________________
/
भवाकर्धग्भवाते । प्रसावः । मद्रायः । प्रस्तावः । मादिति किम् । खवः । द्रयः । स्तवः । कथं खावः । बहुला विकारात् ॥ ६७ ॥ अज्ञेः || ५ | ३ | ६८ ॥ प्रपूर्वात्स्तृ इत्येतस्मात् धातोर्भावाकर्घेन् भवति 'अयज्ञे' न चेत् यज्ञत्रिपयः प्रयोगा भवति । प्रस्तारः । मणिमस्तारः । विमानप्रस्तारः । नयप्रस्तारः । अयज्ञ इति किम् । वर्हिष्पस्तरः । ' समासे समस्तस्य ' - ( २ - ३ - १३ ) इति पत्वम् ॥ ६८ ॥ वेरशब्दे प्रथने || ५ | ३ | ६९ ॥ | प्रथनं विस्तीर्णता । वेः परास्तृणातेरशन्दविषये प्रथनेऽभिधेये घन् भवति । विस्तारः पटस्य । प्रथन इति किम् । तृणस्य विस्तरः । छादनमित्यर्थः । अशब्द इति किम् । अहो द्वादशाङ्गस्य विस्तरः ॥ ६९ ॥ छन्दोनाम्नि || ५ | ३ |७० ॥ छन्दः पयो वर्णविन्यासः । विपूर्वात् स्तृणातेश्छन्दोनाम्नि विषये धन् भवति । *विष्टारपङ्क्तिः । केचित्तु वेरन्यतोऽपीच्छन्ति । आस्तारपङ्क्तिः । प्रसार पक्तिः छन्दोनाम ॥ ७० ॥ क्षुश्रोः || ५ | ६ | ७१ ॥ क्षौतेः शृणोतेथ विपूर्वाद्भावाकत्रो भवति । विक्षापः । विश्रात्रः । वेरित्येव । क्षवः । श्रवः ॥ ७१ ॥ न्युदो ग्रः ॥ ५ । ३ । ७२ ॥ न्युद्भ्यां परारितेर्गुणातेर्वा भावाकत्रेर्घञ् भवति । निगारः । उद्वारः । न्यु इति किए। गरः । -संगरः ॥ ७२ ॥ किरो धान्ये ॥ ५ । ३ । ७३ ॥ न्युत्पूर्वात्किरतेर्धान्यविषये धात्वर्थे वर्तमानाद्भावाकर्धन् भवति । निकारो धान्यस्प | उत्कारो धान्यस्य । राशिरित्यर्थः । धान्य इति किम् । फलनिकरः । पुष्पोत्करः ॥ ७३ ॥ नेर्बुः ॥ ५ । ३ । ७४ ॥ निपूर्ववृणोते
।
धान्यविशेषेऽभिये भावान् भवति । नित्रियन्त इति नीवारा नाम श्रीहिविशेषाः । ' घञ्युपसर्गस्य बहुलम् - ( ३-२-८६ ) इति दीर्घतम् । धान्य इत्येव । निवरा कन्या । स्वभावादलन्तोऽप्ययं स्त्रियां वर्तते । क्तिस्तु बहुलाधिकारान्न भवति ॥ ७४ ॥ इणोऽभ्रेषे ॥ ५ । ३ । ७५ ॥ स्थितेरचलनमभ्रेपः । निपूर्वादिणोऽश्रेषविषयेऽर्थे वर्तमानाद्भावाकर्धेञ् मत्ययो भवति । शास्त्रलोकप्रसिद्ध्यादिना नियतमयनं न्यायः । अभ्रेप इति किम् । न्ययं गतचौरः ॥ ७५ ॥ परेः क्रमे ॥ ५ । ३ । ७६ || क्रमः परिपाटी । परिपूर्वादिणः क्रमविषयेऽर्थे वर्तमानाद्भावात्रर्घञ् भवति । तत्र पर्यायो भोक्तुम् । मम पर्यायो भोक्तुम् । क्रमेण पदार्थानां क्रियासंबन्धः पर्यायः । क्रम इति किम् । पर्ययः स्वाध्यायस्य, अतिक्रम इत्यर्थः । विपर्ययो मतेः, अन्यथाभवनमित्यर्थः ॥ ७६ ॥ व्युपाच्छीङः ॥ ५ । ३ । ७७ ॥ व्युपाभ्यां पराच्छीङो भावाकर्घन् भवति कसे क्रमविषयद्धात्वर्थी भवति । तव राजविशायः । मम राजोपशायः । क्रमप्राप्तं पर्यायसाध्यं शयनमुच्यते । अन्ये तु शयितुं पर्याय उच्यते इत्याहुः । क्रम इति किम् । विशयः । उपशयः ॥ ७७ ॥ * हस्तप्राप्ये चेरस्तेये ॥ ५ । ३ । ७८ ॥ हस्तेनोपायान्तरनिरपेक्षेण प्राप्तुं शक्यं हस्तप्राप्यम् । तद्विषयाचिनोतेर्भावाकर्धन भवति अस्तेये न चेद्धात्वर्थस्तेये चौर्ये भवति । हस्तमाप्यशब्देन प्रत्यासत्तिः प्राप्यस्य लक्ष्यते । तेन प्रत्यासत्तिविषये धात्वर्थे विधानम् । पुष्पप्रचायः । फलावचायः । फलोचायः । फलोश्चायश्च संहतैः । उदो नेच्छन्त्यन्ये ॥ फलोच्चयः । हस्तमाप्य इति किम् । पुष्पप्रचयं करोति ॥ छन्दोनानि ॥ - विद्यारपङ्क्तिरिति । पङ्क्त्यन्त छन्दोनामेति वाक्यावस्थाया घञ् न तेन विस्तरश्वासौ पङ्क्तिश्चेति कर्म्मधारय । परिपञ्चमीतत्पुरुषो वा ॥ - न्युदो ग्रः ॥ संगर इति । सगीयंतेऽभ्युपगम्यते बोद्धभिर्युद्ध सगरणं या या प्रतिज्ञा ॥ किरो धा ॥ निकार स्तिरस्कार इति तु करोतेषं ॥ व्युपाच्छीङः । स्यमते शयनस्य प्राधान्य तन्मते तु पर्यायस्येति तात्पर्यार्थः ॥ हस्तप्राप्ये- |-|