________________
॥३४॥ *अदोमुमी। १। २॥ ३५ ॥ अदसंबन्धिनौ मुमी इत्येतावसंधी भवतः स्वरे परे । अमुमुईचा । अमी आसते । अमी अश्वाः। अदसिति किम् । *अम्यत्र ॥३५॥ *चादिःस्वरोऽनाङ।१।२॥३६॥ *आवजितश्चादिरव्ययसंज्ञका स्वरः स्वरे परेऽसंधिर्भवति । अ अपेहि । *आ एवं किल मन्यसे । *आ एवं नु तत् । विस्मये, इ इन्द्रं पश्य । ई ईदृशः संसारः। उ उत्तिष्ठ । ऊ *ऊपरे बोजं वपसि । ए इतो भव । ओ ओश्राक्य । चादिरिति किम् । अ विष्णो आगच्छ, आगच्छ । कथं तितउः परिपवनम् । तनेर्ड उरिति डउविधानवलादसंधिर्भविष्यति । उत्तरत्रान्तग्रहणादिह केवलो गृह्यते तेनेह न भवति । चेति । इतीह । नन्विति । वेति । स्वर इत्येव । जानु उ जानू । स्वर इति प्रयासत्तेस्तन्निमित्तकसंधिप्रतिषेधादिह दीर्घत्वलक्षणः संधिर्भवत्येव । जानु उ अस्य रुजति, जानू अस्य रुजति । केचित्तु चाद्यचादिस्थानस्याचादिरूपत्वात्स्वरनिमित्तकमपि संधिमिच्छन्ति । जानु उ अस्य रुजति, जान्वस्य रुजति । अनाङिति किम् । आ ईपदुष्णमोष्णम् । आ इहि एहि । *आ उदकान्तात् , ओदकान्तात्मियं प्रोथमनुव्रजेत् । *आ आर्येभ्यः, आर्येभ्यो यशो गतं गौतमस्य । 'ईपदर्थे क्रियायोगे *मर्यादाभिविधौ च यः ॥ एतमातं ङिन्तं विद्याद्वाक्यस्मरणयोरङित् ' ॥ १ ॥ ३६ ॥ *ओदन्तः।१।२।३७ ॥ ओकारान्तश्चादिः स्वरे परेऽसंधिर्भवति । अहो अत्र । उताहो इदम् । आहो एतत् । अथो अस्मै । हहो आगच्छ । अघो एहि । नो इन्द्रियम् । चादिरित्येव । गवीश्वरः। अगौ!ः समपद्यत, *गोऽभवत् ।
जायाया दम्भाष ॥ योश्च पृथिवी च पृषोदरादित्वात् रोदसि इदन्त आदेशस्ततो द्विवचनम् ॥ अदो-॥ अदसो मुमी इति विग्रह ॥ ननु अमुष्य मुमी इति विग्रह प्राप्नोति कथमदस इति। सत्यम् । अविवक्षितार्थस्य प्रायोगिकस्यादस्शब्दस्यात्र प्रयोग , तत्र तु सार्थको गृह्यते इति अदस्शब्दसवन्धिकार्याभावेऽनस इति भवति । ह्रस्वत्वाभावे तु स्वैगदिसूत्रवत् सर्व द्रष्टव्यम् सीत्रत्वाद्वा समाहारेऽपि न हस्व ॥-अम्यति ॥ अम् गतावित्यती भाषे घनि अम सोऽस्यास्तीति इन् ॥-चादि-॥ अनादित्यत्र पर्युदासाश्रयणेन सदृशग्रहणात् चादिना स्वरस्य विशेषणात् तदन्तत्वासभवात सामानाधिकरण्यलाभात् केवलप ग्रहणमित्याह-आडवर्जितश्चादिरव्ययसशक स्वर इति । वृत्तौ तु द्वितीयमुत्तरम् ॥-आ एवं किल मन्यसे इति ॥ अत्राकारी वाक्यालकारे । पूर्ववाक्यार्थविपर्ययद्योतको वा ॥ उच्यते पीच्यते बीजादि वस्त्वनेनेति व्यजनानि उप, सोऽस्मिन्नस्ति 'मध्वादिभ्यो र' इति रे ऊपर ॥ शृणोतोणगि अलि श्राव । ओ श्राव ओश्रावस्त करोति णिचि पूर्वपदी 2 ओश्रावयेति क्रियापदमखण्डम् ॥-आ उदकान्तादिति ॥ अनाडू मर्यादायाम् तेन प्रियप्रोधानुनजनस्यौदकमर्यादाभाव आडा द्योत्यते ॥-आ आर्येभ्य इति । अत्राभिविधी तेन यशोगति प्रति आर्याणामभिविधित्व द्योत्यते ॥-मर्यादाभिविधी चेति ॥ अवधिमता सपदोऽवधिरभिविधिरभिव्याप्ति- अवधिमपि यो व्याप्नोतीत्यर्थ । अवधिमताऽसयनी योऽवधि स मर्यादा त परित्यज्य
यो वर्तते इत्यर्थ ॥-वाक्यस्मरणयोरिति ॥ वाक्यशब्देन वाक्यार्थ उच्यते, चादीना द्योतकत्वात् अर्थस्यैव च द्योत्यत्वात् न तु शब्दस्येति ॥-"आ एवं किल मन्यसे । पूर्वप्रक्रान्तवाक्यार्थ2 स्थान्यथात्वद्योतनायायमत्राकार ॥ अन्ये तु वाक्यशब्देन वाक्यमेवाहु । तत आ एवं किल मन्यसे, नैव पूर्वममस्था सप्रति मन्यसे इति वाक्यसूचनायाकार प्रयुज्यते ॥ तथा स्मृते सूचक आकार
प्रयुज्यते तत स्मृत्यों निर्दिश्यते-आ एवं नु तदिति" ॥-ओदन्त ॥-समपद्यतेति वृत्तावर्थकथन न तु ग्वेरारम्भकमिद वाक्यम् । भ्वस्तियोगे एव चर्विधानात् ॥-गोऽभवदिति