________________
एति । स्वर इति किम् । किमु गच्छति । असत्वाद्वित्वमनुस्वारानुनासिकाभावश्च ॥ ४० ॥ *अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः । १ । २ । ४१ ॥ अवर्णस्येवर्णस्योवर्णस्य चान्ते विरामे वर्तमानस्यानुनासिक आदेशो वा भवति, अनीदादेः-न चेदयमीद्देद्विवचनम् (१।२।३४) इत्यादिमूत्रमंबन्धी भवति । पदान्ताधिकारेऽन्तग्रहण विगममतिपत्त्यर्थम् । स च विरामे भवन्पदस्यान्ते भवति, केवलमुपसर्गस्य समासान्तवर्तिनश्च न भवति । साम। साम । खडॉ। खड़ा । दधेि । दधि । कुमारी । कुमारी । मधु । मधु । वृक्षेण । वृक्षेण । नाम अत्र । नाम अत्र । दधि अत्र । दधि अत्र । मधु अत्र । मधु अत्र । वृक्षेण अत्र । वृक्षेण अत्र । विरामत्वाच संधिर्न भवति । अइउवर्णस्येति किम् । कत् । इत् । अन्त इति किम् । दधि करोति । मधु करोति । *वृक्षः । अनीदादेरिति किम् । अग्नी । वायू । अमू । अमी । किमु । चादिसूत्रे चाटेः स्वरस्य के बलस्याङ्वजितस्य च ग्रहणादिह भवत्येव । अॅ इति विष्णोः संबोधनम् । प्लक्षश्च न्यग्रोधके । पाटलिपुत्रादॉ ॥४१॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां मिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ प्रथमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥२॥ पूर्वभवदारगोपो,-हरणस्मरणादिव ज्वलितमन्युः ॥ श्रीमूलराजपुरुषो,-नमोऽवधोदुर्मदाभीरान् ॥ १॥
तृतीयः पादः *तृतीयस्य पञ्चमे । १ । ३ । १ ॥ वेति पदान्त इति अनुनासिक इति चानुवर्तते । *वर्गतृतीयस्य पदान्ते वर्तमानस्य वर्गपञ्चप परे वानुनामिको भवति । स्थान्यासन्नः। वाङ् ङवते । बाग उरते । वा अकारः । वाग् अकारः । वाङ् णकारीयति । वाग् णकारीयति । वाङ् नयति । वाग् नयति । वाङ् मधुरा । बाग मधुरा । एवं पण् नयाः। पड् नयाः। *तन्नयनम् । तद्नयनम् । *ककुम्मण्डलम् । ककुमण्डलम् । तृतीयस्यति किम् । स्वनंयति । हल्यात्रम् । पदान्त
इति प्राप्तमपि द्वित्व न प्रवर्तते नित्यत्वादिकारणेभ्य ॥-असत्वाद्वित्वमिति । 'अदीर्घात्' इति ततोऽस्या ' इति च द्वित्वादौ कर्तव्ये सन्नेय, यतोऽसन्नित्यत्रापि वा योजनीय । वकागदेशोऽपि वाऽसन् भवतीत्यर्थ । ततः पक्षेऽसत्त्वविधानात् कार्यविशेष प्रति सत्त्वमेव । तेन तद्वस्य मुख (मतम् ) जान्व्यस्य रुजति इत्याद्यपि सिद्धम् ॥-अइउ-||-वृक्ष इति । कादिय॑जनमिति सो कस्यादिरिति तत्पुरुषसमासे विसर्गस्यापि प्यजनले 'नाम सित् -' इति वृक्षाकारस्य पदत्वात् अन्त इति व्यावृत्तेर्न बगविकलतेति ॥ ॥ इति द्वितीयपाद: संपूर्णः ॥ ततीय-॥ वतीयस्येत्यसरार्थम् । अन्यथा वर्ग,स्येति क्रियेत । तेन प्राहरूतीति सिद्धम् ॥-बेतीति | 'सी नवेती' इत्यतो नवेति, 'एदोत'- इत्यत पदान्ते इति, 'अइउवर्ण-इत्यतोऽनुनासिक इत्यधिकारत्रय पारान्तरगतमप्यनुवर्ततेऽपेक्षातोऽधिकार इति न्यायात् ॥ प्रथमद्वितीयवतीयादित्व वर्गस्यैव धर्म इति वर्गस्यैव तृतीय पञ्चमश्चेत्याह-वर्गतृतीयस्येति ॥-स्थान्यासन्न इति । यदुर्गसत्कस्वतीयस्तर्गसल्क एवानुनासिक इत्यर्थ ॥-तन्नयनमिति । अत्र तृतीयस्य दस्यासत्त्वे तत्स्थानस्य नस्याप्यसत्त्वात् नलोपो न भवति ।-ककुम्मण्डलमिति । अत्र 'तो मुम