________________
श्री पश०
॥ ८० ॥
॥ ८० ॥
*परावरे ॥ ५।४ ॥ ४५ ॥ परे अवरे च गम्यमाने धातोः क्त्वा वा भवति । *अतिक्रम्य नदीं पर्वतः। नयाः परः पर्वत इत्यर्थः। वाल्यमतिक्रम्य यौवनम् । अवरे, अप्राप्य न| दी पर्वतः । नद्या अर्वाक् पर्वत इत्यर्थः । अप्राप्य यौवनं वाल्यम् । नदीपर्वतयोर्वाल्ययौवनयार्वा *पराव रत्वमात्रं प्रतीयते अस्ति प्राप्यत इति वा न द्वितीया क्रियेति । तुल्यकर्तृक| क्रियान्तराभावात् 'माकाले' (५-४-४७) इति न सिध्यतीति वचनम् । वाधिकाराद्यथामाप्तं च । नद्यतिक्रमेण पर्वतः नद्यमात्या पर्वतः ॥ ४५ ॥ *निमील्या दिमेङस्तुल्यकर्तृके || ५|४| ४६|| तुल्यो धावन्तरेण कर्ता यस्य स तुल्यकर्तृकतस्मिन्नर्थे वर्तमानेभ्यो निमील्यादिभ्यो मेङथ धातोः सवन्धे सति क्त्वा वा भवति । निमील्यादीनां समानकाला मेडस्तु परकालार्थ आरम्भः । स्वभावात् 'मेङ् व्यतिहार एव वर्तते । "अक्षिणी निमील्य हसति । मुखं व्यादाय स्वपिति । पादौ प्रसार्य पतति । दन्तान् प्रकाश्य जल्पति । शिशुरयं मातरं भक्षयित्वोपजातः । मेङ्, अपमाय अपमित्य याचते । अपमातुं प्रतिदातुं याचत इत्यर्थः । पूर्व ह्यसौ याचते पश्चादपमयत इति । *याचेस्तु पूर्वकालेऽपि क्त्वा न भवति मेङः परकालभाविन्या क्त्वया- याचिप्राकालस्योक्तत्वात् । पक्षे याचित्वापमयते । अपमातुं याचते । तुल्यकर्तृक इति किम् । चैत्रस्याक्षिनिमीलने मैत्रो हसति । चैत्रस्थापमाने मैत्रो याचते ॥ ४६ ॥ प्राक्काले ॥ ५ । ४ । ४७ ॥ परकालेन धात्वर्थेन तुल्यकर्तृके प्राकालेऽर्थे वर्तमानाद्धातोः धातोः संवन्धे क्त्वा वा भवति । "आसित्वा भुङ्क्ते । भुक्त्वा व्रजति । भुक्त्वा पुनर्भुङ्क्ते । स्नात्वा भुक्त्वा पीत्वा व्रजति । पक्षे आस्यते भोक्तुम् इत्यपि भवति । | तुल्यकर्तृक इत्येव । भुक्तवति गुरौ शिष्यो ब्रजति । माकाल इति किम् । भुज्यते पीयते चानेन । अथ यदनेन भुज्यते ततोऽयं पचाते यदनेनाधीयते ततोऽयं इत्यत्र कथं क्त्वा न भवति । उच्यते । यत्र यच्छब्देन सह ततः शब्दः प्रयुज्यते तत्र ततः शब्देनैव प्राक्कालताभिधीयते इत्युक्तार्थत्वात् क्त्वा न भवति । यदनेन भुक्त्वा गम्यते ततोऽयमधीते इत्यत्र तु भोजनगमनयोः क्रमे क्त्वा । गमनाध्ययनयोस्तु ततःशब्देन क्रमस्याभिधानात् गमेर्न भवति । 'प्राकाले' इत्युत्तरत्र यथासंभवमभिधानतोऽनुवर्तनीयम् ॥ ४७ ॥ णम् चाभीक्ष्ण्ये | ५ | ४ | ४८ ॥ आभोक्ष्ण्यविशिष्टे परकालेन तुल्यकर्तृके माक्कालेऽर्थे वर्तमानाद्धातोर्धातोः | संबन्धे णम् चकारात् क्त्वा च भवति । भोजंभोजं व्रजति । भुक्त्वाभुक्त्वा व्रजति । पायपायं गच्छति । पीत्वापीत्वा गच्छति । अग्रे भोजंभोजं व्रजति । अग्रे नोदाहियत इति । वाक्यमपि खलु विधायेति धात्वन्तरेण कार्यम् ॥ परावरे ॥ अतिक्रम्य नदीं पर्वत इति । अतिक्रमेणेति वाक्य वाक्ये च इत्यभूतलक्षणे तृतीया ॥परावरत्वमात्रमिति । क्रियाद्वये विद्यमानेऽपि परावरयमात्र जिज्ञासितम् ॥ - निमील्यादिमे -- ॥ - मेङ् व्यतिहार एव वर्त्तत इति । अपरे धातवो व्यतिपूर्वा व्यतिहारे वर्तन्तेऽय तु स्वभावात् केवलोऽपीति मान्यैरिव व्यतिहारग्रहणमस्य विशेषक कर्त्तव्यमित्यर्थं ॥-अक्षिणी निर्माल्य इसतीति । निमीलने इति वाक्यम् । अन्तर्भूतण्यर्थ सकर्मक साक्षाणिगन्तो वा । अन्य था तुल्यकर्तृत्व न सगच्छेत । एवमुत्तरेऽपि ॥ - याचेस्तु पूर्वकालेऽपीति । नन्वेवमपि याचे प्राकालवर्तित्वात् उत्तरेण कस्मात् परवा न भवतीत्याह-याचेस्त्वित्यादि । उत्तरेण हि प्राकालद्योतनाय क्वाप्रत्यय क्रियते । याचेस्तु पूर्वकालवर्त्तिता मेडः परकालभाविन्या क्रयया उक्तेति नैरर्थक्यात्तत क्त्वा न भवति ॥ प्राक्काले ॥ प्राक्पूर्व काळोऽस्येति प्राकालस्तस्मिन् ॥ - आसित्वा भुङ्क इति । आसिक्रियाया घर्त्तमानस्येऽपि भुजिक्रियापेक्षया प्राकाल्पम् । अत एव गरको विकरूपपक्षे आस्यते भोक्तुमित्यन्न वर्त्तमाना || एणम् चाभीक्ष्ण्ये -- ॥
पं०अ०सृ०