SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ | निरदनि तदिति निरदनम् । आच्छादि, आच्छादनम् । अवसावि, अवसावणम् । अवसिच् अवसेचनम् । अस् असनम्। वस् वसनम् | आभृग आभरणम् । अपादाने, पत्, प्रपतत्यत्मादिति प्रपतनः । स्कन्दि, प्रस्कन्दनः। च्योति, मच्योतनः। सु, प्रस्रवणः। झुप् , निर्झरणाधू, शङ्खोद्धरणः।दार, अपादानम् । वहुवचनं प्रयोगानुसरणाथम् ॥ १२८ ॥ करणाधारे॥५।३ । १२९ ॥ करणाधारयोरर्थयोर्धातोरनट् भवति । घाद्यपवादः । करणे, एपणी। लेखनी । विचयनी । इध्मत्रश्चनः । पलाशशातनः । अविलवनः । श्मश्रुकर्तनः। आधारे, गोदोहनी । सक्तुधानी । तिलपीडनी । शयनम् । आसनम् । अधिकरणम् । आस्थानम् ॥ १२९॥ *पुंनाग्नि घः॥५। ३ । १३० ॥ पुंसो नाम संज्ञा पुनाम । तत्र गम्यमाने करणाधारयोर्धातोः प्रत्ययो भवति । करणे, प्रच्छेदः । उरच्छदः दन्तच्छदः। प्लवः। प्रणवः। करः। प्रत्ययः । शरः । आधारे, एत्य कुर्वन्यस्मिनित्याकरः। आलवः। आरवः। आपवः । भवः । लयः। विषयः । भरः। महरः । प्रसरः । अवसरः । परिसरः।। विसरः । मतिसरः । पुंग्रहणं किम् । विचीयतेऽनयेति विचयनी । प्रधीयते विकारोऽस्मिन्निति पधानम् । नाम्नीति किम् । पहरणो दण्डः । बहुलाधिकारात्कचिन्न भवति । मसाधनः । दोहनः । घकार 'एकोपसर्गस्य च घे (४-२-३४ ) इत्यत्र विशेषणार्थः ॥ १३०॥ गोचरसंचरवहव्रजव्यजखलापणनिगमयकभगकषाकषनिकषम् ॥ ५।३ । १३१ ॥ एते शब्दाः करणाधारयोः पुनाम्नि व्यञ्जनाद् घनि प्राप्ते घप्रत्ययान्ता निपात्यन्ते । गावश्चरन्ति अस्मिन्निति गोचरो देशः । व्युत्पत्तिमा चेदम् । विपयस्य तु संज्ञा । अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् । संचरन्तेऽनेन संचरः। वहन्ति तेन वहः वृषस्कन्धदेशः। वजन्त्यस्मिन्निति व्रजः । विपूर्वोऽजिः । व्यजत्यनेन व्यजः । निपातनाद्वीभावाभावः । खलन्त्यस्मिन्निति खलः । एस पणायन्ति अस्मिन्निति आपणः । निगच्छन्ति तत्रेति निगमः । वक्तीति वकः । बाहुलकात्कर्तरि । निपचन्त्यनेन निपक इत्यपि कश्चित् । भज्यतेऽनेनास्मिन्निति वा भगः। भगमिति बाहुलकात् क्लीवेऽपि घः। कपत्यस्मिन्निति कपः । एवमाकपः । निकषः ॥ १३१ ॥ व्यञ्जनादु घम् ॥५।३। १३२ ॥ व्यञ्जनान्ताद्धातोः नाम्नि करणाधारे घञ् प्रत्ययो भवति । *घस्यापवादः । विदन्त्यनेन विन्दति विन्दते वा वेदः । चेष्टतेऽनेन चेष्टो वलम्। एत्य पचन्त्यस्मिन्नित्यापाकः। आरामः । लेखः । बन्धः । नेगः । वेगः । रागः। रहः । क्रमः । मासादः। अपामार्गः । नीमार्गः ॥ १३२ ॥ अवात्तस्तृभ्याम् ॥५।३।१३३ ॥ अवपूर्वाभ्यां तृस्तृभ्यां करणाधारयोः पुंनाम्नि पञ् भवति । अवतन्त्पनेनास्मिन्वेति अवतारः। अवस्तृणन्त्यनेनास्मिन्निति वा अवस्तारः । बहुलाधिकारादसंज्ञायामपि । अवतारो नद्याः । उत्पूर्वादपि, नद्युत्तारः । करणाधार इत्येव । अवतरः । केचित्तु संज्ञायामसंज्ञायां च भावेऽकतरि कारके च स्रो नित्यं तरतेस्तु विकल्पेन घजमिच्छन्ति । द्विवचनं करणाधार इति यथासंख्यनिवृत्त्यर्थम् ॥-अवनावणमिति । अवस्रवत् अध पतत् प्रयुङ्क्ते णिगि अवस्राव्यते ॥-वसनमिति । वसिक् वस्यते तदिति ॥-पुन्नानि घ॥-प्रणव इति । प्रणुवन्त्यनेन । स्मरस्तु स्मरन्ति कामिनीमनेनेति वाक्ये अनेन घ इति पारायणम् ॥-प्रधानमिति । सत्वरजस्तमसा साम्यावस्था प्रकृति. प्रधानम् ॥-प्रसाधन इत्यत्र णिगन्तादऽनट् एव दोहन इत्पत्र ॥-व्यञ्जनाद् घञ्। घस्यापवाद इति । पुनानि -इति प्राप्तस्य ॥-अवात्तस्तृभ्याम् ॥-अवतारो नद्या - इति । येनकेनापि पथाऽवतीर्यते स एवायतारो न तु कस्यापि सज्ञा anwerSaveDVIN Meena 3.
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy