________________
avre
आभ्यामिमन् प्रत्ययो भवति । हंग् हरणे । हरिमा पापविशेषः मृत्युः वायुश्च । जनैचि प्रादुर्भावे । जनिमा धर्मविशेषः संसारश्च ॥ ९१७ ॥ सहभृधृस्तृसभ्य ईमन् ११॥ ९१८ ॥ एभ्य ईमन् प्रत्ययो भवति । मुं गतौ । सरीमा कालः। हुंग हरणे । हरीमा मातरिश्वा । टुहु भुंगा पोपणे च । भरीमा क्षमी राजा कुटुम्बं च।
धुंग् धारणे । धरीमा धर्मः । स्तगश् आच्छादने । स्तरीमा प्रावारः॥ पूर्व प्रेरणे। सवीमा गर्भ: प्रतिश्च॥९१८॥गमेरिन् ॥ ९१९।। गम्लं गतावित्यस्मादिन् प्रत्ययो भवति । गमिष्यतीति गमी जिगमिषुः ॥ ९१९ ॥ आङश्व णित् ९२०॥ आपत्केिवलाच गणिदिन् प्रत्ययो भवति। आगमिष्यतीति आगामी प्रोपितादिः । गमिष्यतीति गामी प्रस्थितादिः॥ ९२०॥ सुवः ॥ ९२१ ॥ पूजच् माणिप्रसवे इत्यस्मात् णिदिन् प्रत्ययो भवति । आसावी आसविष्यमाणः जनिप्यमाण इत्यर्थः॥ ९२२॥ भुवो वा॥९२२॥ भू सत्तायामित्यस्मात् इन् प्रत्ययः स च णिद्वा भवति । भविष्यतीति भावी कर्मविपाकादिः । भवी भविष्यन् ॥ ९२२॥ प्रप्रतावुधिभ्याम् ॥९२३॥ प्रपूर्वात् प्रतिपूर्वाच्च यांक प्रापणे, बुधिमनिच् ज्ञाने इत्यस्मात् च णिदिन् प्रत्ययो भवति । प्रयास्यतीति प्रयायी, प्रतियास्यतीति प्रतियायी।पभोत्स्यत इति प्रबोधी प्रतिरोधी बालादिः ॥९२३॥ प्रात् स्थः ॥९२४॥ प्रपूर्वात् ठां गतिनिवृत्तावित्यस्माणिदिन् प्रत्ययो भवति । प्रस्थास्यते इति प्रस्थायी गन्तुमनाः॥ ९२४॥ परमात् कित् ॥ ९२५ ॥परमपूर्वोत् तिष्ठतेः किदिन् प्रत्ययो भवति । परमे पदे तिष्ठतीति परमेष्ठी अहंदादिः । भीरुष्ठानादित्वात् पत्वम्, सप्तम्या अलुप् च ॥ ९२५ ॥ पथिमन्धिभ्याम् ॥ ९२६ ॥ आभ्यां किदिन् प्रत्ययो भवति । पथे गतौ । पन्थाः मार्गः। पन्थानौ । पन्थानः। पथिमियः । मन्थश् विलोडने । पन्थाः क्षुब्धः वायुः वज्रश्च । मन्थानौ । मन्थानः । मथिमियः ॥ ९२६ ॥ होर्मिन् ॥ ९२७ ॥ हुंकु दानादनयोरित्यस्मात मिन् प्रत्ययो भवति । होमी ऋत्विक घृतं च ॥ ९२७ ॥ अर्तेभुक्षिनक् ॥ ९२८ ॥ क् गतावित्यस्मात् भुक्षिनक् प्रत्ययो भवति । ऋभुता इन्द्रः । ऋभुक्षाणौ । ऋभुक्षाणः ॥ ९२८ ॥ अदस्त्रिन् ॥ ९२९ ॥ अदंक भक्षणे इयस्मात् त्रिन् प्रत्ययो भवति । अत्री ऋपिः ।। ९२९॥ पतेरविन् ॥ ९३० ॥ पतल गतावित्यस्मादत्रिन् प्रत्ययो भवति । पतत्री पक्षी ॥९३०॥ आपः किए इस्वश्च ॥९३१॥ आपलं व्याप्तावित्यस्मात् किप् प्रत्ययो इस्वश्चास्य भवति । आपः अम्भः। स्वभावाद्रहुत्वम् ॥९३१॥ ककुत्रिष्टबनुष्टुभः ॥ ९३२ ॥ एते किप्प्रत्ययान्ता निपात्यन्ते । कपूर्वात् स्कुनातेः सलोपश्च । कं वायुं ब्रह्म च स्कुघ्नन्तीति ककुभो दिशः । कुकुप उष्णिक छन्दः । व्यनुपूर्वात् स्कुनातेः सः पश्च । त्रिष्टुप् छन्दः। अनुष्टुप् छन्दः । बहुवचनानिजिविजिविषां किए शित् । नेनिक प्रजापतिः। वैविक शुचिः । विद् चन्द्रमाः ॥ ९३२ ॥ अवमः ।। ९३३ ॥ अव रक्षणादावित्यस्मान्मः प्रत्ययो भवति । अवतीति ओम् ब्रह्म प्रणवश्च ॥ ९३३ ॥ सोरेतेरम् ॥ ९३४॥ मुपूर्वादिणक् गतावित्यस्मात् अम् प्रत्ययो भवति । स्वयम् आत्मना ॥ ९३४ ॥ नशिनूभ्यां नक्तनूनौ च ॥ ९३५ ॥ नशौच अदर्शने यत स्तवने आभ्यामम् प्रत्ययो नक्त नून इत्यादेशौ चानयोर्भवतः । नक्तं रात्रौ । नूनं वितर्के ॥९३५॥ स्यतेर्णित्॥९३६॥ पोच अन्तकर्मणीत्यस्मात् णिदम् प्रत्ययो भवति । सायम् दिवसावसानम् ॥९३६ ॥गमि