________________
श्रीदेमा ॥७२॥
चन्दनतक्षा क्रीडा बहुलाधिकारादेव चातिरित्यत्रादतेः अर्दयतेच यथाक्रमममत्ययमनप्रत्यययं च बाधित्वा क्तिरेव भवति । पुंसि च, अरोचनं न रोचतेस्मिन्निति वा अ अरोचकः। अनाशकः । उत्कन्दकःउत्कर्णकः ॥१२१॥ भावे॥५॥३॥१२२।। भावे धात्वर्थनिर्देशे स्त्रियां धातोर्णकः प्रत्ययो भवति । आसिका। शायिका।जीविका। कारिका । बहलाधिकारात ईक्षा ऊहा ईहा स्मरणा ॥ १२२ ॥ क्लीये क्तः ॥५।३ । १२३ ॥ क्लीवे नपुंसकलिङ्गे भावेऽर्थे धातोः क्तः प्रत्ययो भवति । यजाद्यपवाद । त्रियां भावाकोरिति च निवृत्तम् । हसितं छात्रस्य । नृत्वं मयूरस्य । व्याहृतं कोकिलस्य । गतं मतंगजस्य । क्लीव इति किम् । हसः । हासः ॥ १२३ ॥ अनट् ॥५॥३॥ १२४ ॥ क्लीवे भावेऽथें धातोरनद् प्रत्ययो भवति । गमनं भोजनं वचनं हसनम् छावस्य । टकार उत्तरत्र ड्यर्थः ॥ १२४ ॥ स्यत्कर्मस्पर्शात्कर्बङ्गसुखं ततः॥ ५।३।१२५ ॥ येन कर्मणा संस्पृश्यमानस्य कर्तुरङ्गस्य शरीरस्य सुखमुत्पद्यते ततः कर्मणः पराद्धातोः कीवे भावेऽर्थेऽनट भवति । पूर्वेणैव प्रत्यये सिद्ध नित्यसमासाथै वचनम् । पयःपानं सुखम् । ओदनभोजनं सुखम् । कर्मेति किम् । अपादानादिस्पर्श मा भूत् । तूलिकाया उत्थानं सुखम् । स्पर्शादिति किम् । अग्निकुण्डस्योपासनं सुखम् । करिति किम् । शिष्येण गुरोः स्नापनं सुखम् । नापयतेन गुरुः कर्ता किं तर्हि कर्म । अङ्गग्रहणं किम् । पुत्रस्य परिष्वजनं सुखम् । पुत्रस्य स्पर्शान्न शरीरस्य सुख किं तर्हि मानसी प्रीतः । अन्यथा परपुत्रपरिष्वङ्गेऽपि स्यात् । सुखमिति किम् । कण्टकानां मर्दनम् । सर्वत्रासमासः प्रत्युदाहार्यः । अथवा तत इति सप्तम्यन्तात्तसुः । येन कर्मणा स्पृश्यमानस्य कर्तुरङ्गसुखमुत्पद्यते तस्मिन्कर्मण्यभिधेये सामोत्कर्तुः पराद्धातोरनट् भवति इत्यपरोऽर्थः । राज्ञा भुज्यन्ते राजभोजनाः शालयः । राजाच्छादनाः प्रावाराः । राजपरिधानानि वासांसि ॥ १२५ ॥ रम्यादिभ्यः कतरि ॥५।३।। १२६ ॥ रम्यादिभ्यो धातुभ्यः कर्तर्यनद् भवति । रम् रमणी। कम् कमनी । नन्द नन्दनी । डाद हादनी । वश्च इ-मत्रश्चनः । शातिः पलाशशातनः । वहुवचनं । प्रयोगानुसरणार्थम् ॥ १२६ ॥ कारणम् ।। ५ । ३।१२७ ॥ कृगः कर्तर्यनद् वृद्धिश्च निपात्यते । करोतीति कारणम् । कर्तरीति किम् । करणम् ॥ १२७॥ *भुजिपत्यादिभ्यः कर्मापादाने ॥६।३१ १२८ ॥ भुज्यादिभ्यः पत्यादिभ्यश्च धातुभ्यो यथामख्यं कर्मण्यपादाने चानट् भवति । भुज्यत इति भोजनम् । तु · अकेन क्रीडा'-इति समासस्तेन कावहिताऽकान्तेन सह विधानात् । णकस्त्यनेन कर्तृवर्ज प्रवर्त्तते ॥-चन्दनतक्षेति। चन्दनास्तक्ष्यन्ते यस्यां बाहुलकारपुनमानि विहितोऽपि नियामपि व्यअनादन् । ननु यथा शिरोतिरित्यन बाहुलकाण्णको निषिद्धस्तथा क्तिरपि न प्राप्नोति स्त्रीखलना इति न्यायादिस्याह-बहुलाधिकारादिति ॥-अईयतेश्चेति । क्रधअदिणित्यस्य ||--उत्कन्दक इति । उरस्कन्दनम् उत्स्कयतेऽनेनेति वा पृपोदरायित्वात्सलोप ॥-क्लीवेक्तः ॥-घाद्यपवाद इति । आदिशब्दात् ' ट्वितोऽथु' इत्यादयः ॥-यत्कर्मस्पर्शा-॥-नित्यसमासार्थमिति । 'इस्युक्त कृता' इति अनेन। पूर्वेण हि प्रत्यये उस्युक्तत्वाऽभाये के समास स्यात् ॥-पय पानमिति । नित्यसमासत्वात्पयसा पानमिति न कार्यम् । कितु पयसः पीतिरिति शब्दान्तरेणार्थ कथ्यते ॥-सप्तम्यन्तात्तसुरिति । तदा पृषोदरादित्वाइलोप । 'आ देर' इति तु न तसादौ त्यधिकारात् । एके तु तस्मादावीच्छन्ति ।-रम्यादिभ्य कत्तरि ।-रमणी इति । कृतं १ शकतृचादयोऽनेन अनटा याधिता सन्तो याहुलकादेव भवन्ति । एवमऽन्येपाम् ॥-मवश्चन इति । वुश्तीति । इमाना अश्वन, 'कृति' इति समासः ॥-भुजिपत्यादिभ्य ॥-11॥७२॥