________________
| आभ्यामातिः प्रत्ययो भवति । वसं नियासे । यसातयः जनपदः । ऋक् गतौ । अरातिः रिपुः ॥ ६६२ ॥ अभेर्यामाभ्याम् ॥ ६६३ ॥ अभिपूर्वाभ्यामाभ्यामातिः प्रत्ययो भवति । यांक मापणे । मांक माने । अभियातिः अभिमातिश्च शत्रुः ॥ ६६३॥ यजा य च ॥ ६६४ ॥ यजी देवपूजादावित्यस्मादातिः प्रत्ययोऽस्य च यकारोऽन्तादेशो भवति । ययातिः राजा ॥ ६६४ ॥ वद्यविच्छादेशूभ्योऽन्तिः ॥ ६६५ ॥ एभ्योऽन्तिः प्रत्ययो भवति । वद व्यक्तायां वाचि । वदन्तिः कथा । अब रक्षणादिषु । अवन्तिः राजा । अवन्तयः जनपदः । छदण् अपवारणे । युजादिर्विकल्पितणिजन्तत्वादण्यन्तः। छदन्तिः गृहच्छादनद्रव्यम् ॥ भू सत्तायाम् । भवन्तिः कालः लोकस्थितिश्च ॥ ६६५ ॥ शकरुन्तिः ॥ ६६६ शहंट शक्तावित्यस्मादन्तिः प्रत्ययो भवति । शकुन्तिः पक्षी ॥ ६६६ ॥ ना दागो डितिः ॥ ६६७ ॥ नपर्वात डुदागक् दाने इत्यस्मात् डिदितिः प्रत्ययो भवति । अदितिः देवमाता ॥ ६६७ ॥ देङः॥ ६६८॥ दे रक्षणे इत्यस्माव डिदितिः प्रत्ययो भवति । दितिः अमुरमाता ॥ ६६८ ॥ वीसज्यिसिभ्यस्थिक् ॥ ६६९ ॥ एभ्यस्थिक् प्रत्ययो भवति । वींक प्रजनादिपु । वीथिः मार्गः । पञ्ज सङ्गे । सक्थि ऊरुः शकटाङ्गं च । अमुच् क्षेपणे । अस्थि पञ्चमो धातुः ।। ६६९ ॥ सारेरथिः ॥ ६७० ॥ सं गतावित्यस्मात् ण्यन्तादथिः प्रत्ययो भवति । सारथिः यन्ता ॥ ६७० ॥ निपक्षेपित् ॥ ६७१ ॥ निपूर्वात् पझं सङ्गे इत्यस्मात् घिदथिः प्रत्ययो भवति । निषङ्गाथिः रुद्रः धनुर्धरश्च । घितकरणं गत्वार्थम् ॥ ६७१ ।। उदतैर्णिद्वा ॥ ६७२ ॥ उत्पूर्वात् क् गतापित्यस्मात् अथिः प्रत्यय स च णिद्वा भवति । उदारथिः विष्णुः । उदरथिः विमः काष्ठं समुद्रः अनड्वांश्च ॥६७२ ॥ अतेरिथिः ॥६७३शा अत् सातत्यगमने इत्यस्मादिथिः प्रत्ययो भवति । अतिथिः पात्रतमो भिक्षावृत्तिः॥६५३॥ तनेर्डित् ॥६७४॥ तनूयी विस्तारे इत्यस्मात् डिदिथिः प्रत्ययो भवति । तिथिः प्रतिपदादिः ॥ ६७४ ॥ उषेरधिः ॥ ६७५ ॥ उषू दाहे इसस्मादधिः प्रत्ययो भवति ॥ ओषधिः उद्भिविशेषः ॥ ६७५ ॥ विदो रधिक ॥ ६७६ ।। विदक् ज्ञाने इयस्मात् किद्रधिः प्रत्ययो भवति । विद्रधिः व्याधिविशेषः ॥ ६७६ ॥ वीयुसुवधगिभ्यो निः॥६७७॥ एभ्यो निःप्रत्ययो भवति । वीई मजनादौ । वेनिः व्याधिः नदी च । यु मिश्रणे । योनिः प्रजननमङ्गम् उत्पत्तिस्थानं च । पुंगट् अभिपवे । सोनिः सवनम्। वहीं प्रापणे । वह्निः पावकः वलीवर्दच। अग कुटिलायां गतौ । अग्निः पावकः ॥ ६७७ ॥ धूशाशीको इस्वश्च ॥ ६७८ ॥ एभ्यो निः प्रत्ययो इस्वश्चैषां भवति । धूग्श् कम्पने । धुनिः नदी। शोंच तक्षणे । शनिः सौरिः। शीळू स्वभे । शिनिः यादवः वर्णश्च ॥ ६७८ ॥ लुधूप्रच्छिभ्यः कित् ॥ ६७९ ॥ एभ्यः किन्निः प्रत्ययो भवति । लूगश छेदने । लूनि: लवनः। धूश कम्पने । धूनिः वायुः। प्रच्छंत् जीप्सायाम् । पृश्निः वर्णः अल्पतनुः किरणः स्वर्गश्च ॥६७९ ॥ सदिवृत्यमिधम्यश्यटिकट्यवेरनिः॥ ६८०॥ एभ्योऽनिः | प्रत्ययो भवति । षद्ल विशरणादौ । सदनिः जलम् । तूङ् वर्तने । वर्तनिः पन्थाः देशनाम च । अम गतौ । अमनिः अग्निः । धमः सौत्रः । धमनिः यन्या रसवहा च शिरा ॥ अशौटि व्याप्ती । अशनिः इन्द्रायुधम् । अट गतौ । अनिः चापकोटिः । कटे वर्षावरणयोः । कटानः शैलमेखला । अब रक्षणादौ ।
सटटMered