________________
श्री हेमश० ॥ ६९ ॥
पं०अ०तृ०
तरुशिखरे । अस्तेय इति किम् । स्तेयेन पुष्पमचयं करोति । हस्तमाप्यशब्देन प्रमाणमप्युच्यते । यद्धस्ते संभवति न हस्तादतिरिच्यते इति । ततथ 'मान'(५-३-८१) इसनेनैव सिद्धे नियमार्थं वचनम् । अस्तेय एवेति, तेन पुष्पाणां हस्तेन प्रचयं करोति चौर इसत्र 'माने' - (५ - ३ - ८१ ) इत्यनेनापि घन् न भवति ॥ ७८ ॥ चितिदेहावर सोपसमाधाने कश्वादेः ॥ ५। ३ । ७९ ॥ चीयत इति चितिर्यज्ञेऽग्निविशेषः तदाश्वरो वा । देहः शरीरम् । आवासो निवासः । उपसमाधानमुपर्युपरि राशीकरणम् । एष्वर्येषु चिनोतेर्भावाकत्रेर्घञ् तत्संनियोगे चादेः ककारादेशो भवति । चितौ, आकायमत्रिं चिन्वीत । देहे, कायः शरीरम् । आवासे, ऋषिनिकायः । उपसमाधाने, गोमयनिकायः । गोमयपरिकायः । कथं काष्ठनिचयः । बहुत्वमात्रविवक्षया । एष्विति किम् । चयः। चः क इसेव सिद्धे आदिग्रहणमादेरेव यथा स्यात् । तेन चेर्यङ्लुषि निकेचाय इत्येव भवति ॥७९॥ संघेऽनूर्ध्व ॥ ५-३-८०॥ न विद्यते कुतश्चिदूर्ध्वमुपरि किंचिद्यस्मिन् सोऽनूर्ध्वः। तस्मिन्संधै प्राणिसमुदावेऽभिधेये चिनोतेर्भावाकोर्घञ् तत्संनियोगे चादेः को भवति । वैयाकरणनिकायः । तार्किकनिकायः । संघ इति किम् । सारसमुच्चयः । प्रमाणसमुच्चयः। अनूर्ध्व इति किम् करनिचयः सुकरा ह्युपर्युपरि चीयन्ते ॥ ८० ॥ माने || ५ | ३ | ८१ ॥ माने गम्यमाने धातोर्भावाकर्घञ् भवति । मानमियत्ता । सा च द्वेधा । संख्या परिमाणं च । एको निघासः। द्वौ निघासौ । एकस्तण्डुलावक्षायः । एकस्तण्डुलनिश्चायः । एकः कारः। द्वौ कारौ । श्रयः काराः । द्वौ सूर्पानिष्पावो । समित्संग्राहः । तण्डुलसंग्राहः । मुष्टिरित्यर्थः । मान इति किम् | निश्चयः । अल एवायमपवादः । क्त्यादिभिस्तु बाध्यते । एका तिलोच्छ्रितः । द्वे प्रसृती ॥ ८१ ॥ स्थादिभ्यः कः ॥ ५१३३८२|| स्थादिभ्यो धातुभ्यो भावाकः कः प्रत्ययो भवति । आखूनामुत्थानम् आत्थो वर्तते । शलभोत्थो वर्तते । प्रतिष्ठन्त्यस्मिन्निति *मस्थः सानुः । संतिष्ठन्तेऽस्यामिति संस्था । व्यवतिष्ठन्तेऽनयेति व्यवस्था । मरनात्यस्मिन्निति प्रस्त्रः । प्रपिवन्त्यस्यामिति प्रपा । विध्यतेऽनेनेति विघः । आविध्यतेऽनेनेत्याविधः । विहन्यतेऽनेनास्मिन्वा विघ्नः । `आयुध्यन्तेऽनेनेत्यायुधम् । आध्यायन्ति तमित्याढ्यः । पृषोदर दिलात् धस्य ढः । सर्वापवादत्वादनमपि कमत्ययो बाधते । कथमाव्याधः *यांतः विद्यातः *उपघातः । वहुलाधिकारात् । बहुवचनं प्रयोगानुसरणार्थम् ॥ ८२ ॥ दिवतोऽयुः || ५ | ३ | ८३ ॥ दिवतो धातोर्भावाकर्त्रीरथुः | प्रत्ययो भवति । वेपथुः । वमथुः । श्वयथुः । स्फूर्जथुः । भ्रातथुः । नन्दथुः । क्षवथुः । दवथुः । असरूपत्वाद्धनावपि । वेषः । क्षवः ॥ ८३ ॥ यद्धस्ते सभवतीति । हस्ते सम्मातीत्यर्थः ॥ सधेऽनू ॥ सुकरनिचय इति । पूर्वेणापि न भवति व्यावृत्तिवलात् ॥ - माने ॥ द्वौ सूर्पनिप्पावाविति । पवने पावी निश्चितौ पावाविति कार्यम् । ॥ ६९ ॥ निष्पवने इति तु कृते ' निरमे पूरन इत्यनेनापि सिद्धम् ॥ अल एवायमपवाद इति । मध्ये अपवादा पूर्वान् विधीन् बाधन्ते नोत्तरानिति न्यायात् ॥ स्थादिभ्य क ॥ प्रस्थ इति । पूर्वस्तिष्ठतिर्गत्यर्य इति क्षीर । यदि प्रतिष्ठते मानार्थमिति किपते तदा ' उपसर्गादातो डोऽश्व इति दे प्रस्थो मानमिति भवति ॥ - संस्थेति । उपसर्गादात इयड बाधिन्ता खिया स्खलनावित्यनट् स्यादित्यत्र पाठ. ॥ विघ्न इति । स्थादिगणपाठवलात् करणेऽपि क. प्रायये, न तु व्ययोगो' करणे इत्यनेनाल ॥ - घात इति विधात इतिवन् ॥ - घात उपघात इति ।