________________
OCA
पिञ्छोलकल्लोलककोलमकोलादयः ॥ ४९५ ॥ पिछोलादयः शब्दा ओलमत्ययान्ता निपात्यन्ते । पीडे पिछच। पिञ्छोलः वादिनविशेषः । कलेोऽन्तश्च । कल्लोलः अभिः । कचिमच्योः कादिः । ककोली लताविशेषः । मकोलः सुधाविशेषः । आदिग्रहणादन्येऽपि ॥ ४९५ ॥ वलिपुः कलक् ॥ ४९६ ॥ आभ्यां | कित् कलः प्रत्ययो भवति । वलि संवरणे । वल्कलं तरुत्वक् । पुष् पुष्टौ । पुष्फलं समग्रं युद्धं शोभनं हिरण्यं धान्यं च ॥ ४९६ ॥ मिगः खलश्चैच ॥ ४९७ ॥ डु मिन्ट प्रक्षेपणे इत्यस्मात् खलश्चकारात् कलच प्रत्यय एकारश्चान्तादेशो भवति । मेखला गिरिनितम्बः रशना च । मेकलः नर्मदापभवोऽद्रिः। मिग एत्ववचनमात्ववाधनार्थम् ॥ ४९७ ॥ श्रो नोऽन्तो इखश्च ॥ ४९८ ॥ शृश् हिंसायामित्यस्मात् खलः प्रत्ययो नकारोऽन्तो इस्वश्च भवति । गृहला लोहरज्जुः । शृद्धलः शृङ्गलं वा ॥ ४९८ ॥ शमिकमिपलिभ्यो बलः ॥ ४९९ ॥ एभ्यो बलः प्रत्ययो भवति । शमूच् उपशमे । शम्बलं पाथेयम् । कमूड कान्तौ । कम्बल: ऊोपटः । पल गतौ । पल्वलम् अकृत्रिमोदकस्थानविशेषः ॥ ४९९ ॥ तुल्वलेल्वलादयः॥ ५००॥ तुल्वलादयः शब्दा वलपत्ययान्ता निपात्यन्ते । तुलील्योर्णिलुग्गुणाभावश्च । तुल्वलः ऋषिः, यस्य तौल्वलिः पुत्रः । इल्वलः असुरो योऽगस्त्येन जग्धः मत्स्यः यूपश्च । इल्वलाः तिस्रो मृगशिरशिरस्ताराः । आदिग्रहणात् शाल्वलादयो भवन्ति ॥ ५००॥ शीङस्तलक्पालवालण्वलपवलाः ॥ ५०१ ॥ शी स्वप्ने इत्यस्मात्तलक्पालवालण्वलण्वल इत्येते प्रत्यया भवन्ति । शीतलमनुष्णम् । शेपालम् । जपादित्वात् पस्य वत्वे, शेवालम् । शैवालम् शैवलम् शेवलम् पञ्चकमपि जलमलवाचि ॥ ५०१॥ रुचिकुटिकुषिकशिशालिद्रुभ्यो मलक ॥ ५०२॥ एभ्यः किन मलः प्रत्ययो भवति । रुचि अभिप्रीत्यां च । रुक्मलं सुवर्णम् । न्यङ्कादित्वात कत्वम् । कटव कौटिल्ये । कटमलं मकलम | ऊपश निष्फरें । कुप्मलं तदेव विलं च । कश शब्दे तालव्यान्तः । कश्मलं मलिनम् । शाडङ् श्लाघायाम् । लत्वे, शाल्मल: वृक्षविशेषः । ढुं गतौ । द्रुमलं जलं वनं च ॥ ५०२ ॥ कुशिकमिभ्यां कुल्कमौ च ॥ ५०३ ॥ आभ्यामलक् प्रत्ययो भवति अनयोश्च यथासंख्यं कुल कुम इत्यादेशौ च । कुशच श्लेपणे । कुल्मलं छेदनम् । कमू कान्तौ । कुम्मलं पद्मम् ॥५०३ ॥ पतेः सलः ॥ ५०४॥ पल गतावित्यस्मात् सलः प्रययो भवति । पत्सलः प्रहारः गोमान् आहारश्च ॥ ५०४॥ लटिखटिखलिनलिकण्यशौसशकृगृदृपृशपिश्याशालापदिइसीणभ्यो वः॥ ५०५ ॥ एभ्यो वः प्रत्ययो भवति । लट बाल्ये । लट्वा क्षुद्रचटका कुसुम्भ च । खट काझे । खट्वा शयनयत्रम् । खल संचये च । खत्वं निम्नं खलीनं च । खल्वा दृतिः। णल गन्धे। नल्वः भूमानविशेषः। कण शब्दे । कण्वः ऋषिः। कण्वं पापम् । अशौटि व्याप्तौ । अश्वः तुरगः। संगतौ । सर्वः शम्भुः। सर्वादिश्च कृत्स्नार्थे । शृश् हिसायाम्। शर्वः शंभुः।कृत विक्षेपे। कर्वः आखुः समुद्रः निष्पत्तिक्षेत्रं च । गृत् निगरणे।गः अहंकारः। दृश विदारणे । दर्वाः जनपदः। दवः हिस्रः । पृश् पालनपूरणयोः । पर्वः रुद्रः काण्डं च । शीं आक्रोशे। शप्वः आनोशः। श्यैङ् गतौ। श्यावः वर्णः। शोंच् तक्षणे । शावः तिर्यग्वालः । लाक् आदाने । लावः पक्षिजातिः । पदिंच गतौ । पद: रथः वायुः भूलॊकश्च । इस शब्दे । इस्सः लघुः । इणक गतौ । एवः