________________
११. मृगयुः व्याधः मृगश्च । मित्रयुः ऋषिः मित्रवत्सलश्च । देवयुः धार्मिकः । कुमारयुः राजपुत्रः । लोकयुः वाक्यकुशलः जनः । धर्मयुः धार्मिकः ।।
विश्वयुः वायुः । सुम्नयुः यजमानः अश्मयुः मूर्खः । अवयुः काव्यम् ॥ ७४१ ॥ पराभ्यां शृखनिभ्यां डित् ॥ ७४२ ॥ परापूर्वाभ्यां यथासंख्यं शृखनिभ्यां डिदुः प्रत्ययो भवति । शृश् हिंसायाम् । परान् शृणाति परशुः कुठारः । खन्ग् अवदारणे । आखुः मूपिकः ॥ ७४२ ॥ शुभेः स च वा ॥७४३ ॥ शुभि दीप्सावित्यसात् डिदुः प्रत्ययो भवति अस्य च दन्त्यः सो वा । सुः शुश्च पूजायाम् । सुपुरुषः शुनासीरः॥ ७४३ ॥ युद्भ्याम् ॥ ७४४ ॥ आभ्यां दिदुः प्रत्ययो भवनि । धुंक अभिगमे । घुः स्वर्गक्रीडा स्वर्गश्च । द्रं गतौ । दुःक्षशाखा वृक्षश्च ॥७४४ ॥ हरिपीतमितशत
विकुकन्यो दुवः ॥ ७४५ ॥ हरिपीतमितशतविकुकद् इत्येतेभ्यः परात् ढुं गतावित्यस्मात् दिदुः प्रत्ययो भवति । हरिद्वः वृक्षः ऋषिः पर्वतश्च । पीतद्रः देवदारुः। १ मितद्रुः समुद्रः तुरगः मितंगमश्च । शतद्रुर्नाम नदः नदी च । विद्रुः दारुमकारः वृक्षश्च । कुद्रुः विकलपादः । कदुर्भागमाता वन्दिजातिः गृहगोधा वर्णश्च ॥ ७४५ ॥
केवयंभुरण्यवध्वर्वादयः ॥ ७४६ ॥ केदयवादयः शब्दा डिदुप्रसयान्ता निपासन्ते । केवलपूर्वाद्यातेलेलोपश्च । केवलो याति केवयुः ऋषिः । भूपूर्वाद्यातेर्भुरण चादौ । भुवं याति भुरण्युः अगिः । अध्वरं याति, पूर्वपदान्तलोपे, अवयुः ऋत्विक् । आदिग्रहणात् चरन् याति चरण्युः वायुः । अभिपूर्वस्य चाश्नातेरभीशुः रश्मिः ॥ ७४६ ॥ शः सन्मच ॥ ७४७ | शोंच तक्षणे इत्यस्मात् डिदुः प्रत्ययः स च सन्वद् भवति । सनि इवास्मिन् द्वित्वं पूर्वस्य चेत्वं भवतीत्यर्थः । शिशुः
वालः ॥ ७४७ ॥ तनेउः ॥ ७४८ ॥ तनूयी विस्तारे इत्यस्मात् डिदउःप्रत्ययो भवति स च सन्यत् । तितउः परिपवनम् ॥७४८॥ कैशीशमिरमिभ्यः कुः॥ ७४९ ॥ K एभ्यः कुः प्रत्ययो भवति । के शब्दे । काकुः स्वरविशेषः । शीङ्क् स्वमे । शेकुः उद्भिविशेषः । शमच उपशमे । शङ्कुः कीलकः वाणः शूलम् आयुधं चिन्दं
छलकश्च । रमि क्रीडायाम् । रकुः मृगः ॥ ७४९ ॥हियः किद्रो लश्च वा ॥ ७५० ॥ ह्रींक् लज्जायामित्यस्मात्र किन कु: प्रत्ययो रेफस्य च लकारो वा भवति । ही कु: हीकुश्च पुजनुनी लज्जावांश्च । हीकुः वनमार्जारः ॥ ७५० ॥ किरःष च ॥ ७५१ ॥ कृत् विक्षेपे इत्यस्मात् किन कुः प्रत्ययः पकारश्चान्तादेशो भवति । किष्कुः छायामानद्रव्यम् ॥ ७५१ ॥ चटिकठिपर्दिभ्य आकुः ॥ ७५२ ॥ एभ्य आकुः प्रत्ययो भवति । चटण भेदे । चटाकुः ऋषिः । शकुनिश्च । कठ कृच्छजीवने । कठाकु: कुटुम्बपोपकः। पर्दि कुत्सिते शब्दे । पदाकुः भेकः वृश्चिकः अजगरश्च ॥ ७५२ ॥ सिविकुटिकठिककृषिक्रषिभ्यः कित ॥ ७५३ । एभ्यः किदाकुः प्रत्ययो भवति । पिवूच उतौ । सिवाकुः ऋषिः । कुटत् कौटिल्ये । कुटाकु: विटपः । कुठिः सौत्रः । कुठाकुः श्वभ्रम् । कुंड शब्दे । कुवाकुः पक्षी । कुपश् निष्कर्षे । कुषाकुः पिकः अमिः परोपतापी च । कृपी विलेखने । कृषाकुः कृषीवलः ॥ ७५३ ॥ उपसर्गाचेर्डित् ॥ ७६४ ॥ । उपसर्गपूर्वात् चिग्द् चयने. इत्यस्मात् डिदाकुः प्रत्ययो भवति । उपचाकुः संचाश्च ऋषिः । निचाकुः निपुणः ऋषिश्च ॥ ७५४ ॥ शलेरकः ।। ७५५