SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ | गाहुः । गाङ्गायनिः । गाङ्गेयः। विपाश्पाठः कुजादिलक्षणेन आयन्येन समावेशार्थः । चैपाशः। वैपाशायन्यः । तक्षपाठः कुर्वादिज्येन समावेशार्थः । ताक्ष्णः । तामण्यः॥६०॥*ऋषिवृष्ण्यन्धककुरुभ्यः॥६।१।६१ ॥ ऋपयो लौकिका वसिष्ठादयः अपत्ययोगात् । वृष्णयः अन्धकाः । कुरवश्व प्रसिद्धा वंशाख्याः क्षत्रियाः । ऋष्यादिवचनेभ्यः शब्देभ्योऽपत्येऽण् प्रत्ययो भवति । इनोऽपवादः । ऋपि, वासिष्ठः । वैश्वामित्रः । गौतमः । वृष्णि, वासुदेवः। आनिरुद्धः । वाजः। पातिवाहनः । औदारः । अन्धक, श्वाफल्कः । रान्धसः । चैत्रकः । कुरु, नाकुलः । साहदेवः । दौःशासनः । दौर्योधनः । अन्यादिभ्यस्त परत्वात | एयण ज्येनौ च भवतः । आत्रेयः । जादसेन्यः । जातसेनिः । औग्रसेन्यः । औग्रसेनिः । वैष्वक्सेन्यः । वैवल्सेनिः । भैपसेन्यः । भैमसेनिः । | कथं दौर्योधनिः । क्रियाशब्दत्वात् दुःखेन युध्यत इति । यौधिष्ठिरिरार्जुनिरित्यत्र तु बाडादित्वादिजेव ॥ ६१ ॥ कन्यात्रिवेण्याः कनीनत्रिवणं च ॥६॥ १ । ६२ ॥ कन्याशब्दात् त्रिवेणीशब्दाचापत्येऽण् प्रत्ययो भवति तत्संनियोगे कनीन त्रिवण इत्येतो च यथासंख्यमादेशौ भवतः । कन्याया अपत्यं कानीनो व्यासः । कानीनः कर्णः । त्रिवेण्या अपत्यं त्रैवणः । एयणोऽपवादः ॥ ६२॥ *शुझगभ्यां भारदाजे ॥६।१ । ६३ ॥ शशब्दात्पुंलिङ्गात स्त्रीलिङ्काच भारद्वाजेऽपत्येऽण् प्रत्ययो भवति । शुङ्गस्य शुङ्गाया वा अपत्यं शीको भारद्वाजः । शौङ्गिः शौङ्गेयथान्यः । 'नामग्रहणे लिङ्ग| विशिष्टस्यापि ग्रहणम्' इति सिद्धे परत्वात् 'द्विखरादनद्याः' (६-१-७१) इत्येयण पामोति तदाधनायें द्विवचनेन सीलिङ्गः शुझाशब्द उपादीयते । ६३॥ *विकर्णच्छगलाद्वात्स्याये ॥ ६।१।६४ ॥ विकर्णछगल इत्येताभ्यां यथासंख्यं वात्स्ये आत्रेये चापत्येण प्रत्ययो भवति । वैकर्णो वात्स्यः । *वैकणिरन्यः । छागल आत्रेयः । छागलिरन्यः ॥ ६४ ॥ णश्च विश्रवसो विश्लुक् च वा ॥ ६।१।६५ ॥ विश्रवसोऽपत्येऽणु प्रत्ययस्तत्संनियोगे णकारश्चान्तादेशो भवति णसंनियोगे विश्शब्दलोपथास्य वा । विश्रवसोऽपत्यं वैश्रवणः । विश्लुकि तु रावणः । अण् सिद्ध एवादेशाथै वचनम् । एवमुत्तरत्र ॥६५॥ *संख्यासंभद्रान्मातुर्मातुर च ॥६।१।६६ ॥ संख्यावाचिनः सम्भद्र इत्येताभ्यां च परो यो मातृशब्दस्तदन्तादपत्येऽण् प्रत्ययो भवति मातुश्च मातुर इत्यादेशः । द्वयोमर्मात्रोरपत्यं द्वैमातुरः । पाइमातुरः। शवस्य माता शतमाता तस्यापत्यं शातमातुरो भरतः। संगता माता संमाता तस्या अपत्यं सांमातुरः। भद्राया भद्रस्य वा माता भद्रमाता तस्या अपत्यं भाद्रमातुरः । 'संवन्धिनां संबन्धे' (७-४-१२१) इति वचनात् धान्यमातुर्न भवति । तेन द्वयोर्मात्रोरपत्यं अद्वैमा- | | प्रति दार्च कहू याति ‘कचित् ' इत्यनेन है कहूय ॥ऋषि-॥-वंशाख्या इति । वंशनिमित्ता आख्या अभिधान येपा ते ॥-श्याफल्क इति द्वारादे.' इति न भवति डगुत्पत्तेरनाश्रयणात् । पानं फालयतीति तु वर्णनिर्णयार्थ वाक्यम् ॥-पत्रण ओव्या चेति । 'इतोऽनिल ' ' सेनान्तकारु'-इत्येताभ्याम् ॥-शुशा-॥-शुङ्गश्च शुगा च 'पुरुष खिया' इति पु-1* | रुप शिष्यते ।-विक-|-चैकणिरन्य इति ॥ ऋपित्वेऽपि व्यात्तिनादत इन् वाहादिलाद्वा ॥-संख्या-|-द्वैमात्र इति । नन्वत्र ज्यिाति तदिते 'नामिनोऽफलिहले ' इति वृद्धि. कथं न भवति। उच्यते । तमकौपिडन्पन्यापेन णिति तद्धिते 'वृद्धि, स्वर-' इति आदेरेव वृद्धि न तु 'नामिनोऽकलिहले. ' इत्यन्तस्य । यद्वाख्यातकृत्प्रकरणमेकमेव तत्साचांदन प्रकरणे यत्सूत्र तद्विहितप्रत्ययो
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy