________________
१६६००वि० मा0 अज्यजियुजिभुजेर्ग च ॥ ९६६ ॥ एभ्योऽस् प्रत्ययो गकारश्चान्तादेशो भवति । अऔप व्यक्त्यादौ । अङ्गः क्षत्रियनाम गिरिपक्षी व्यक्तिश्च । अज क्षेपणे
च । अगः क्षेमम् । युनूंपी योगे । योगः मनः युगं च । भृजैङ् भर्जने । भर्गः रुद्रः हविः तेजश्च ॥ ९६६ ॥ अर्तेरुराशौ च ॥ ९६७ ॥ ऋक् गतावित्यस्मादम् प्रत्ययोऽस्य चोरिति अर्थ इति च तालव्यशकारान्त आदेशो भवति । उरः वक्षः । अशॉसि गुदादिकीलाः ॥ ९६७॥ येन्धिभ्यांयादेधी च ॥ ९६८ ॥ यांक प्रापणे, बि इन्धपि दीप्तौ इसाभ्यामस् प्रत्ययो यथासंख्यं च याद् एध इत्यादेशौ भवतः । यादः जलदुष्टसत्त्वम् । एधः इन्धनम् ॥ ९६८ ॥ चक्षः शिदा ॥ ९६९ ॥ चक्षिक् व्यक्तायां वाचीत्यस्मात् अस् प्रत्ययो भवति स च शिद्वा । चक्षः ख्याः उभे आप रक्षोनानी। आचक्षाः वाग्मी। आख्या: प्रख्याश्च वृहस्पतिः । संचक्षाः ऋत्विक् । नृचक्षाः राक्षसः॥ ९६९ ॥ वस्त्यगिभ्यां णित् ॥ ९७० ॥ वस्त्यगिभ्यां णिदस् प्रत्ययो भवति । वसिक् आच्छाश्चने । वासः वस्त्रम् । अग कुटिलायां गतौ । आगः अपराधः ॥ ९७० ॥ मिथिरज्ज्युषितृपृशृभूवष्टिभ्यः कित् ॥ ९७१ ॥ एभ्यः किदस् प्रत्ययो भवति । मिधृग मेधाहिसयोः। मिथः परस्परम् रहसि चेत्यर्थः। रजी रागे । रजः गुणः अशुभम् पांसुश्च । उषू दाहे । उपाः संध्या अरुणः रात्रिश्च । तृ प्लवनतरणयो । तिरस्करोति, तिरः कृत्वा काण्डं गतः । तिर इति अन्तवनृजुत्वे च । पृश् पालनपूरणयोः । पुरः पूजायाम् । तथा च पठन्ति नमः पूजायां पुरैश्चेति । शश हिंसायाम् । शृणाति तद्वियुक्तमिति शिरः उत्तमानम् । भू सत्तायाम् । भुवः लोकः अन्तरिक्षम् सूर्यश्च । वशक् कान्तौ । उशा रात्रिः ॥ ९७१ ॥ विधेर्वा ॥ ९७२ ॥ विधत् विधाने इत्यस्मादम् प्रत्ययो भवति स च किद्वा । वेधाः विद्वान् सर्ववित प्रजापतिश्च । विधाः स एव ॥ ९७२ ॥ नुवो धथादिः ॥ ९७३ ॥ शत् स्तवने इसस्माद्धकारादिस्थकारादिश्च किदम् प्रत्ययो भवति। नूधा नूयाश्च सूतमागधौ । धादौ गुणमिच्छन्येके। नोधाः ऋपिः ऋत्विक् ॥९७३॥ वयः पयःपुरारतोभ्योधागः॥९७४॥ एभ्यः परात डुधांगक धारणे चेत्यस्मात् किदस् प्रत्ययो भवति । वयोधाः युवा चन्द्रः प्राणी च । पयोधाः पर्जन्यः। पुरोधाः पुरोहितः उपाध्यायश्च । रेतोधा जनक ॥ ९७४ ॥ नत्र ईहेरेहेधौ च ॥ ९७५ ॥ नज़पूर्वादीहि चेष्टायामित्यस्मात् अस् प्रययोऽस्य च एह एथ् इत्यादेशौ भवतः । अनेहाः कालः इन्द्रः चन्द्रश्च । अनेधाः अग्निः वायुश्च ॥ ९७५ ॥ विहायस्सुमनस्पुरुदंशस्पुरूरवोऽङ्गिरसः ॥ ९७६ ॥ एतेऽस्मत्ययान्ता निपात्यन्ते । विपूर्वाज्जहातेनिहीतेर्वा योऽन्तश्च । विजहा-2 तीति विहायः आकाशम् । विजिहीत इति विहायाः पक्षी । सुपूर्वान्मानेहस्वश्च । सुष्टु मानयन्ति मान्यन्ते वा सुमनसः पुष्पाणि । पुरुं दशतीति पुरुदंशाः इन्द्रः। पुरुपूर्वाद्रौतेदीर्घश्च । पुरु रौति पुरूरवाः राजा यमुर्वशी चकमे । अङ्गेरिरोऽन्तश्च । अङ्गतीत्यगिरा ऋषिः ॥ ९७६ ॥ पातेजस्थसौ ॥ ९७७ ॥ पांच रक्षण इत्यस्मात् जस थस इत्येतो प्रत्ययौ भवतः । पाजः बलम् । पाथ उदकम् अन्नं च ॥ २७७ ॥ सुरीभ्यां तस् ॥ ९७८ ॥ आभ्यां तस् प्रत्ययो । भवति । सुं गतौ । स्रोतः निर्धारणम् । सुगु स्रवतीति सुस्रोताः । रीश् गतिरेपणयोः । रेतः शुक्रम् ॥ ९७८ ॥ अर्तीणभ्यां नस् ॥ ९७९ ॥ आभ्यां
Samvaad
६३॥