________________
1
संज्ञाने । चेतः चित्तम् । प्रचेता वरुणः । मनिच् ज्ञाने । मनः नोइन्द्रियम् । ब्रूगक व्यक्तायां वाचि । वचः वचनम् । रुदृक् अश्रुविमोचने । रोदः नभः । रोदसी द्यावापृथिव्यौ । रुर्धृपी आवरणे | रोधः तीरम् । अनक् प्राणने । अनः शकटम् अन्नं भोजनं च । सुं गतौ । सरः जलाशयविशेषः । तृ लवनतरणयोः । तरः वेगः वलं च । रहु गतौ । रंहः जयः । तिजि क्षमानिशानयोः । तेजः दीप्तिः । मयि दीप्तौ । मयः सुखम् । मह पूजायाम् । महः तेजः । अर्चि पूजायाम् । अर्च: पूजा । पलं विशरणादौ । सदः सभा भवनं च । अञ्जौप् व्यक्यादौ । अञ्जः स्नेहः ॥ ९५२ ॥ पाहाभ्यां पययौ च ॥ ९५३ ॥ पां पाने ओहां त्यागे इत्याभ्यामस् प्रसयो भवति ययासंख्यं च पय् ह्य इत्यादेशावनयोर्भवतः । पयः क्षीरं जलं च । ह्यः अनन्तरातीते दिने ॥ ९५३ ॥ छदिवहिभ्यां छन्दोधौ च ॥ ९५४ ॥ छदण संवरणे वहीं प्रापण इसाभ्यामम् प्रत्ययो यथासंख्यं चानयोः छन्द् ऊधू इत्यादेशौ भवतः । छन्दः वेदः इच्छा वाग्बन्धविशेषश्च । ऊधः धेनोः क्षीराधारः ॥ ९६४ ॥ श्वेः शब् च वा ॥ ९५५ ॥ वो श्वि गतिवृद्ध्योरित्यस्मात् अस् प्रत्ययो भवति अस्य च शब् इत्यादेशो वा । शवः रोगाभिधानं मृतदेहथ । शवसी । शवांसि । श्वयः शोफः वलं च। श्वयसी । श्वयांसि ॥ ९५५ ॥ विश्वाविदिभुजिभ्याम् ॥ ९५६ ॥ विश्वपूर्वाभ्यामाभ्यामस् मत्ययो भवति । विदक् ज्ञाने । विश्ववेदाः अग्निः । | भुजंप् पालनाभ्यवहारयोः । विश्वभोजाः अग्निः लोकपालश्च ॥ ९५६ ॥ चायेनों ह्रस्वश्च वा ॥ ९५७ ॥ चायम् पूजा निशामनयोः इत्यस्मात् अस् प्रत्ययो नकारोऽन्तादेशो ह्रस्ववास्य वा भवति । चणः चाणश्चान्नम् । बाहुलकाण्णत्वम् । णलं नेच्छन्त्येके ॥ ९५७ ॥ अशेर्यश्वादिः ॥ ९५८ ॥ अशम् भोजने अशौटि व्याप्तावित्यस्माद्वास्प्रत्ययो यकारश्च धात्वादिर्भवति । यशः माहात्म्यम् सत्त्वं श्री ज्ञानं प्रतापः कीर्तिश्च । एवं शोभनमश्नाति अश्नुते वा सुयशा | नागमेवाश्नाति नागयशाः । वृहदेनोऽश्नाति वृहद्यशाः । श्रुत एनोऽश्नाति श्रुतयशाः । एवमन्येऽपि द्रष्टव्याः ॥ ९५८ ॥ उपेर्ज च ॥ ९५९ ॥ उपू दाहे इत्यस्मादस् प्रत्ययो जकारश्रान्तादेशो भवति । ओजः वलं प्रभावः दीप्तिः शुक्रं च ॥ ९५९ ॥ स्कन्दे च ॥ ९६० ॥ कंट्टं गतिशोषणयोः इत्यस्मात् अस् प्रत्ययो भवि धकारश्रान्तादेशः । स्कन्नः स्वाङ्गम् ॥ ९६० ॥ अवेर्वा ॥ ९६१ ।। अव रक्षणादावित्यस्मादस् प्रत्ययो धकारश्रान्तादेशो वा भवति । अधः अवरम् । अवः रक्षा ॥९६२॥ अहौ चान्तौ ॥ ९६२ ॥ अम गतावित्यस्मादस् प्रत्ययो भकारकारौ चान्तौ भवतः । अम्भः पानीयम् । अंहः पापम् अपराधः दिनव ॥ ९६२ ॥ अदेरन्ध वा ॥ ९६३ ॥ अर्दक भक्षणे इत्यस्मादम् प्रत्ययोऽन्धादेशश्चास्य वा भवति । अद्यते तदिति अन्धः अन्नम् । अयते दृशा मनसा च तत् इति अदः, अनेन प्रत्यक्षविनकृष्टम् अप्रत्यक्षं च बुद्धिस्थमपदिश्यते ॥ ९६३ ॥ आपोपाप्ताप्सराजाच ॥ ९६४ ॥ आपद् व्याप्तावित्यस्मात् अम् प्रत्ययोऽप् अप्त् अप्सर् अब्ज् इत्यादेशाश्चास्य भवन्ति । अपः सत्कर्म । अतः तदेव । अप्सरसः देवगणिकाः । अब्जः जलजम् अजय च रूपम् ॥ १६४ ॥ | उच्यञ्चः क च ॥ ९६५ ॥ उचच समवाये अच गतौ चेत्याभ्यामस् प्रत्ययो ऽनयोश्च कोऽन्तादेशो भवति । ओकः आलयः जलौकसश्च । अङ्कः स्वाङ्गम् रणश्च ।। ९६५ ।।
VAAAAAAAA