________________
श्रीहेमशः ॥४९॥
उ०वि०
ललिण् ईप्सायाम् । ललह लीलावान् । पल गतौ । पलहः आवापः । कलि शब्दसंख्यानयोः । कलहः युद्धम् । अनक् प्राणने । अनहः नीरोगः । रगे शङ्कायाम् । रगहः नटः । लगे सड़े। लगहः मन्दः ॥ ५८९ ॥ पुलेः कित् ॥ ५९० ॥ पुल महत्त्व इत्यस्मात् किदहः प्रत्ययो भवति । पुलहः प्रजापतिः ॥ ५९० ॥ वृकादशमिभ्य आहः ॥ ५९१ ॥ एभ्य आहः प्रत्ययो भवति । वृग्द वरणे । वराहः सूकरः । कटे वर्षावरणयोः। कटाहः कर्णवत् कालायसभाजनम् । शमूच् उपशमे । शमाहः आश्रमः ॥ ५९१ ॥ बिलेः कित् ॥ ५९२ ॥ विलत् वरणे इयस्मात् किदाहः प्रययो भवति । विलाहा रहः ॥ ५९२ ॥ निर इण ऊहश्
॥ ५९३ ॥ निपूर्ताव इंणक् गतावित्यस्माच्छिदूहः प्रत्ययो भवति । नियूहः सौधादिकाष्ठनिर्गमः ॥ ५९३ ॥ दस्त्यूहः ॥ ५९४ ॥ ददातेस्त्यूहः प्रत्ययो भवति । | दात्यूहः पक्षिविशेषः ॥ ५९४ ॥ अमेरोकहः ॥ ५९५ ॥ अनक् प्राणने इत्यस्मादोकहः प्रत्ययो भवति । अनोकहः वृक्षः ॥ ५९५ ॥ वलेरक्षः ॥ ५९६ ॥ चलि संवरणे इत्यस्मादक्षः प्रत्ययो भवति । वलक्षः शुकः ॥ ५९६ ॥ लाक्षाद्राक्षामिक्षादयः ॥ ५९७ ॥ लाक्षादयः शब्दा अक्षमत्ययान्ता निपात्यन्ते । लसेरा च । लाक्षा जतु । रसेः च । द्राक्षा मृवीका । आपूर्वान्मृदेरन्त्यस्वरादेला प्रत्ययादरित्वं च । आमिक्षा हविर्विशेषः॥ आदिग्रहणात चुप मन्दायां गतावित्यस्य चोक्षः ग्रामरागः शुद्धं च । एवं पीयूक्षादयोऽपि ॥ ५९७ ।। समिनिकषिभ्यामाः ॥ ५९८ ॥ सम्पूर्वादिण्क् गतावित्यस्मात निपूर्वात कप हिसायामित्यस्माच्च आः प्रत्ययो भवति । समया पर्वतम् । निकषा पर्वतम् । समीपासूयावाचिनावेतौ ॥ ५९८ ॥ दिविपुरिवृषिमृषिभ्यः फित् ॥ ५९९ ॥ एभ्यः किदाः प्रत्ययो भवति । दिवूच काडाजयेच्यापणिद्युतिस्तुतिगतिपु । दिवा अहः । पुरत् अग्नगमने । पुरा भूतकालवाची । वृष् सेचने । वृपा पवलामित्यर्थः । मृपीच तितिक्षायाम् । मृपा अभूतमित्यर्थः ॥ ५९९ ॥ साहाभ्याम् ॥ ६०० ॥ विपूर्वाभ्यां पोच् अन्तकर्मणि, ओहाक् त्यागे इत्येताभ्याम् आः प्रत्ययो भवति । निसाः चन्द्रमाः बुद्धिश्च । तालव्यान्नोऽयमित्येके । विहाः विहगः स्वर्गश्च ॥ ६०० ॥ वृमिथिदिशिभ्यस्थयट्याश्चान्ताः ॥ ६०१॥ एभ्यः किदाः प्रत्ययो भवति यथासंरव्यं थकारयकारट्यकारावान्ता भवन्ति । वृण्ट वरणे । वृथा अनर्थकम् । मिश्रृग् मेधाहिसयोः । मिथ्या मृषा निष्फलं च। दिशीव आतसर्जने । दिष्टया प्रीतिवचनम् ॥ ६०१॥ मुचिस्वदेई च॥ ६०२ ।। आभ्या किदाः प्रत्ययो धकारश्चान्तस्य भवति । मुच्छंती मोक्षणे। मुधा अनिमित्तम् । ष्वाद आस्वादने । स्वधा पितृवलिः ॥६०२॥ सोग आह च ।। ६०३ ॥ सुपूर्वात् ब्रूतेराः प्रत्ययोऽस्य चाहादेशो भवति । स्वाहा देवतातर्पणम् ॥ ६०३ ॥ सनिक्षमिदुषेः ॥ ६०४ ॥ एभ्यो धातुभ्य आः प्रत्ययो भवति । पणूयी दाने । सना नित्यम् । क्षमौपि सहने । क्षमा भूः शान्तिश्च । दुपंच वैकृत्ये। दोपा रात्रिः ॥ ६०४॥ डितः॥ ६०५॥ धातोबहुलमाः प्र-१ ययः स च डिद्भवति । मनिच ज्ञाने । मा निषेधे । पोच् अन्तकर्मणि । सा अवसानम् । अनन् प्राणने । आ स्मरणादौ । प्री प्रीती । मा स्मयने । हनक । हिसागत्योः । हा विषादे । वन भक्तौ । या विकल्पे । राक् दाने । रा दीप्तिः । भांह दीप्तौ । भा कान्तिः । सहपूर्वः सभा परिपत् । नाम्नीति सहस्य सः ॥६०५।।
॥४९॥