________________
युक् मिश्रणे । यावतं भक्तम् तुगम् मित्रं च । यत्रसम् अश्वादिघासः अन्नं च ॥ ५७१ ॥ दिवादिरभिलभ्युरिभ्यः कित् || ५७२ || दिवादिभ्यो रभिलभ्युरिभ्यश्च दिसः प्रत्ययो भवति । दीव्यतेः दिवसः वासरः । व्रीड्यते, लत्वे, बीलसः लज्जावान् । नृत्यतेः नृततः नर्तकः । क्षिप्यतेः, क्षिपसः योद्धा । सीव्यतेः, सिवसः श्लोकः वस्त्रं च । श्रीपतेः श्रिवसः गतिमान् । इष्यतेः, इपसः इष्याचार्यः । भिं रामस्ये । रभसः संरम्भः उद्धर्पः अगम्भीरथ । ड्डु लभिप् प्राप्तौ । | लभसः याचकः प्राप्तिव । उरिः सौत्रः । उरसः ऋषिः || ५७२ ॥ फनसतामरसादयः ॥ ५७३ ॥ फनसादयः शब्दा अमप्रत्ययान्ता निपात्यन्ते । फण गतौ नत्र फनसः पनसः । तमेररोऽन्तो दृद्धिय । तागरसं पद्मम् । आदिग्रहणात् कीकस बुक्कसादयो भवन्ति ॥ ५७३ ॥ युबलिभ्यामासः ॥ ५७४ ॥ आभ्यामासः प्रत्ययो भवति । युक् मिश्रणे । यवासः दुरालभा । वल प्राणनधान्यावरोधयोः । वलासः श्लेष्मा ॥ ५७४ ॥ किलेः कित् ॥५७५ ॥ किल वैत्यीडनयोरित्यस्मात् किदासः प्रत्ययो भवति । किलासं सिध्यम् । किलासी पाककर्परम् ॥ ५७५ ॥ तलिकसिभ्याशीसण् ॥ ५७६ ॥ आभ्यामी सण प्रत्ययो भवति । तलण प्रतिष्ठायाम् । तालीसं गन्धद्रव्यम् । कस गतौ । कासीसं धातुजमौषधम् ॥ ५७६ ॥ सेर्डित् ॥ ५७७ ॥ पिंग्ट् बन्धने इत्यस्मात् डिदीसण प्रत्ययो भवति । सीसं लोहजातिः | ॥ ५७७ ॥ त्रपेरुसः || ५७८ || पौपि लज्जायामित्यस्मादुसः प्रत्ययो भवति । त्रपु कर्कटिका | विधानसामर्थ्यात् पत्वाभावः ॥ ५७८ ॥ पदिवाभ्यां टिसडिसौ ॥ ५७९ || आभ्यां यथासंख्यं टिसो डित् इसच प्रत्ययो भवति । पट गतौ । पट्टिसः आयुधविशेषः । वीक् प्रजनादौ । विसं मृणालम् ॥ ५७९ ॥ तसः || ५८० ॥ पटवीभ्यां तसः मसयो भवति । पट्टसः त्रिशूलम् । वेतसः वानीरः ॥ ५८० ॥ इणः || ५८१ ॥ एतेस्तसः प्रत्ययो भवति । एतसः अध्वर्युः ॥ ५८१ ॥ पीङ नसक ॥ ५८२ ॥ पीं च पाने इत्यस्मात् किन्नसः प्रत्ययो भवति । पीनसः श्लेप्मा ॥ ५८२ ॥ कृकुरिभ्यां पासः ॥ ५८३ ॥ आभ्यां पासः प्रत्ययो भवति । ड कुंग करणे । कर्पासः पिचुमकृतिः वीरुच । कुरत् शब्दे । कूर्पासः कञ्चुकः ॥ ५८३ ॥ कलिकुलिभ्यां मास ॥ ५८४ || आभ्यां कि मासः प्रत्ययो भवति । कलि शब्दसंख्यानयोः । कल्मासं शवलम् । कुल वन्धुसंस्त्यानयोः । कुल्मासः अर्धस्विनं माषादि ॥ ५८४ ॥ अलेरम्बुसः ||| ५८५ || अली भूषणादावित्यस्मादम्बुसः प्रत्ययो भवति । अलम्बुसः यातुधानः । अलम्बुसा नाम ओषधिः ॥ ५८५ ॥ लूगो हः ॥ ५८६ ॥ लुनातः प्रत्ययो भवति । लोहं सुवर्णादि ॥ ५८६ ॥ कितो गे च ॥ ५८७ ॥ कित् निवासे इत्यस्मात् ह' प्रत्ययोऽस्य च गे इत्यादेशो भवति । गेहं गृहम् ॥ ५८७ ॥ हिंसेः सिम् च ॥ ५८८ || हिमुप् हिंसायामित्यस्माद्धः प्रत्ययोऽस्य च सिमित्यादेशो भवति । सिंह' मृगराजः ॥ ५८८ ॥ कुप्रकटिपटिमडिल दिल लिपलि| कल्यनिरगिलगेरहः ॥ ५८९ ॥ एभ्योऽहः प्रत्ययो भवति | कृत् विक्षेपे । करहः धान्यावपनम् । पृश् पालनपूरणयोः । परहः शंकरः । कटे वर्षावरणयोः । कह: पर्जन्यः कर्णवच्च कालायसभाजनम् । पट गतौ । पटहः वायविशेषः । मद सादे सौत्रः । महः ह्रस्वः । लट बाल्ये । लटति विलसति लटहः विलासवान् |
AAAAA