________________
सरस्सseem
पदिंच गतौ । पादुः पादुका । क् गतौ । आरू वृक्षविशेषः कच्छुः गतिः पिङ्गलश्च । आदिग्रहणात् कचतेः काचूः, शलतेः शालूः इत्यादयोऽपि ॥८३५ ॥ अणे?ऽन्तश्च ॥ ८३६ ॥ अणेर्धातोर्णिदूः प्रत्ययो भवति डवान्तः । अण शब्दे ॥ आण्डूः जलभृङ्गारः ॥ ८३६ ॥ अडो ल् च वा ॥ ८३७ ॥ अड उयमे | इत्यस्माणिः प्रत्ययो भवति लबान्तादशो वा। आलूः भृङ्गारः करकश्च । आडूः दर्वी दिभिः वनस्पतिः जलाधारभूमिः पादभेदनं च ॥८३७ ।। नमो लम्बेर्नलुक १४ च॥ ८३८ ॥नपूर्वात लवक अवलंसने चेत्यस्मात् णिः प्रत्ययो नकारस्य च लुम् भवति । अला: तुम्बी ॥ ८३८ ॥ कफादीरेले च ॥ ८३९॥ कफपूर्वादीरिक गतिकम्पनयोरित्यस्मादूः प्रत्ययो लकारश्चान्तादेशो भवति । कफेलूः श्लेष्मातकः यवलाजाः मधुपर्कः छादिपेयं च तृणम् ।। ८३९ ॥ ऋतो रत् च ॥ ८४० ॥ ऋत् घृणागतिस्पर्धेषु इत्यस्मादूः प्रत्ययो रत् चास्यादेशो भवति । रतूः नदीविशेषः सत्यवाक् दूतः कृमिविशेषश्च ॥ ८४० ॥ दृभिचपेः स्वरान्नोऽन्तश्च ॥८४१॥ आभ्यां पर ऊः प्रत्ययः खरात परो नोऽन्तश्च भवति । दभैत् ग्रन्थे । दन्भूः सर्पजातिः वनस्पतिः वजः ग्रन्थकारः दर्भणं च बाहुलकात 'नां धुड्वर्गेऽन्त्योऽपदान्ते' इति नकारस्य लुक् न भवति । चप सान्त्वने । चम्पूः कथाविशेषः ॥ ८४१॥ धृषेर्दिधिषदिधीषौ च ॥८४२॥ विधृपाद प्रागल्म्ये इत्यस्मात् ऊः प्रत्ययो दिधिप् दिधोप् इत्यादेशो चास्य भवतः । दिधिपूः ज्यायस्याः पूर्वपरिणीता पुंश्चली च। दिधीपूः ऊढायाः कनिष्ठाया अनूढा ज्येष्ठा पुनर्भुः आहुतिश्च ॥ ८४२॥ भ्रमिगमितनिभ्यो डित् ॥ ८४३॥ एभ्यो डिदूःप्रत्ययो भवति । भ्रमूच अनवस्थाने । भ्रूः अक्ष्णोरुपरि रोमराजिः।गम्लं गतौ। अग्रे गच्छत्यग्रेनः पुरस्सरः । तनूयी विस्तारे । कुत्सितं तन्यते कुतूः चर्ममयमावपनम् ॥८४३॥ तिधिरुषिकुहिभ्यः कित् ॥८४४॥ एभ्यः किदः प्रत्ययो भवति । नृतच नर्तने। नृतः नर्तकः कृमिजातिः प्लवः प्रतिकृतिश्च । शृधूङ् शब्दकुत्सायाम् । शृधूः शर्धनः कृमिजातिः अपानं वलिश्च दानवः । रुपंच रोपे । रुषूः भर्त्सकः। कुहणि विस्मापने । । कुहूः अमावास्या ॥ ८४४ ॥ तृखडिभ्यां डूः ॥ ८४५ ॥ आभ्यां दूः प्रत्ययो भवति । तृ प्लवनतरणयोः । तडू द्रोणी प्लवः परिवेषणभाण्डं च । खडण् भेदे खड्ड्ः वालानामुपकरणम् स्त्रीणां पादाङ्गुष्ठाभरणं च ॥ ८४५ ॥ तृदृभ्यां दूः॥ ८४६ ॥ आभ्यां दू' प्रत्ययो भवति । तृ प्लवनतरणयो। तर्दू दर्वी । दृश् विदा- १ रणे । दर्दः कुष्ठभेदः ॥ ८४६॥ कमिजनिभ्यां बूः॥ ८४७ ॥ आभ्यां : प्रत्ययो भवति । कमूङ कान्तौ । कम्बूः भूषणम् आदर्शत्सरुः कुरुविन्दश्च । जनैचि प्रादुर्भावे । जम्बूः वृक्षविशेषः ॥ ८४७॥ शकेरन्धूः ॥ ८४८॥ शक्टंट शक्तापित्यस्मादन्धुः प्रत्ययो भवति । शकन्धः वनस्पतिः देवताविशेषश्च ॥ ८४८ ॥ कृगः कादिः ॥ ८४९ ॥ डु कुंग करणे इत्यस्मात्ककारादिरन्धुः प्रत्ययो भवति । कर्कन्धूः बदरी वणं यवलाजाः मधुपर्कः विष्टम्भश्च ॥ ८४९॥ योरागः ॥८५०॥ युक् मिश्रणे इत्यस्मादागू प्रत्ययो भवति । यवागूः द्वौदनः ॥ ८५० ॥ काच्छीडो डेरू: ॥ ८५१ ॥ कपूर्वोत् शीफू स्वमे इत्यस्मात डिदेरू: प्रत्ययो भवति । कशेरूः कन्दविशेषः वीरव ॥ ८५१ ॥ दिवसः॥ ८५२ ॥ दिवच क्रीडादावित्यस्मादः प्रत्ययो भवति । देवा देवरः पितृव्यस्त्री अग्निश्च ॥ ८५२॥