________________
भृशाभीक्ष्ण्ये द्विवचनम् । ननु च भृशाभीक्ष्ण्ययोर्यङपि विधीयते न तु तत्र द्विवचनम् इह तु द्विवचनमित्यत्र को हेतुः । उच्यते । यङ् स्वार्थिकत्वात्मकृत्यर्थोपाधी भृशाभीक्ष्ण्ये समर्थोऽवद्योतयितुम् इति तदभिव्यक्तये द्विवचनं नापेक्षते । हिस्वादयस्तु कर्तृकर्मभावार्थत्वेनास्वार्थिकत्वादसमर्थाः प्रकृत्यर्थोपाधी भृशाभीक्ष्ण्ये अवद्योतयितुमिति तदवद्योतनाय द्विवचनमपेक्षन्ते इति ॥ ४२ ॥ प्रचये नवा सामान्यार्थस्य ॥५।४। ४३ ॥ भृशाभीक्ष्ण्ये यथाविधीति च नानुवर्तते । प्रचयः समुच्चयः । स्वतः साधनभेदेन वा भिद्यमानस्य एकत्रानेकस्य धात्वर्थस्याध्यावाप इति यावत् । तस्मिन् गम्यमाने सामान्यार्थस्य धातोः संवन्धे सति धातोः परी हिस्वौ तध्वमौ च तद्युष्मदि वा भवतः। ब्रीहीन् वप लुनीहिं पुनीहि इत्येव यतते चेष्टते समीहते यत्यते चेष्टयते समीह्यते । पक्षे त्रीहीन् वपति लुनाति पुनातीत्येव यतते यत्यते । देवदत्तोऽद्धि गुरुदत्तोऽद्धि जिनदत्तोद्धि इत्येव भुञ्जते भुज्यते । पक्षे देवदत्तोऽत्ति गुरुदत्तोऽत्ति जिनदत्तोऽति इत्येव भुञ्जते भुज्यते ।ग्राममट वनमट गिरिमटेत्येवादति घटते अट्यते घश्यते । पक्षे ग्राममटति वनमटति गिरिमटतीत्येवाटति घटते अव्यते घट्यते । सक्तून पिव धानाः खाद ओदनं भुक्ष्वेत्येवाभ्यवहरति अभ्यवहियते । पक्षे सक्तून् पिवति धानाः खादति ओदनं भुङ्क्ते इत्येवाभ्यवहरति अभ्यवहियते । सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवाधीते पठति अधीयते पठ्यते । पक्षे सूत्रमधीते नियुक्तिमधीते भाष्यमधीते इत्येवाधीते पठति अधीयते पठ्यते । तध्वमौ च तद्युष्मदि। ब्रीहीन वपत लूनीत पुनीतेत्येव यतध्वे चेष्टध्वे समीहध्वे । त्रीहीन्वप लुनीहि पुनीहि इत्येव यतध्वे चेष्टध्वे समीहध्वे | पक्षे त्रीहीन्वपथ लुनीथ पुनीथेत्येव यतध्वे चेष्टध्वे समीहध्वे । ग्रागमटत वनमटत गिरिमटतेत्येवाटय घटध्वे । ग्राममट वनमट गिरिमटेत्येवाटय घटध्वे । पक्षे ग्राममटथ वनमटथ मिरिमटथेत्येवाटथ घटध्वे । सूत्रमधीध्वं नियुक्तिमधीध्वं भाष्यमधीध्वमित्येवाधीचे पठथ । सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवाधीचे पठथ । पक्षे सूत्रमधीध्वे नियुक्तिमधीचे भाष्यमधीध्वे इत्येवाधीवे पठथ । *एवं वचनान्तरे त्रिकान्तरे विभक्त्यन्तरेऽप्युदाहार्यम् । सामान्यार्थस्येति किम् । श्रीहीन्वप लुनीहि पुनीहीत्येव वपति लुनाति पुनातीति माभूत । ग्राममट वनमट गिरिमटेत्येव ग्राममटति वनमटति गिरिमटतीति च माभूत । कारकभेदेनाटतीत्यस्य सामान्यार्थत्वाभावात् ॥४३॥ निषेधेऽलंखल्वोः क्त्वा ॥५।४।४४॥ निषेधे वर्तमानयोरलंखलुशब्दयोरुपपदयोर्धातोः क्त्वा प्रत्ययो वा भवति । अलं कृत्वा, खलु कृत्वा । न कर्तव्यमित्यर्थः । पक्षे यथाप्राप्तम् । अलं वत्स रोदनेन । अलं रुदितम् । क्त्वान्तयोग एव खलुशब्दो निषेधवाचीति पक्षे खलुशब्दो नोदाहियते । अन्ये तु खलु कृतेन खलु भोजनेन खलु भोजनमित्यप्युदाहरन्ति । निषेध इति किम् । अलंकारः खियाः । सिद्धं खलु । अलंखल्वोरिति किम् । माकारि भवता ॥ ४४ ॥ नार्थोऽन्यथाऽसवभूतार्थवाचिनोरारण्यातयोः परस्परेण सबन्धो नावगम्पेत ॥ न तु तत्र द्विवचनमिति । कि तु भृशाभीक्ष्ण्यनिरपेक्ष 'सन्यच' इत्यनेन ॥-प्रचये नवा ॥-समान एवं सामान्यः स्वार्थे ध्यणन्तो वाचस्पतिना पुलिड्गो निर्णिन्ये । सामान्योऽर्यो यस्य, यहा समानस्य भाव सामान्यमयों वस्य ॥-यथाविधीति च नानुवर्सत इति । प्रचय इति भणनात् सामान्यार्थस्येति भणनाच ॥ एवं वचनान्तरे त्रिकान्तरे इति। एतय हिस्वी प्रत्येव ज्ञातव्य न तध्वमी तयोरेव घटनात् ॥-निषेधेऽलंखल्वोः-॥ क्त्वातुमादीनां कृत्सज्ञाया 'निसनिक्षनिन्दः' इत्यत्र फलम् ॥-खलुशब्दो