________________
००वि०
creementaticisines
श्रौढमश०. जमिक्षमिकमिशमिसमिभ्यो डित्॥९३७॥ एभ्योडिदम् प्रत्ययो भवति । गम्लं गतौ । गम् । जमू अदने। जम् । क्षमौपि सहने । क्षम्। एतानि भार्यानामानि । काङ् ॥३२॥ कान्तौ । कम् पानीयम् । शमूच उपशमे । शम् सुखम् । पर वैक्लव्ये । सम् । संभवति ॥९३७॥ इणो मक् ॥९३८॥ इणक् गतावित्यस्मात् किन दम् प्रत्ययो भवति ।
इदम् प्रत्यक्षनिर्देशे ॥ ९३८ ॥ कोर्डिम् ।।९३९॥ कुंङ् शब्दे इत्यस्मात् डिदिम् प्रत्ययो भवति । किम् अनेनाविज्ञातं वस्तु पर्यनुयुज्यते ॥९३९॥ तृपेरीम् णोऽन्तश्च ॥९४०॥ तूप तुष्टावित्यस्मादीम् प्रत्ययो णकारश्वास्यान्तो भवति । तूष्णी वानियमे ॥९४० ॥ ईकमिशमिसमिभ्यो डित् ।। ९४१ ॥ एभ्यो डिदीम् प्रत्ययो भवति । ईङ च् गतौ । ईम् । कमूकान्तौ । कीम् । शमूच् उपशमे । शीम् । पम् वैक्लव्ये। सीम् । अभिनयव्याहरणान्येतानि । ईम् शीम् अव्यक्ते । कीम् संशयप्रश्नादिषु। सीम् अमर्पपादपूरणयोः ॥ ९४१ ॥ क्रमिगमिक्षमेस्तुमाचातः ॥ ९४२ ।। एभ्यस्तुम् प्रसयोऽकारस्य चाकरो भवति । क्रम पादविक्षेपे । क्रान्तुं गमनम् । गम्लं गतौ । गान्तुम् पान्यः । क्षमौपि सहने । क्षान्तुम् भूमिः तुमर्थश्च सर्वत्र ॥ ९४२॥ गृपूदुर्विधुर्विभ्यः किम् ॥ ९४३ ॥ एभ्य किप् प्रत्ययो भवति । गृश् शब्दे । गीः वाक् । पृश् पालनपूरणयोः । पू: नगरी । दुवै धुर्वे हिंसायाम् । दुः देहान्तरवयवः । धुः शकटाङ्गम् आदिश्च ॥ ९४३ ॥ वादारी ॥ ९४४ ॥ एतौ किमययान्तौ निपात्यते । वृणोतेटेद्धिश्च । वाः पानीयम् । कमणि दश्च धात्वादिः । वृण्वन्ति तामिति द्वाः द्वारम् । हूँ वरणे इत्यस्य च णिगन्तस्य रूपम् ॥ ९४४ ॥ प्रादतरर
॥ ९४५ ॥ प्रपूदित सातत्यगमने इत्यस्मादर् प्रत्ययो भवति । प्रातः प्रभातम् ॥ ९४५ ॥ सोरतेलक् च ॥ ९४६ ॥ सुपूर्वाईक गतावित्यस्मादर प्रसयो धातोश्च , लुग् भवति । स्वः स्वर्गः ॥ ९४६ ॥ पूसन्यमिभ्यः पुनसनुतान्ताश्च ॥ ९४७ ॥ पूग्श् पवने, पण भक्ती, अम गतावित्येतेभ्योऽर् प्रत्ययो भवति यथासंख्यं च |
पुन् सनुत् अन्त इत्यादेशा एप भवन्ति | पुनः भूयः । सनुतः कालवाची । अन्नः मध्ये ॥ ९४७॥ चतेरुर् ॥ ९४८॥ चतेग् याचने इत्यस्मादुर् प्रत्ययो भवति । चत्वारः संख्या । चत्वारे । चतस्रः ॥ ९४८ ॥ दिवेर्डिव् ॥ ९४९ ॥ दिवूच क्रीडादावियस्मात् डिदिव् प्रत्ययो भवति । द्यौः स्वर्गः अन्तरिक्षं च । दिवौ । दिवः ॥ ९४९ ॥ विशिविपाशिभ्यां किम् ॥ ९५० ॥ आभ्यां किप् प्रत्ययो भवति । विशंत प्रवेशने । विशः प्रजाः। विट् वैश्यः पुरीपं अपसं च। पशण बन्धने, विपू
। विपाशयति स्म वनिष्ठमिति विपाद् नदी ॥ ९५० ॥ सहेः षष् च ॥ ९५१ ॥ पहि मणे इत्यस्मात् किप् प्रत्ययः पप् चास्यादेशो भवति । पद संख्या ॥ ९५१ ॥ अस् ॥ ९५२ ॥ सर्वधातुभ्यो बहुलमस् प्रत्ययो भवति । तपं संतापे । तपः संतापः माघमासः निर्जराफलं चानशनादि । मुष्ट तपतीति सुतपाः। एवं महातपाः । णमं प्रहत्ते । नम पूजायाम् । तमूच काङ्क्षायाम् । तमः अन्धकारः तृतीयगुणः अज्ञानं च । इणक गतौ। अयः काललोहम् । वीर प्रजनादौ । वयः पक्षी प्राणिनां कालकृता शरारीवस्था च यौवनादिः । वचिं दीप्तौ । वर्चः लावण्यम् अन्नमलं तेजश्च । सुष्ट वचते इति सुवर्चाः । रक्ष पालने । रक्षः निशाचरः। वि मिदाच स्नेहने । मेदः चतुर्थो धातुः । रह त्यागे । रहः प्रच्छन्नम् । पहि मर्पणे । सहाः मार्गशीर्षमासः । णभच् हिंसायाम् । नमः आकाशं श्रावणमासश्च । चित
anworonwroener