभ्यो यून्यपत्ये ईयथकारादिकण च प्रत्ययो वा भवति ताभ्यां युक्तेऽण् प्रत्ययः निन्दायां गम्यमानायाम् । सुयान्नोऽपत्यं सौयामायनिस्तस्यापत्यं युवा निन्दितः सौयामायनीयः । सौयामायनिकः । सौयामायनिर्वा । अणो लुप् । यमुन्दस्यापत्यं यामुन्दायनिः । तिकादित्वादायनिन् । तस्यापत्यं युवा निन्दितः यामुन्दायनीयः । यामुन्दायनिकः । यामुन्दायनिर्वा । वृषस्यापत्यं वार्ष्यायणिः । दगुकोसलादिसूत्रेण यकारादिरायानेन् । तस्य वार्ष्यायणीयः । वार्ष्यायणिकः । वायणिर्वा । कञ्चित्त्वन्येभ्योऽपीच्छति । तैकायनेरपत्यं युवा तैकायनीयः । निन्दायामित्येव । अन्यत्र सौयामायनिः यामुन्दायनिः वार्ष्याणिर्भुवा । अणेव । 'ञिदार्षाणिनो: ' ( ६-१-१४० ) इति तस्य लुप् ॥ १०६ ॥ *तिकादेरायनिञ् ।। ६ । १ । १०७ ॥ तिक इत्येवमादिभ्योऽपत्ये आयनिन् प्रत्ययो भवति । इयादेरपवादः । तैकायनिः । कैतवायनिः । तिक कितव संज्ञा बाल शिखा बालशिख उरश शाट्य सैन्धव यमुन्द रूप्य पूर्णिक ग्राम्य नील अमित्र गोकक्ष्य कुरु देवर दैवर धेवर धैवर देवरथ तैतिल शैलाल औरश कौरव्य भौरिकि मौलिक चौपयत चैतयत चैटयत शैकयत क्षैतयत ध्वाज वत ध्वाजवत चन्द्रमस् शुभ शुभ गङ्ग गङ्गा वरेण्य वन्ध्या विम्बा अरुद्ध अरुद्धा आरद्ध वहाका खल्य लोमका उदन्य यज्ञ नीड आरथ्य लडूव भीत उतथ्य सुयामन् उखा खल्वका शल्यका जाजरू घसु उरस् । इति तिकादिः । शाव्यशब्दो यनन्तो घ्यणन्तो वा । शाव्यायनिः । यवन्तादायनणेवेत्येके । शाट्यायनः । औरशशब्देन क्षत्रियप्रत्ययान्तेन साहचर्यात् कौरव्यशब्दः क्षत्रियमत्ययान्त एव गृह्यते । अन्यस्मादिनेय । तस्य च ' विदार्षादणिनो: ' ( ६-१-१४० ) इति लुप् । कौरव्यः पिता । कौरव्यः पुत्रः । आयनिञस्तु 'अब्राह्मणात् ( ६-१-१४१ ) इति प्राप्तापि लुप् न भवति विधानसामर्थ्यात् । नहीन आयनिक वा लुपि कश्चिद्विशेषः । कौरव्यः पिता । कौरव्यायणिः पुत्रः || १०० || दगुकोशलकर्मारच्छागवृषाचादिः || ६ | १ | १०८ ॥ दगु कोशल कर्मार छाग वृष इत्येतेभ्योऽपत्ये यकारादिरायनिव् प्रत्ययो भवति । दागव्यायनिः । कौशल्यायनिः । जनपदसमानशब्दात् क्षत्रियात् ' दुनादि ' - ( ६-२-११८ ) इत्यादिना ध्य एव । कौशल्य इति । कार्मार्यायणिः । छाग्यायनिः । वार्ष्यायणिः मीयते परिच्छियते कपित्वेन 'पुतपित्त - इति । मया लक्ष्म्या मन्यते स्म पोदरादित्वाद्वा ॥ भाग- ॥ आकशापेयिक इति । अकं दुखं शपति अण् अफशापस्यापत्य वृद्धं शुभादिभ्य श्यण् ॥ - तिका - ॥ सैन्धवेति । सिन्धुषु भव ' कोपान्त्याचाण ' । नृनृस्थाभ्यामन्य । नरि नृस्थे तु विशेषविधानात्कच्छादित्वादकम् स्यात् । सिन्धुराभिजनो निवासोऽस्य | 'सिध्वादेरम्' वा ॥ - शाट्यायनिरिति । शद रजा अच् तस्यापत्यं उद्धम गर्गादेर्येण ॥ - विधानसामर्थ्यादिति । उपि हि अक्षत्रियवचनस्य कौरव्यशब्दस्य परिहारे फलं न स्यात् ॥
********************
प०अ०ल०
॥ १२ ॥