________________
श्रीमश ॥ ५७॥
शित्वादात्संध्यक्षरस्येति आकारो न भवति । धेनुः अभिनवमसवा गवादिः ॥ ७८७ ॥ सूङः किंत् ॥ ७८८ ॥ पूङक् प्राणिगर्भविमोचन इत्यस्मात् किंतु नुः प्रत्ययो भवति । सूनुः पुत्रः ॥ ७८८ ॥ हो जह च ॥ ७८९ ॥ ओ हांक त्यागे इत्यस्मात्किन्तुः प्रत्ययोऽस्य च जह इत्यादेशो भवति । जहुः गङ्गा पिता ॥ ७८९ ॥ वचेः कगौ च ॥ ७९० ॥ वचक् भाषणे इत्यस्मान्नुः प्रत्ययः ककारगकारौ चान्तादेशौ भवतः । वक्तुः वस्तु वाग्मी || ७९० ॥ कुहनेस्तुक्नुकौ ॥ ७९१ ॥ आभ्यां कितौ तुतु इति प्रत्ययौ भवतः । ड कंग् करणे । कृतुः कर्मकारः । कृणुः कोशकारः कारुश्च । इन हिंसागत्योः । हतुः हिमः । हनुः वक्त्रैकदेशः । बाहुलकान्नलोपः ॥ ७९१ ॥ गमेः सन्वच ॥ ७९२ ॥ गम्लं गतावित्यस्मात् तुक्नुको सन्वत् च भवतः । जिगन्तुः ब्राह्मणः दिवसः मार्गः माणः अग्निय । जिगन्नुः | माणः वाणः मनः मीनः वायुश्च ॥ ७९२ || दाभुक्षण्युन्दिनदिवादिपत्यादेरनुङ् ॥ ७९३ ॥ एभ्यो डिन्दनुः प्रत्ययो भवति । डु दांग दाने । दनुः दानवमाता । भ्रू सत्तायाम् । भुवनुः मेघः चन्द्रः भवितव्यता हंसश्च । क्षणूयी हिसायाम् । क्षणनुः यायावरः । उन्दैप् छेदने । उदनुः शुरुः । णद अव्यक्ते शब्दे । नदनुः मेघः सिंहव । वद व्यक्तायां वाचि । वदतुः वक्ता । पत्लु गतौ । पततुः श्येनः । आदिग्रहणादन्येऽपि । किस्त्रमकृत्वा जित्करणं वदेदभावार्थम् ॥ ७९३ ॥ कृशेरानुक् ॥ ७९४ ॥ शच् तनुत्वे इत्यस्मात्किदानुः प्रत्ययो भवति । कृशानुः वह्निः ॥ ७९४ ॥ जीवेरदानुक् ।। ७९५ ।। जीव माणधारणे इत्यस्मात् किट् रदानुः प्रत्ययो भव ति । जीरदानुः । किरणं गुणप्रतिषेधार्थम् । वलोपे हि नाम्यन्तस्वात् गुणः स्यात् ॥ ७९५ ॥ चचेरक्नुः ॥ ७९६ ॥ वचक भाषणे इत्यस्मादक्तुः प्रत्ययो भवति । वचक्तुः वाग्मी आचार्यः ब्राह्मणः ऋषिथ || ७९६ ॥ हृषिपुषिषुपिगदिमदिनन्दिगाडिमण्डिजनिरतानिभ्यो रित्तुः ॥ ७९७ ॥ एभ्यो ण्यन्तेभ्य इत्तुः प्रत्ययो भवति । हृपंच तुष्टौ हपू अली के वा । हर्पयित्नुः आनन्दः स्वजनः रोपजीवी मियचदथ । पुपंच् पुष्टौ । पोषयित्नुः भर्ता मेघः कोकिला । घुपूण् विशब्दने । | घोपयित्नुः कोकिलः शब्दथ । गदण् गर्जे । गदयित्नुः पर्जन्यः वावदूकः भ्रमरः कामश्च । मदेच् हर्पे । मदयित्नुः मदिरा सुवर्णम् अलंकारथ । टुं नदु समृद्धौ । नन्दयित्नुः पुत्रः आनन्दः प्रमुदितश्च । गड सेचने । गडयित्नुः बलाहकः । मड भूषायाम् । मण्डयितुः मण्डथिता कामुक । जनैचि प्रादुर्भावे । जनयित्नुः पिता । स्तनण् गर्जे । स्तनयित्नुः मेघः मेघगर्जितं च ॥ ७९७ ॥ कस्यतिस्यामिपुक् ॥ ७९८ ॥ आभ्या किदिपुः प्रत्ययो भवति । कस गतौ । कसिपुः असनः । ऋक् गतौ । रिपुः शत्रुः ॥ ७९८ ॥ कस्यमिभ्यां वुः ॥ ७९९ ॥ आभ्या बुः प्रत्ययो भवति । कमूङ् कान्तौ । कम्बुः शङ्खः । अम गतौ । अम्बु पानीयम् ॥ ७९९ ॥ अभ्ररमुः ॥ ८०० ॥ अभ्र गतावित्यस्मादभुः प्रत्ययो भवति । अभ्रमुः देवहस्तिनी ॥ ८०० ॥ यजिशुन्धिदहिद सिजनिमनिभ्यो युः ॥ ८०१ ॥ एभ्यो युः मत्ययो भवति । यजी देवपूजादौ । यज्युः अग्निः अध्वर्युः यज्वा शिष्यथ । शुन्ध शुद्ध अग्निः आदित्यः पवित्रं च । दहं भस्मीकरणे । दछुः अग्निः । दमूच उपक्षये । दस्युः चौरः । जनैचि प्रादुर्भावे । जन्युः अपत्यं पिता वायुः प्रादुर्भावः प्रजापतिः
१६० उ०वि०
॥ ५७ ॥