________________
यमवश्यशब्दोऽस्ति । अवश्यं गेयो गाथको गीतस्य । अवश्यंभव्यश्चैत्रः । आधमण्ये, शतं दायी सहस्रं दायी। कारी में कटमसि । हारी मे भारमसि । गेयो गाथानाम् । णिना वाघो माभूदिति कृत्यविधानम् । कृत्त्वाच कर्तरि णिनो विधानात कृत्यानामपि कर्तर्येव विधानम् । भावकर्मणोस्तु सामान्येन विधानात् सिद्धा एव वाधकाभावात् ॥ ३६॥ अहे तुच् ॥५। ४ । ३७ ॥ अहें कतरि वाच्ये धातोस्तृच प्रत्ययो भवति । भवान कन्याया वोढा । भवान् खलु | च्छेदसूत्रस्य बोढा । सप्तम्या वाधा माभूदिखहें तृजिधानम् ॥ ३० ॥ *आशिष्याशीःपञ्चम्यौ ॥५॥४॥३८॥ आशासनमाशीः । आशीविशिष्टेऽर्थे धर्तमानाद्धातोराशी पञ्चम्यौ विभक्ती भवतः । जीयात् । जीयास्ताम् । जीयासुः । जयतात् । जयताम् । जयन्तु । आशिषीति किम् । चिरं जीवति मैत्रः । कश्चित्तु समर्थनायां पञ्चमीमिच्छति । परैरशक्यस्य वस्तुनोऽध्यवसायः समर्थना । कश्चिदाह समुद्रः शोपयितुमशक्यः । स आह समुद्रमपि शोपयाणि । पर्वतमप्युत्पाटयानि ॥ ३८॥ माङयद्यतनी॥५।४ । ३९ ॥ माङयुपपदे धातोरद्यतनी भवति । सर्वविभक्त्यपवादः । माकार्षीदधर्मम् । माहापीत् परस्वम् । कथं मा भवतु तस्य पापं मा भविष्यात इति । असाधुरेवायम् । केचिदादुरङितो माशब्दस्यायं प्रयोगः ॥ ३९ ॥ सस्मे ह्यस्तनी च ॥५॥४॥ ४० ॥ स्मशब्दसाइते माङयुपपदे धातोबस्तनी चकारादद्यतनी च भवति । *मा स्म करोत् । मा स्म कार्षीत् । मा चैत्र स्म हरः परद्रव्यम् । मा चैत्र स्म हापीः परद्रव्यम् ॥ ४० ॥ धातोः संबन्धे प्रत्ययाः॥५।४।४१॥ धातुशब्देन धात्वर्थ उच्यते । धात्वर्थानां संवन्धे विशेषणविशेष्यभावे सति अयथाकालमपि प्रत्ययाः साधवो भवन्ति । विश्वदृश्वास्य पुत्रो भविता । कृतः कटः श्वो भविता। -भावि कृत्यमासीत् । विश्वदृश्वेति भूतकालः प्रत्ययो भवितेति भविष्यत्कालेन प्रत्ययेनाभिसंबध्यमानः साधुर्भवति । एवं कृतः कटः श्वो भवितेति । भावि कृत्यमासीदित्यत्र तु *भावीति भविष्यत्कालः प्रत्ययः आसीदिति भूतकालेन प्रत्ययेनाभिसंवध्यमानः साधुर्भवति । विशेषणं | गुणत्वाद्रिशेष्यकालमनुरुध्यते । तेन विपर्ययो न भवति । तथा त्याद्यन्तमपि यदापरं त्याद्यन्तं प्रति विशेषणत्वेनोपादीयते तदा तस्यापि समुदायवाक्यार्थापेक्षया | सामान्यविशेषभावेन उदाहारिपत अवश्यभावे तु गम्यमाने नित्यमेव णिन् कृत्याश्च । वाक्य त्ववश्य विधायीत्यादि धात्वन्तरेण कार्यम् ॥-कतर्येव विधानमिति । ये पूर्व ' भव्यगेय '-इत्यादिषु कर्तरि विहितास्त एवेह ज्ञायन्ते इत्पर्य । यद्वा भावकर्मणोरपि ये विहितास्तेऽव कर्तरि भवन्तीत्यर्थ ॥-वाधकाभावादिति । कत्र्तयेव णिना बाध्यन्ते न भावकर्मणोः ॥-अहे तृच ॥सप्तम्या वाधा माभूदिति । 'शक्ताई'-इति विहिताया । सप्तम्येत्युपलक्षणं कर्तृविहितैः कृत्यैरपि बाधा माभूदिति तृविधानम् ॥-आशिप्याशी:-॥-चिरं जीवतीति । चिर इत्यकारान्तो वा| 'कालाध्य ' इति कर्म ॥-माङयद्यतनी ॥-केचिदिति । स्वमतेऽप्यडिन्माशब्दप्रयोगोऽस्ति किंतु क्रियायोगेऽडिन्माशब्दस्य प्रयोगो नेष्यते अत केचिदाहुरित्युक्तम् ॥-सस्मे ह्यस्तनी च ॥मा स्म करोदिति । माशब्देन निषेध उच्यते सशब्देन च स एव द्योत्यते ॥-धातो सबन्धे-1-धात्वर्थ उच्यते इति । शब्दतः सबन्धाऽभावात् ॥-भावि कृत्यमिति । भविष्यतीति 'भुवो वा' इत्यौणादिको णिन्॥-भावीति भविष्यत्काल प्रत्यय इति । नन्वौणादिकानां अनुपात्तकालविशेषाणां विष्वपि कालेषु प्रवृत्त. कथ भविष्यत्वम् । सत्यम् । अस्य गम्यादित्वात् ' वस्पति | गम्यादिः' इत्यनेन भविष्यत्वम् ॥-विपर्ययो न भवतीति । भवितेति भविष्यकालः प्रत्ययो विश्वश्वेति भुतकालेन सवध्यमान. साधुर्भवतीत्यादिरूपः । विश्वश्वेत्यादि हि विशेषण भवितेति च