________________
षान्नश्वहः ॥५॥४।६९॥ कर्तृवाचिभ्यां जीवपुरुषाभ्यां पराभ्यां यथासंख्यं नशिवहिभ्यां तस्यैव धातोः संबन्धे सति णम् वा भवति । *जीवनाशं नश्यति जीवनश्यतीत्यर्थः । पुरुषवाहं वहति -पुरुषः प्रेष्यो भूत्वा वहतीत्यर्थः। कर्तुरिति किम् । जीवेन नश्यति । पुरुपं वहति ॥ ६९ ॥ ऊर्ध्वात्पूःशुषः ॥ ५।४। ७० ॥ कर्तृवाचिन ऊर्ध्वशब्दात्परात्पूरः शुषश्च तस्यैव धातोः संवन्धे सति णम् वा भवति । पूरीत्यनिर्देशात्पूर्दैवादिको न चौरादिकः । उर्ध्वपूरं पूर्यो ऊर्ध्वः पूर्यत इयर्थः । ऊर्ध्वशोषं शुष्यति ऊर्वः शुष्पतीत्यर्थः ॥ ७० ॥ व्याप्याचेवात् ॥ ५।४।७१॥ व्याप्यात्कर्मणश्चकारात्कर्तुश्चेवात् इवार्थादुपमानार्थात्पराद्धातोस्तस्यैव धातोः संबन्चे सति णम् वा भवति । सुवर्णनियायं निहितः । सुवर्णमिव निहित इत्यर्थः । एवं रत्ननिधायं घृननिभायम् । शाकक्लेशं क्लिएः । ओदनपाचं पकः । कर्तुः, काकनाशं नष्टः । काक इब नष्ट इत्यर्थः। एवं जमालिनाशं नष्टः। अभ्रविलायं विलीनः। अभ्रमिव विलीन इत्यर्थः ॥७१॥ *उपाकिरो लवने ॥ ५ । ४ । ७२ ॥ उपपूर्वात किरतेलवनेऽर्थे वर्तमानस्यान्यस्य धातोः संबन्धे सति णम्बा भवति । लवन इति वचनात् तस्यैवेति निवृत्तम् । उपस्कारं मद्रका लुनन्ति । “विक्षिपन्तो लुनन्तीत्यर्थः । लवन इति किम् । उपकार्य गच्छति ॥ ७२ ॥ दशेस्तृतीयया ॥ ५। ४ । ७३ ॥ तृतीयान्तेन योगे उपपूर्वात्तुल्यकत केऽर्थे वर्तमानाईशेरन्यस्य धातोः संवन्ये सति णभ्वा भवति । मूलकेनोपदेशं भुङ्क्ते । मूलकोपदंश भुङ्क्ते । आईकेणोपदंशं भुङ्क्ते । आईकोपदशं भुङ्क्ते । पक्षे मूलकेनोपदश्य भुङ्क्ते । आईकेणोपदश्य भुङ्क्ते । मूलकाद्युपदंशेः कर्मापि प्रधानस्य भुजेः करणमिति तृतीयैव भवति । प्रधानक्रियोपयुक्ते हि कारके गुणक्रिया न स्वानुरूपां विभक्तिमुत्पादयितुमलमप्रधानत्वादेव यथेष्यते ग्रामो गन्तुं पक्त्वा भुज्यते ओदन इति । यदा त्ववयव क्रियापेक्षया पूर्वकालविवक्षायां क्त्वा क्रियते तदा क्रियाभेदात् संबन्धभेदे द्वितीयापि भवति मूलकमुपदश्य भुङ्क्ते इति ॥ ७३ ॥ हिंसार्थादेकाप्यात् ॥५। ४ । ७४ ॥ हिमा पाण्युपघातस्तदोद्धातोः संवध्यमानेन धातुना सहकाप्यात् एककमेकात् तृतीयान्तेन योगे तुल्यकतुकेऽर्थे वर्तमानात् णम् वा भवति । इण्डेनोपघातं माः सादयति । दण्डोपघातं माः सादयति | खड्गेन प्रहारं खड्गप्रहारं शत्रुन् विजयते । दण्डेनाताडं दण्डाताडं गाः कलयति । पक्षे दण्डेनोपहत्येत्यादि । हिंसादिति किम् । जीवनाशमिति । जीवतीत्यच् । तस्य कर्नशनम् ॥ - पुरुषः प्रेयो भूत्वेति । पृणाति प्रेपणमित्यत्र पुरुष क्रियाशब्द प्रेष्यपर्यायः । अनेकार्थत्वादातुनाम् ॥-जीवेन नश्यतीति । इदमर्थकथन प्रयोगस्तु अस्मिन्न जीवनाश नश्यतीत्यादि न भवति । जीवेन नाश घजन्त नश्यतीति भवति न तु जीवनाशम् ॥-पुरुपं वहतीति । पुरुषस्य वाहमिति तु भवति न तु पुरुषवाहमिति ॥व्याप्यायेवात् ॥-जमालिनाशमिति । जमतीत्यच् । जम भोजनकारक अधति वारयति इत्येवशील तदा ' अजातेः शीले ' णिन् । अलिरिव वा तत्त्वपुष्पैकदेशचुम्बनान् । जमश्वासाव लिन तस्येव नशनम् ॥-उपास्किरो-||-तस्यैवेति निवृत्तमिति । इत अर्थ तस्यवान्पस्पैवेति कामचारः पर यत्र तस्यैव तत्र क्रियाविशेषणमेव ॥विक्षिपन्त इति । पूर्व विक्षिपन्त. पश्चालनन्तीत्यर्थ ॥-हिसार्थादे-॥-दण्डेनापघातमिति । दण्डशब्दात् हेती करणे वा तृतीया । ननु करणोपपदात् हिसार्थादपि 'करणेभ्यः ' इति प्रवर्तते । तत्र च तस्यैवेत्युक्तनिति तस्वोति न्यावृत्ति प्राप्नोति । सत्यम् । 'करणेभ्य. ' इति सूत्रस्य तस्यैवेति व्यावृधिगत्ययस्यापि हन्तेश्चरितार्या इति करणोपपदापि
AWAN