________________
लघुन्यास
॥२९॥
श्रीदेममा० as नित्यार्थ वचनम् ॥ ३० ॥ वाऽत्यसंधिः।।२।३१॥ गोरोकारस्य पदान्ते वर्तमानस्यात्यकारे खरे परेऽसंधिः प्रकृतिभावो चा भवति । गो अग्रम् । गो अ
जिनम् । पक्षे यथाप्राप्तम् । गोऽग्रम् । गवाग्रम् । गोऽजिनम् । गवाजिनम् । अतीति किम् । गवेङ्गितम् । गवाननम् । गोरित्येव । योऽग्रम् । ओत इत्येव। चित्रग्व2 ग्रम् । हे चित्रगोऽयमित्यत्र तु लाक्षणिकत्वान्न भवति । पदान्त इत्येव । गौरिवाचरति, गवति ॥ ३१ ॥ प्लतोऽनितौ ।।।२।३२॥ इतिशब्दवजिते स्वरे
परे प्लुतोऽ“संधिर्भवति । संधिकार्यभाग न भवतीत्यर्थः । *देवदत्त ३ अत्र वसि । जिनदत्त ३ इदमानय । मुश्लोक ३ आगच्छ । सुमङ्गल ३ इदमानय । अनिताविति किम् । सुश्लोकेति । सुमङ्गलेति । केचित्तु इतिशब्दे विकल्पमिच्छन्ति । सुश्लोक ३ इति, सुश्लोकेति । सुमगल ३ इति, सुमङ्गलेति ॥ ३२ ॥ इ३वा ।१।२।३३ ॥ इ३ इति प्लुतः खरे परे वाऽसन्धिर्भवति । इतावप्राप्तेऽन्यत्र च प्राप्त उभयत्र विकल्पोऽयम् । लुनीहि ३ इति, लुनीहीति । चिनुहि ३ इदम् ,
चिनुहीदम् । कथं वशा ३ इयम् वशेयम् । छान्दसावेतौ ॥३३॥ ईदेत् द्विवचनम् । १।२।३४॥ ईत् ऊत् एत् इत्येवमन्तं द्विवचनं स्वरे परेऽसंधिभर्वेति। IAS पुणी अत्र। मुनी इह । साधू एतौ। अम् इति । कुण्डे अत्र । माले इति । पचते इति । पचेथे इति । पचावहे आवाम् । ईददेदिति किम् । वृक्षावत्र । द्विवचनमिति किम् ।
कुमार्यत्र। एपो प्लुतानामितावपि संधिर्न भवति । अग्नी ३ इति । वायू इति । स्वर इत्येव । तव ई कामौ तवे । प्रत्यासत्तेः खर निमित्तककार्यप्रतिषेधादिह भवत्येव । तब ई * तवे आसाते । केचितु 'मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम' इति प्रयोगदर्शनात् मणो इव मणीवेत्यादावसन्धिप्रतिषेधं वर्णयन्ति । तदयुक्तम् । श्वाशब्देनोपमायेन सिद्धत्वात् । 'मणी इवोदिन्नमनोहरत्विषो' इत्यादावसंधिदर्शनाच । अन्ये तु यथादर्शनं संधिमसंधि वेच्छन्ति । मणीव । दंपतीव । रोदसीव । मणी इव
**OKEKKERENEREKHEMEERNET
E5धिकरणमिन्ने इति ततस्तदादाविति वक्तव्यम्, गवेन्द्रयज्ञ इत्याद्यर्थ केवले च व्यपदेशिवद्भावाद्भवति ॥-प्लुतो-॥ अतीति नानुवर्तते, इतिशब्दवर्जनवैययात् इत्याहइतिशब्देत्यादि ॥-अस. 5 धिरिति ॥ न विद्यते सधिर्यस्य इति यहुनीहिणा व्याख्येयम् । एवमुत्तरत्र ॥ देवदत्त३ अत्र न्वसीति ॥ देवदत्तशब्दादामन्त्र्याविद्वितस्य से 'अदेत स्थमौटुंग' इति लुकि 'दूरादामन्त्र्यस्य'
इति प्लुत ॥ आगच्छ भो देवदत्तेति कस्यचिद्वाक्यस्यान्ते इदमामन्त्र्यपद द्रष्टव्यम् वाक्यान्ते प्लुतस्य विधानात् इति ॥-३३ वा ॥ षशा ३ इयमित्यत्र प्लुतोऽपि छान्दसत्वाद्भवति ॥ इदूदेत् ॥ AS अग्नी ३ इतीत्यादो 'दूरादामन्त्र्यस्य'-इति प्लुत ॥ तवे इति ॥ ननु यथा स्वरे परे सधिकार्यनिषेधस्तथा पूर्वदेशस्थितेऽपि कि नेति । सत्यम् । 'सप्तम्या निर्दिष्टे पूर्वस्य' इति न्यायात् स्वरापेक्षया का पूर्वदेशव्यवस्थितस्पेव ईदादे सधिनिषेधो न तु पूर्वस्थिते सरे । यद्येव यत्र परत्र स्वरो भवति तवे आसाते इति तत्र पूर्वेणापि सह सधिप्रतिषेध प्राप्नोतीत्यत आह-प्रत्यासत्तेरित्यादि ॥ अयमों
यस्मिन् सति यद्भवति तत्तस्य निमित्तामिति परलराश्रितत्वात् इति प्रथम यत्वस्य तदनु अयादेशस्य च निषेध । ते एव च परस्य स्वरस्य प्रत्यासने, एत्व तु पर स्वरमन्तरेणापि भवतीति न तत् स्वIK रनिमित्तम् न तत्प्रत्यासन्न चेति प्रत्यासत्तिन्यायात्तनिमित्तकस्यैव कार्यस्य निषेधो नातन्निमित्तकस्येति ।।वाशब्देनेत्यादि । भाष्यकारवार्तिककारयोग्समतत्वाचेति ॥ दपती इत्यत्र राजदन्तादित्वात्
KHEREXXEXEYEEKX**