________________
MANNANNReme
विकल्पेन । क्रम पादविशेपे । क्रिमिः भद्रनन्तः । तमूच काङ्क्षायाम् । तिनिः महामत्स्यः। स्तम्भिः सौत्रः। स्तिभिः केतकादिराची हृदयं समुद्रध । णमं प्रवत्वे । निमिः राजा । नमिः विद्याधराणामायः तीर्थकरश्च ॥ ६१३ ॥ अम्भिकुपिठकम्प्यहिभ्यो नलुक् च ॥ ६१४ ॥ एभ्य इ. प्रत्ययो नकारस्य च लुम् भवति । अभुङ शब्दे । अभि आभिमुख्येऽव्ययम् । अभ्यग्नि शलभाः पतन्ति । कुतु आलस्ये च । कुठिः वृक्षः पापं वृपला देहः गेहम् कुठारश्च । कपुङ् चलने। कपिः अग्निः वानरश्च । अहङ गतौ । अहिः सर्पः वत्रः वनश्च ॥ ६१४ ॥ उभेदत्री च ॥ ६१५ ॥ उभत् पूरणे इत्यस्मादिः प्रत्ययोऽस्य च दूत्र इन्यादेशी भवतः । द्वौ । द्वितीयः । द्विमुनि व्याकरणस्य । त्रयः । तृतीयः । त्रिमुनि व्याकरणस्य ।। ६१५ ॥ नीवीप्रहृभ्यो डित् ॥६१६ ॥ एभ्यो डिदिः प्रत्ययो भवति । णीग् पापणे । निवसति । बींक प्रजनादौ । पिः तन्तुवायः पक्षी उपसर्गश्च । यथा विभवति । हुंग हरणे प्रपूर्वः । पहिः कूपः उदपानंच ॥ ६१६ ॥ वा रिचेः स्वरान्नोऽन्तश्च ॥ ११७ ॥ वावुपमर्गे सति रिपी विरेचने इत्यस्मादिः प्रत्ययः स्वरात्परो नोऽन्तश्च भवति । विरिञ्चिः ब्रह्मा॥ ६१७ ॥ कमिवमिजामिघसिशलिफलितलितडिवजिवजिध्वजिराजिपणिवणिवदिसदिहदिहनिसहिवहितपिवपिभटिकञ्चिसंपतिभ्योणित॥६१८॥ एभ्यो णिदिः प्रत्ययो भवति । कमूङ् कान्तौ । कामिः वसुकः कामी च । टु वमू उद्दिरणे। वामिः स्त्री। जमू अदने । जामिः भगिनी तृणं जनपदश्चैकः। घस्लं अदने। घासिः संग्रामः गतः अग्निः बहुभुक् च । शल गतौ । शालिः ब्रीहिराजः । फल निष्पत्तौ । फालिः दलम् । तलण प्रतिष्ठायाम् । तालिः वृक्षजातिः । तडण् आघाते ।। ताडिः स एव । वजवजवज गतौ । वाजिः अश्वः पुंखावसानं च । वाजिः पद्धतिः पिटकजातिश्च । ध्वाजिः पताका अवश्च । राजग दीप्तौ । राजिः पङ्क्तिः लेखा च । पणि व्यवहारस्तुत्योः । पाणिः करः। वण शब्दे । वाणिः वाक् । डन्याम् वाणी। वद व्यक्तायां चाचि । वादिः वाग्मी वीणा च । पलं विशरणगत्यवसादनेषु । सादिः अश्वारोहः सारथिश्च । हदि पुरीपोत्स। हादिः लूता । हनक हिसागत्योः ।पातिः प्रहरणम् । केचित्तु हानिः अर्थनाशः उच्छित्तिश्चेति उदाहरन्ति तत्र बाहुलकात् णिति घात् इति घात् न भवति । बाहुलकादेव णित्त्वविकल्पे, हनिः आयुधम् । पहि मर्पणे । साहिः शैलः । वही प्रापणे । वाहिः | अनडान् । तपं संतापे । तापिः दानवः । डु वपी वीजसंताने। वापिः पुष्करिणी। भट भृतौ । भाटिः सुरतमूल्यम् । कचुङ् दीप्तौ । कान्निः मेखलापुरीच ।णितकरणादनुपान्त्यस्यापि वृद्धिः । पत्लु गतौ संपूर्वः । संपातिः पक्षिराजः ॥ ६१७ ॥ कृगृकुटिग्रहिखन्यणिकष्यलिपलिचरिवसिगण्डिभ्यो वा ॥ ६१९ ॥ एभ्य इ. प्रत्ययः स च णिद्वा भवति । हु कृग् करणे । कारिः शिल्पी । करिः हस्ती विष्णुश्च । शृश् हिंसायाम् । शारिः द्यूतोपकरणम् हस्तिपर्याणम् शारिका च । शरिः हिंसा शुलश्च । कुटत् कौटिल्ये। कोटिः अस्त्रिः अग्रभागः अष्टमं वाऽस्थानं च । कुटि: गृहं शरीराङ्ग च । ग्रही उपादाने । ग्राहिः पतिः। ग्राहे वेणुः । खनूग अवदा. रणे| खानिः खनिश्च निधिः आकर तहागं च । अण शब्द आणिः अणिश्च द्वारकीलिका। कप हिसायाम् । कापिः कर्षकः। कपिः निकपोपलः काष्ठम अश्वकर्णः खनित्रंच।