________________
| दीसंक्रया कमूङ् कान्तौ । कन्तुः कदर्पः कामी मनः कुसूलच । अम गतौ । अन्तुः रक्षिता लक्षणं च। गम्लं गतौ । गन्तुंः पथिकः। आगन्तुः अवास्तव्यो जनः । तनूयी । विस्तारे । तन्तुः सूत्रम् । मनिच ज्ञाने । मन्तुः वैमनस्यम् नियंवदः मानश्च । जनैचि प्रादुर्भावे । जन्तुः प्राणी । अस्क भुवि । अस्तुः अस्तिभावः । वाहुलकात् । भूभावाभावः । मसैच परिणामे । मस्तु दधिमूलवारि । पचि सेचने । सक्तुः यवविकारः। अब रक्षणादौ । ओतुः बिडालः । भाक् दीप्तौ । भातुः दीप्तिमान् शरीरावयवः अग्निः विद्वांश्च । डु धारक धारण च । धातुः लोहादिः रसादिः शब्दप्रकृतिश्च ! मैं शब्द । गातुः गायनः उद्गाता च । ग्लैं हर्षक्षय । ग्लातुः सरुजः। ग्लैं गात्रविनाम । म्लातुः दीनः । हनक हिंसागत्योः। हन्तुः आयुधं हिमश्च । ओ हांक त्यागे । हातुः मृत्युः मार्गध । यांक प्रापणे । यानुः पाप्मा जनः राक्षसश्च ।। हिंद गतिवृद्ध्योः । हेतुः कारणम् । क्रुशं आहानरोदनयोः । क्रोष्टा शृगालः । पूगा पवने । पोतुः पविता । नित्करणं 'क्रुशस्तुनस्तृच् पुंसि' इत्यत्र विशेषणार्थम् ॥ ७७३ ॥ वसेणिवा ॥ ७७४ ॥ वसं निवासे इत्यस्मात् तुन् प्रत्ययः स च णिवा भवति । वास्तु गृहं गृहभूमिश्च । वस्तु सत् निवेशभूमिश्च ॥ ७७४ ॥ प. पीप्यौ च वा ॥ ७७५ ॥ पां पान इत्यस्मात् तुन् प्रत्ययो भवति अस्य च पीपि इत्यादेशौ वा भवतः । पीतः आदित्यः चन्द्रः हस्ती कालः चक्षुः वालघृतपा-| नभाजनं च । पितः प्रजापतिः आहारश्च । पातुः रक्षिता ब्रह्मा च ॥ ७७५ ॥ आपोऽप् च ॥ ७७६ ॥ आपलंद व्याप्ताबिलस्मात्तुन् प्रत्ययोऽस्य चाप इत्यादेशो भवति । अप्तुः देवताविशेषः कालः याजका यज्ञयानिश्च ॥७७६॥अज्यतः कित् ॥७७७॥ आभ्यां कित्तुन् प्रत्ययो भवति । अञ्जोए व्यक्त्यादिषु । अक्तुः इन्द्रः | विष्णुः रात्रिश्च । क् गतौ । ऋतुः हेमन्तादिः स्त्रीरजः तत्कालश्च ॥७७७॥ चायः के च ॥७७८॥ चायुग पूजानिशामनयोः इत्यस्मात्तुन् प्रत्ययोऽस्य च के इत्यादेशो | भवति । केतुः ध्वजः ग्रहश्च ॥७७८॥ वहिमहिगुह्येधिभ्योऽतुः ॥ ७७९ ॥ एभ्योऽतुः प्रत्ययो भवति । वही पापणे । वहतुः विवाहः अनड्वान् अग्निः कालश्च । मह पूनायाम् । महतुः अग्निः । गुहौग संवरणे । गृहतुः भूमिः । एधि वृद्धौ । एधतुः लक्ष्मीः पुरुषः अग्निश्च ॥ ७७९ ॥ कृलाभ्यां कित् ॥ ७८० ॥ आभ्यां किदतुः प्रत्ययो भवति । हु कुंग करणे | ऋतुः यज्ञः । लांक आदाने । लतुः पाशः ॥ ७८० ॥ तनेयतुः ॥७८१ ॥ तनूयी विस्तारे इत्यस्माद्यतुः प्रत्ययो भवति । तन्यतुः विस्तारः वायुः पूर्वतः सूर्यश्च ॥ ७८१ ॥ जीबेरातुः ॥ ७८२ ॥ जीव प्राणधारणे इत्यस्मादातुः प्रत्ययो भवति । जीवातुः जीवनम् औषधम् अन्नम् उदकं द्रव्यं च ।।७८२।। यमेदुक् ॥७८३।। य उपरमे इत्यस्मात् कित् दुःप्रत्ययो भवति । यदुः क्षत्रियः ।।७८शा शीङो धुक् ॥७८४॥ शीफू स्वप्ने इत्यस्मात् किदधुः प्रत्ययो भवति । शीधु मद्यविशेषः ॥७८४॥ धूगो धुन च ॥७८५॥ धूगश् कम्पने इत्यस्मात् धुक् प्रत्ययोऽस्य च धुन् इत्यादेशो भवति । धुन्धुः दानवः ॥७८५॥ दाभाभ्यां नुः ॥ ७८६ ॥ आभ्यां नुः प्रत्ययो भवति । डु दांगा दाने । दानुः गन्ता यजमानः वायुः आदित्यः दक्षिणार्थं च धनम् । भांक दीप्तौ । भानुः सूर्यः रश्मिश्च । चित्रभानुः अग्निः । स्वर्भानुः राहुः । विश्वभानुः आदित्यः ॥ ७८६ ॥ धेः शित् ॥७८७ ॥ धे पाने इत्यस्मान्नुः प्रत्ययो भवति स च शित।
Recenteeneeeeeeeeeeer