________________
श्री हेमश०
॥ ५२ ॥
धर्मपुटः स्नेोपकरणं च । तच् उपक्षये विपूर्वः । वितस्तिः अधहस्तः ॥ ६४६ ॥ प्रलुक् च या ॥ ६४७ ॥ मथि प्रख्यान इत्यस्मात् तिः प्रत्ययोऽन्तस्य च लुग्वा भवति । वृक्षं प्रति विद्योतते । प्रतिष्ठितः । पक्षे, मत्तिः प्रथनं भागच ॥ ६४७ ॥ कोर्यपादिः ॥ ६४८ ॥ कुँक शब्दे इत्यस्मात् यपादिस्तिः गत्ययो भवति । कोयष्टः पक्षिविशेषः ॥ ६४८ ॥ यो गृप च ॥ ६४९ ॥ गृत् निगरणे इत्यस्मात् तिः प्रत्ययोऽस्य च गृप् इत्यादेशो भवति । गृष्टिः सकृत् प्रभूता गौः ॥ ६४९ ॥ सोरस्ते. शि ॥ ६५० ॥ सुपूर्वात् अस भुवत्यस्मात् सित् तिः प्रत्ययो भवति । स्वस्ति कल्याणम् । विभावाभाव' || ६५० ॥ दृषिकृषिरपिविषिशोशुच्यसियणप्रभृतिभ्यः कित् ॥ ६५१ ॥ एभ्यः कित् तिः प्रत्ययो भवति । दृत् आदरे । दृतिः छागादित्वमयो धारः । मुष स्तेये । मुष्टि: अगुलिसंनिवेशविशेपः ॥ कृपीत् विलेखने । कृष्टिः पण्डितः । रिप् हिंसायाम् । रिष्टिः प्रहरणम् । विष्की arrat | Faः कर्मकरः । शो तक्षणे । शितिः कृष्णः कृशश्च । शुच् शोके । शुक्तिः मुक्तादिः । अशौटि व्याप्तौ । अष्टिः छन्दोविशेषः । पूयै दुर्गन्धविशरणयोः । पूतिः दुर्गन्धः दुष्टम् तृणजातिश्च । इंण्क् गतौ । इति हेत्वादौ । डुडभृंग्क् पोषणे च प्रपूर्वः । प्रभृतिः आदिः ।। ६५१ ॥ कुच्योनsन्तश्च ॥ ६५२ || आभ्यां कित् तिः प्रत्ययो नकारश्चान्तो भवति । कुङ् शब्दे । कुन्तिः राजा । कुन्तयः जनपदः । चिगद् चयने । चिन्तिः राजा ॥ ६५२ ॥ खल्यमिरमिवह्निवस्यर्तेरतिः ॥ ५५३ ॥ एभ्योऽतिः प्रत्ययो भवतेि । खल संचये च । खलतिः खल्वाटः । अम् गतौ । अमतिः चातकः छागः मा मार्गः व्याधिः गतिश्च । रमिं ीडायाम् । रमतिः क्रीडा कामः स्वर्गः स्वभावथ । वहीं प्रापणे । वहतिः गौः वायुः अमात्यः अपत्यं कुटुम्बं च । वसं निवासे । वसतिः निवासः ग्रामसंनिवेशश्च । ऋक् गतौ । अरतिः वायुः सरणम् अमुखं कोधः वर्म च ॥ ६५३ ॥ हन्तेरह च ॥ ६५४ || इन हिंसागत्यो रित्यस्मादतिः गत्ययोऽस्य च अंह् इत्यादेशो भवति । अंहातेः व्याधिः पन्थाः कालः रथथ ॥ ६५४ ॥ वृगो व्रत् च ॥ ६५५ ॥ ग्द् वरण इत्यस्मादतिः प्रसयोऽस्य च वत् इत्यादेशो भवाते | व्रततिः वल्ली || ६५५ || अञ्च क च वा ॥ ६५६ ॥ अश्रू गतौ चसस्मादातिः मसयोऽस्य च क् इत्यन्तादेशो वा भवति । अङ्कतिः वायुः अग्निः प्रजापतिश्च। अञ्चतिः अग्निः ॥ ६५६ ॥ वातेर्णिद्वा ॥ ६५७ ॥ वांक् गतिगन्धनयोरियस्मादतिः प्रत्ययः सच णित् वा भवति । वायतिः वातः । वातिः गन्धमिश्रपवनः ॥ ६५७ ॥ योः कित् ॥ ६५८ ॥ युक् मिश्रणे इत्यस्मादतिः प्रत्ययः किद्भवति । युवति' तरुणो ॥ ६५८ ॥ पातेर्वा ॥ ६५९ ॥ पांं रक्षणे इत्यस्मादतिः प्रत्ययः स च किद्रा भवति । पतिः भर्ता । पातिः भती रक्षिता प्रभु ॥ ६५९ ॥ अगिविलिपुलक्षिरस्ति ॥ ६६० || एभ्यः किदस्तिः प्रत्ययो भवति । अग कुटिलायां गतौ । अगस्तिः । विलत् वरणे । विलस्तिः । पुल महये । पुलस्तिः । क्षिपीत् रणे । क्षिपरितः । एते लौकिका ऋषयः । अगांस्तः वृक्षजातिश्च ॥ ६६० ॥ गृधेर्गभ् च ॥ ६६१ ॥ गृधूच अभिकाङ्क्षायामित्यस्मादस्तिक् प्रत्ययो गभू चास्यादेशो भवति । गभस्तिः रश्मिः ॥ ६६९ ॥ वस्यर्तिभ्यामातिः ॥ ६६२ ॥
DEDERERE REALDES
पं० उ०वि०
॥ ५२ ॥