________________
। स्वरेभ्य इः ॥ ६०६ ॥ स्वरान्तेभ्यो धातुभ्य इ. प्रत्ययो भवति । जि अभिभवे । जयिः राजा। हिंद गतिवृद्ध्योः । हयिः कामः । रुक् शब्दे । रविः सूर्यः । कुंछ ।
शब्दे । कविः काव्यकर्ता। र स्तुती । स्तविः उदाता । लूगश् छेदने । लविः दात्रम् । पूगश् पवने । पविः वायुः वजं पवित्रं च । भू सत्तायाम् । भविः सत्ता। | चन्द्रः विधिश्च । क् गतौ । अरिः शत्रुः । हुंग् हरणे । हरिः इन्द्रः विष्णुः चन्दनम् मर्कटादिश्च । हरयः शक्राश्वाः । दुडु ,गक पोपणे च । भरिः वसुधा । सं गतो।। सरिः मेघः । पृश् पालनपूरणयोः। परिः भूमिः । तृ प्लवनतरणयो। तरिः नौः । दृश् विदारणे । दरिः महाभिदा । मृश् हिंसायाम् ण्यन्तः। मारिः अशिवम् । वृग्श वरणे । वरिः विष्णुः । ण्यन्ताद्वारिः हस्तिवन्धनम् । वारि जलम् ॥ ६०६ ॥ पदिपठिपचिस्थलिहलिकलिबलिवलिबल्लिपल्लिकटिचटिवटिवधिगाध्यर्चिवन्दिनन्द्यविवशिवाशिकाशिछर्दितन्त्रिमन्त्रिखण्डिमण्डिनण्डियत्यचिमस्यसिवनिध्वनिसनिगमितमिग्रन्थिश्रन्थिजनिमण्यादिभ्यः ॥ ६०७॥ एभ्य इ. प्रत्ययो भवति । पदिच् गतौ । पदिः राशिः मोक्षमार्गश्च । पठ व्यक्तायां वाचि । पठिः विद्वान् । डु पचींप् पाके । पचिः अग्निः। हल स्थाने । स्थलिः दानशाला । हल विलेखने । हलिः हलः । कलि शब्दसख्यानयो । कलिः कलहः युगं च । वल प्राणनधान्यावरोधयोः । बलिः देवतोपहारः दानवश्च। वलिवल्लि संवरणे । बलिः त्वक्तरङ्गः । वलिः हिरण्यशलाका लता च । पल्ल गतौ । पल्लि: मुनीनामाश्रमः व्याधसंस्त्यायश्च । कटे वर्षावरणयोः । कटिः स्वाङ्गम् । बटण भेदे। चटिः वर्णः। वट वेष्टने । बटि: गुलिका तन्तुः सूना च नाभिः वर्णश्च । वधि बन्धने । वधिः क्रियाशब्दः । गाई मतिष्ठालिप्साग्रन्थेषु । गाधिः विश्वामित्रपिता । अर्च पूजायाम् । अधिः अग्निशिखा । वदुङ् स्तुत्यभिवादनयो । वन्दिः ग्रहणिः। टु नदु समृद्धौ । नन्दिः ईश्वरमतीहारः भेरिश्च । अब रक्षणादौ । अविः ऊर्णायुः। वशक कान्तौ । वशिः वशिता । वाशिच् शब्दे । वाशिः प्रकान्तिः रश्मिः गोमायुः अगिः शब्दः प्रजनप्राप्ता चतुष्पात् जलदश्च । काशृङ् दीप्तौ । काशयः जनपदः । छर्दण् वमने।छर्दिः यमनम्। तन्त्रिण कुटुम्बधारणे। तत्रिः पीणामूत्रम् । मन्त्रिण गुप्तभाषणे। मन्त्रिः सचिवः। खडुण भेदे । खण्डिः मद्वारम् । मडुभूपायाम् । मण्डिः मृद्भाजनपिधानम्। चडुङ्कोपे। चण्डि भामिनी । यतैङ् प्रयत्ने। यतिः भिक्षुः । अञ्जौप व्यक्तिम्रक्षणगतिषु। अञ्जिः सज्जः पेपणी पेजः गतिश्च । समञ्जिः शिश्नः। मसैच परिणामे । मसिः शस्त्रां । अमूच् क्षेपणे । असिः खड्गः । बनूयी याचने । वनिः साधुः याच्या शकुनिः आग्नश्च । ध्वन शब्दे । ध्वनिः नादः। पण भक्तौ । सनिः संभक्ता पन्था दानं म्लेच्छ: नदीतटं च । गम्लं गतौ । गमिः आचार्यः । तमूच् काङ्क्षायाम् । तमिः अलसः । ग्रन्थ संदर्भ, श्रन्थश् मोचनप्रतिहपयोः । ग्रन्थिः श्रन्थिश्च पर्व संध्यादि । जनैचि प्रार्भावे । जनिः वधूः कुलाङमा भगिनी प्रादुर्भावश्च । मण शब्द । मणिः रत्नम् । आदिग्रहणात् वही प्रापणे । बहिः अश्वः । खाद भक्षणे । खादिःश्वा । दधि धारणे । दधि वीरविकारः । खल संचये च । खलिः पिण्याकः । शचि व्यक्तायां वाचि । शची इन्द्राणी । 'इतोऽत्यर्थात्' इति गौरादित्वाद्वा ङीः इत्यादयोऽपि भवन्ति ॥६०७ ॥ किलिपिलिपिशिचिदित्रुटिशुण्ठितुण्डिकुण्डिभण्डिहुण्डिहिण्डिपिण्डिचुल्लियुधिमिथिरुहिदिविकीयादिभ्यः॥६०८॥ एभ्य इ. प्रत्ययो
ANN