________________
जातिः । मुरत् संवेष्टने । मुरवः मानविशेषः वायजातिश्च । ष्ठां गतिनिवृत्तौ । स्थवः अजावृपः ॥ ५९८ ॥ कैरव भैरवमुतवकारण्डवादीनवादयः ॥ ५१९ ॥ कैरवादयः शब्दा अवप्रत्ययान्ता निपात्यन्ते । कृग्भृगोः कैरभैरावादेशौ । कैरवं कुमुदम् । भैरवः भर्गः भयानकश्च । मिनोतेर्मुत् च । मुतवः मानविशेषः । कृगोऽडोsन्तो वृद्धि । कारण्डवः जलपक्षी । आङ्पूर्वादीङो नोऽन्तश्च । आदीनवः दोपः । आदिग्रहणात् कोद्रव कोटवादयोपि भवन्ति ॥ ५१९ ॥ गृणातेरावः ॥ ५२०॥ शृ हिसायामित्यस्मादावः प्रत्ययो भवति । शरात्रः मल्लकः ॥ ५२० || प्रथेरिवद् पृथ् च ॥ ५२१ ॥ प्रथिषु प्रख्याने इत्यस्मादिवद् प्रत्ययोऽस्य च पृथ् इत्यादेशो भवति । पृथिवी भूः ॥ ५२१ ॥ पलिसचैरिवः || ५२२ || पल रक्षणे पचि सेवने इत्याभ्यामित्रः प्रत्ययो भवति । पलिवः गोप्ता । सचिवः सहायः ॥ ५२२॥ स्पृशे श्वः पार् च ॥ ५२३ ॥ स्पृशत् संस्पर्शे इत्यस्मात् श्वः प्रत्ययोऽस्य च पारित्यादेशो भवति । पार्श्व स्वाङ्गम् समीपं च । पार्श्वः भगवांस्तीर्थकरः ॥ ५९३ ॥ कुडियवः || ५२४ || एभ्य उवः प्रत्ययो भवति । कुडत् बाल्ये च । कुडुव प्रसृतहस्तमानम् । तुडत् तोडने । तुडुवम् अपनेयद्रव्यम् | अड उद्यमे । अडवः
|| ५२४ ॥ नीहिणध्यैप्यापादामाभ्यस्त्वः || ५२५ || एभ्यस्त्वः प्रत्ययो भवति । णींग प्रापणे । नेत्वं द्यावापृथिव्यौ चन्द्रश्च । हुक् दानादनयोः । होत्वं यजमानः समुद्रश्च । इंण्क्गतौ । एत्वम् गमनपरम् । ध्यै चिन्तायाम् । ध्यात्वं ब्राह्मणः । प्पैंङ वृद्धौ । प्यात्वं ब्राह्मणः समुद्रः नेत्रं च ॥ पां पाने । पात्वम् पात्रम् । डु दांग्क् दाने । दात्वः आयुक्तः यज्वा यज्ञथ । मां माने । मात्वम् प्रमेयद्रव्यम् || ५२५ ॥ कृजन्येधिपाभ्य इत्वः ॥ ५२६ ॥ एभ्य इत्वः प्रत्ययो भवति । डुकुंड् करणे । करित्वः करणशीलः । जनैचि प्रादुर्भावे । जनित्वः लोकः मातापितरौ द्यावापृथिव्यौ च । जनित्वं कुलम् । एष दृद्धौ । एधित्वः अग्निः समुद्रः शैल । पां पाने । पेत्वम् तप्तभूमिप्रदेश: अमृतं नेत्रं सुखं मानं च ॥ ५२६ ॥ पादावम्यभिभ्यः शः ॥ ५२७ ॥ एभ्यः शः प्रत्ययो भवति । पांक् रक्षणे । पाशः बन्धनम् । डु दांग्क् दाने । दाशः कैवर्तः । टु वमू उद्गिरणे । वंशः वेणुः | अम गतौ । अंशः भागः || ५२७ ॥ कृवृभृवनिभ्यः कित् ॥ ५२८ ॥ एभ्यः कित् शः मस्रयो भवति । डु क्कंग करणे । कृशः तनुः । वृग्द् वरणे । वृशं शृङ्गवेरम् मूलकं लशुनं च । टुडु भृंगूक पोषणे च । भृशम् अत्यर्थम् । वन भक्तौ । वशः आयत्तः ॥ ५२८ ॥ कोर्वा ॥ ५२९ || कुंछ शब्दे इत्यस्मात् श प्रत्ययः स च किद्वा भवति । कुशः दर्भः । कोशः सारम् कुड्मलं च ॥ ५२९ ॥ क्लिशः के च ॥ ५३० ॥ क्लिशौश् विवाधने इत्यस्मात् शः प्रत्ययोऽस्य च के इत्यादेशो भवति । केशाः सूर्धजाः || ५३० ॥ उरेरश ॥ ५३१ ॥ उर गतावित्यस्मात् सौत्रादशक् प्रत्ययो भवति । उरशः ऋषिः ॥ ५३१ ॥ कलेष्टित् || ५३२ || कलि शब्दसंख्यानयोरित्यस्मात् विदशक् प्रत्ययो भवति । कलशः कुम्भः । कलशी दधिमन्यनभाजनम् || ५३२ ॥ पलेराशः ॥ ५३३ ॥ पल गतावित्यस्मादाशः प्रत्ययो भवति । पलाशः ब्रह्मवृक्षः ॥ ५३३ ॥ कनेरीश्चातः ॥ ५३४ ॥ कनै दीया - दावित्यस्मादाशः प्रत्यय ईकारश्चाकारस्य भवति । कीनाशः कर्षकः वर्णशंकरः कदर्यथ ॥ तथा-लुब्धः कीनाशः स्यात् कीनाशोऽप्युच्यते कृतघ्नश्च ॥ योऽश्नाति