________________
भीहेमश० भवति । किला वैत्यक्रीडनयो । केलिः क्रीडा । पिलण क्षेपे । पेलिः क्षुद्रपेला । पिशत् अवयवे । पेशिः मसखण्डम् । चिट प्रेष्ये । चेटि. दारिका प्रेष्या च । १००वि० ॥५०॥ त्रुटत छेदने ण्यन्तः। प्रोटि: चञ्चुः। शुठ शोपणे । शुण्ठिः विश्वभेषजम् । तुडुइ तोडने । तुण्डिः आस्यम् प्रवृद्धा च नाभिः । कुडङ दाहे । कुण्डिः जल
भाजनम् । भडुङ् परिभाषणे । भण्डः शकटम् । हुडुङ् संघाते । हुण्डिः पिण्डित ओदनः। हिडुङ् गतौ च । हिण्डिः रात्रौ रक्षाचारः। पिडुङ् संघाते। पिण्डिः निष्पीडितस्नेहः पिण्डः । चुल हावकरणे । चुलिः रन्धनस्थानम् । बुधिंच ज्ञाने। बोधिः सम्यग् ज्ञानम् । मिश्रृग मेधाहिंसयोः। मेथिः खलमध्यस्थूणा। रुई वीजजन्मनि। रोहिः सस्यं जन्म च । दिवूच् क्रीडादौ । देविः भूमिः । कृतण संशब्दने णिजन्तः । कीर्तिः यशः । आदिग्रहणादन्येऽपि ॥ ६०८ ॥ नाम्युपान्त्यकृगृशृपृपूङ्। भ्यः कित् ॥ ६०९॥ नाम्युपान्त्येभ्यः क्रादिभ्यश्च किदिः प्रत्ययो भवति । लिखत् अक्षरविन्यासे । लिखिः शिल्पम् । शुन् शोके । शुचिः पूतः विद्वान् ६ धर्मः आषाढश्च । रुचि अभिनीत्यां च । रुचिः दीप्तिः अभिलाषश्च । भुजंप पालनाभ्यवहारयोः । भुजिः अग्निः राजा कुटिलं च । कुणन शब्दोपकरणयोः ।
कुणिः विकलो हस्तः हस्तविकलश्च । सृजत् विसर्गे । सृजिः पन्थाः । द्युति दीप्तौ । द्युतिः दीप्तिः। ऋत घृणागतिस्पर्धेषु । ऋतिः यति । छिद्रूपी द्वैधीकरणे । छिदिः छेत्ता पर्वाश्च । मुदि हर्षे । मुदिः बाल । भिद्रूपी विदारणे । भिदिः वज्र सूचकः भेत्ता च । ऊछुपी दीप्तिदेवनयोः । छुदिः रथकारः। लिपीत् उपदेहे । लिपिः अक्षरजातिः। तुर तरणे सौत्रः । तुरिः तन्तुवायोपकरणम् । डुलण उत्क्षेपे । डुलि. कच्छपः । विपी दीप्तौ । विषिः दीप्तिः विषिमान् राजवर्चस्वी च ।
कृषीत् विलेखने । कृषिः कर्षणम् कर्षणभूमिश्च । ऋपैत् गतौ । ऋषिः मुनिः वदश्च । कुपश् निष्क । कुपिः शुषिरम् । शुपंच शोपणे । शुषिः छिद्रम् शोषणम् च। हृषू ? अलीके । हृषिः अलीकवादी दीप्तिः तुष्टिश्च । ष्णुहोच् उद्दिरणे । स्नुहिः वृक्षः। कृत् विक्षेपे । किरिः सूकरः मूपिकः गन्धर्वः गर्तश्च । मृत् निगरणे । गिरिः नगः कन्दुकश्च । शृश हिंसायाम् । शिरिः हिंसः खड्ग. शोकः पाषाणश्च । पृश् पालनपूरणयोः। पुरिः नगरी राजा पूरयिता च । पूङ पवने । पुविः वातः ॥ ६०९ ॥ विदिवृतेर्वा ॥ ६१० ॥ आभ्यामिः प्रत्ययो भवति स च किद्वा । विदक् ज्ञाने । विदिः शिल्पी । वेदिः इज्यादिस्थानम् । वृतून वर्तने । वृतिः कण्टकशाखावरणम् । नितिः सुखम् । वर्तिः द्रव्यं दीपाई च ॥ ६१० ॥ तृनम्यद्यापिदम्भिभ्यस्तित्तिरभृमाधापदेनाश्च ॥ ६११ ॥ एभ्यः किदिः प्रत्यय एषां च यथासंख्यं वित्तिरभृम अधापदेभ इत्यादेशा भवन्ति । न प्लवनतरणयोः। तितिरिः पक्षिजातिः प्रवक्ता च वेदशाखायाः । भ्रमू चलने । भूमिः वायुः हस्ती जलं च । बाहुलकात् भृमादेशाभावे भ्रमिः भ्रमः । अदक भक्षणे । अधि उपरिभावे । अध्यागच्छति। आपलंद व्याप्तौ । अपि समुच्चयादौ । प्लक्षोऽपि । न्यग्रोधोऽपि । दम्भू दम्भे । देभिः परासनम् ॥ ६११ ॥ मनेरुदेतौ चास्य वा ॥ ६१२ ॥ मनिच् ज्ञाने इत्यस्मादिः प्रत्ययोऽकारस्य च उकारकारी वा भवतः । मुनिः ज्ञानवान् । मेनिः
॥५०॥ संकल्पः । मनिः धूमवर्तिः ॥ ६१२ ॥ क्रमितभिस्तम्भरिच नमेस्तु वा ॥ ६१३ ॥ एभ्यः किदिः प्रत्ययोऽकारस्य चेकारो भवति, नमः पुनरकारस्येकारो
vowwwON
rae