________________
ce
श्रीमश
MPPce
१००वि० हानयोरित्यस्मादुरुः प्रत्ययोऽस्य च कुन्दित्यादेशो भवति । कुन्दुरुः सल्लकी निर्यासः ॥ ८१८॥ चमेरूरुः ॥ ८१९ ॥ चमू अदने इत्यस्मादः प्रत्ययो भवति ।। चमूरुः चित्रकः ॥ ८१९ ॥ शीङो लुः ॥ ८२० ॥ शी स्वप्ने इत्यस्मालुः प्रत्ययो भवति । शेलुः श्लेष्मातकः ॥ ८२० ॥ पीङ कित् ॥ ८२१ ।। पीञ्च् । पाने इत्यस्मात् किन लुः प्रत्ययो भवति । पीलुः हस्ती वृक्षश्च ॥ ८२१ ॥ लस्जीयिशलेरालुः ।। ८२२ ॥ एभ्य आलुः प्रत्ययो भवति । ओ लस्जैति वीडे । लज्जालु लज्जनशीलः । इर्थिः । ईष्यालु: ईर्ष्याशीलः । शल गतौ । शलालुः वृक्षावयवः ॥ ८२२ ॥ आपोऽप् च ॥ ८२३ ॥ आपलंद व्याप्ताबित्यस्मादालुः प्रत्ययोऽस्य चाप इत्यादेशो भवति । अपालुः वायुः ॥ ८२३ ॥ गूहलुगुग्गुलुकमण्डलवः ॥ ८२४ ॥ एते आलुमत्ययान्ता निपात्यन्ते । गहतेईखश्च प्रत्ययादेः । गृहलुः ऋषिः । गुंङ् शब्दे । अस्यादिगुग् लोपश्च प्रत्ययादेः । गुग्गुलुः वृक्षविशेषः अश्वश्च । कम्पूर्वादनिते?ऽन्तः इस्वश्च प्रत्ययादेः। कमण्डलुः अमत्रम् ॥ ८२४ ॥ प्रः शुः ॥ ८२५ ।। पृश् पालनपूरणयोरित्यस्मात् शुः प्रत्ययो भवति । पर्युः बतिसंझं वक्रास्थि ।। ८२५॥ मस्जीयशिभ्यः सुक् ॥८२६॥ एभ्यः कित सुः प्रत्ययो भवति । टु मस्नोत् शुद्धौ । 'मस्नेः सः' इति नोऽन्तः । मक्षुः मुनिः । इषश् आभीक्ष्ण्ये । इक्षुः गुडादिप्रकृतिः। अशोटि व्याप्तौ । अक्षुः समुद्रः चपश्च ।। ८२६ ॥ तृपलिमलेरक्षुः ॥ ८२७ ॥ एभ्योऽक्षुः प्रत्ययो भवति । तृ प्लवनतरणयोः । तरक्षुः श्वापदविशेषः। पल गतौ, मलि धारणे । ११ पलक्षुः मलक्षुध वृक्षः ॥ ८२७ ॥ उले कित् ॥ ८२८ ॥ उल दाहे इत्यस्मात् सौत्रात् किदक्षुः प्रत्ययो भवति । उलक्षुः तृणजातिः ॥ ८२८ ॥ कृषिचमितनिधन्यन्दिसजिखर्जिभर्जिलस्जीयिभ्य ऊः ॥ ८२९ ॥ एभ्य ऊः प्रत्ययो भवति । कृषीत् विलेखने । कर्पः कुल्या अहारः परिखा गर्तश्च । चमू अदने । चमः सेना । तनूयी विस्तारे । तन्ः शरीरम् । धन शब्दे, धन धान्ये सौत्रो वा । धन धान्यराशिः ज्या वरारोहा च स्त्री । अदु बन्धने । अन्दुः पादकटकः । सर्ज अर्जने । सर्जुः अर्थः क्षारः वनस्पतिः वणिक् च । खर्ज मार्जने च । खर्जुः कण्डः विद्युच्च । मृजैङ् भर्जने, भ्रस्जीत ११ पाके वा, भर्जूः यवविकारः। ओ लस्नैति बीडे । लज्जूः लज्जालुः । ईष्ये इयर्थिः । ईष्र्णोः इर्ष्यालुः ॥ ८२९ ॥ फले. फेल् च ।। ८३० ॥ फल निष्पत्तावित्यस्मादः प्रत्ययोऽस्य च फेलित्यादेशो भवति । फेलू: होमविशेषः ॥ ८३० ॥ कषेण्डच्छौ च षः ॥ ८३१ ॥ कप हिंसायामित्यस्मादः प्रायो भवति पकारस्य च ण्ट् च्छश्चादेशो भवति । कण्डः कच्छूश्च पामा ॥ ८३१ ॥ वहे च ॥ ८३२ ॥ वही प्रापणे इत्यस्मादूः प्रत्ययो पश्चान्तादेशो भवति । वधूः पतिमुपपन्ना कन्या जाया च ॥ ८३२ ॥ मृजेपुणश्च ॥ ८३३ ॥ मृजौक शुद्धावित्यस्मादूः प्रत्ययो गुणश्वास्य भवति । मर्जुः श्रुद्धिः रजकः नद्यास्तीरं शिला च । गुणे सिद्धे गुणवचनमकारस्य वृद्धिबाधनार्थम् ।। ८३३ ॥ अजेजोऽन्तश्च ॥ ८३४ ॥ अज क्षेपणे चेत्यस्मादः प्रत्ययो जकारश्चान्तो भवति । अज्जूः जननी ॥ ८३४ ॥ कसिपद्यादिभ्यो णित् ।।८३२ ॥ एभ्यो णिः प्रत्ययो भवति। कस गतौ । कासुः शक्तिर्नामायुधम् वाग्विकला बुद्धिः व्याधिः विकला च वाक् ।