________________
पिजुण बिल पाणलोदीर्घस्तुबा
भाण्डम् आयु च । तड ताडने । तण्डुलो निस्तुपो ब्रीद्यादिः । मगु गतौ । मङ्गुल न्यायापेतम् । कठुङ् शोके उतपूर्वः । उत्कण्ठुला उत्कण्ठावान् ॥ ४८५ ॥ श्रीहमशः
१२३० उ०वि० ॥४५॥ १३ स्थावतियहिपिन्दिभ्यः किन्नलुक च ॥ ४८६ ॥ एभ्यः किदुलः प्रसयो नकारस्य च लुम् भवति । ठां गतिनिवृत्तौ । स्थुलं पटकुटीविशेषः । बकुङ् कौटिल्ये ।
बकुलः केसरः ऋपिश्च। बहुङ् वृद्धौ। बहुलं प्रचुरम् । बहुल: प्रासका कृष्णपक्षश्च। बहुलाः कृत्तिकाः। बहुला गौः। विदु अवयवे। विदुलः चेतसः ॥४८६॥ कुमुलतुमुलनिचुलवजुलमजुलपृथुलविशंस्थुलाङ्गुलमुकुलशष्कुलादयः ॥ ४८७ ॥ एते उलमत्ययान्ता निपात्यन्ते। कमितम्योरत उच्च । कुमुलं कुमुमम् हिरण्यं च । कुमुलः शिशुः कान्तश्च । तुमुलं व्यामिश्रयुद्धम् संकुलं च । निजेः किचश्च । निचुलः बजुलः । वजे: स्वरानोऽन्तश्च । वञ्जुलः निचुलः । मजिः सौत्रः । मञ्जुले मनोज्ञम् । प्रथेः पृथ् च । पृथुलः विस्तीर्णः। निपूर्वात् शंसेस्थोऽन्तश्च । विशंस्थुलः व्यग्रः । अओर्ग च । अङ्गुलम् अष्टयवप्रमाणम् । मुचे कित् कश्च । मुकुलः अविकसितपुष्पम् । शके: स्वरात् पोऽन्तश्च । शष्फुली भक्ष्यविशेपः कर्णावयवश्च । आदिग्रहणालकुलवल्गुलादयो भवन्ति ॥ ४८७॥ पिचिमक्षिकण्डिगण्डिबलियधिवश्विभ्य ऊल.॥४८८ ॥ एभ्य ऊला प्रत्ययो भवति । पिजुण हिसावलदाननिकेतनेषु । पिजूला हस्तिवन्धनपाशः राशिः कुलपतिश्च। मजि. सौत्र । मञ्जूला मृदुभापिणी। कडुङ्मदे । कुण्डूल: अशिष्टो जनः। गहु वदनैकदेशे ।गण्डूला कृमिजातिः । वल माणनधान्यावरोधयोः। बलूलः ऋषिः मेघः मासश्च । वधि बन्धने । वधूल. हस्ती घातकः रसायनं तन्त्रकारथ। पश्चिण प्रलम्भने। वञ्चूलः हस्ती मन्स्यमारपक्षी च ॥४८८॥तमेोऽन्तो दीर्घस्तु वा॥४८९॥तमूच काङ्क्षायामियस्मादुलः प्रत्ययो वोऽन्तश्च भवति दीर्घस्तु वा । तान्बूल तम्बूलम् उभयं पूगपत्रचूर्णसंयोगः ॥ ४८९ ॥ कुलिपुलिअशिभ्यः कित् ॥४९०॥ एभ्य ऊला प्रत्ययः स च किद् भवति। कुल बन्धुसंस्त्यानयोः । कुलूलः कामेजातिः । पुल महत्त्वे। पुलूलः वृक्षविशेषः। कुशच् श्लेपे। कुशूलः कोष्ठः॥ ४९०॥ दुकूलकुकूलबब्बूललाङ्गलशार्दूलादयः ॥ ४९१ ॥ दुकूलादयः शब्दा ऊलमत्ययान्ता निपात्यन्ते । दुकोः कोऽन्तश्च । दुकूलं क्षौमं वासः । कुकूलं कारीपोऽग्निः । वधेर्वोऽन्तो वश्च । बब्बूलः वृक्षविशेषः । लङ्गेर्दोषश्च | लागलं वालधिः । शृणातर्दोऽन्तो वृद्धिश्च । शार्दूल: व्याघ्रः । आदिग्रहणात् मालकञ्चूलादयो भवन्ति ॥ ४९१ ॥ महेरेलः ॥ ४९२ ॥ मह पूजायामित्यस्मादेलः प्रत्ययो भवति । महेला स्त्री ॥ ४९२ ॥ कटिपटिकण्डिगण्डिशकिकपिचहिभ्य ओलः॥ ४९३ ॥ एभ्य ओलः प्रययो भवति । कटे वर्षावरणयोः । कटोल: कटविशेषः वादिनविशेपश्च । कटोला ओपधिः । पट गतौ । पटोला वल्लीविशेषः । कडु मदे । कण्डोलः विदलभाजनविशेषः । गहु वदनैकदेशे । गण्डोलः कृमिविशेषः । शक्लृट् शक्तौ । शकोला शक्तः । कपिः सौत्रः । कपोलः गण्डः । चह कल्कने । चहोलः उपद्रवः ।। ४९३ ॥ ग्रह्यायः कित् ॥ ४९४ ॥ ग्रहेराकारान्तेभ्यश्च धातुभ्यः किदोलः प्रत्ययो भवति । ग्रहीश् उपादाने । गृहोलः वालिशः । कायतेः, कोलः बदरी वराहश्च । गायतेः, गोलः वृत्ताकृतिः । गोला गोदावरी बालरमणकाष्ठं च । पातेः, पोला तालाख्यं कपाटबन्धनं परिखा च । लातेः, लोलः चपलः । ददातेर्दयनेद्यतेवळ दोला प्रेवणम् ॥ ४९४ ॥