SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ भीमश TKHot ॥४४॥ मुसच् खण्डने । मुसलम् अवहननम् ॥ ४६८ ॥ कोर्वा ।। ४६९ ॥ कुंड शब्द इत्यस्मादलः प्रसयः स च किद्वा भवति । कुवलं बदरम् । कुवली क्षुद्रबदरी । कवलः प्रासः ॥ ४६९ ॥ शमेयं च वा ॥ ४७० ॥ शमूच उपशम इत्यस्मात् अलः प्रत्ययो मकारस्य च वकारो वा भवति । शवलः कल्मापः । शमलं पुरीपम् दुरितं च ॥ ४७० ॥ छो डग्गादिर्वा ॥ ४७१ ॥ छांच् छेदने इत्यस्मारिकदलः प्रत्ययः स च डगादिर्गादिच वा भवति । छगल छागः। छागलः ऋषिः। छलं वचनविघातोऽर्थविकल्पोपपत्त्या ॥ ४७१॥ मृजिखन्याहनिभ्यो डित् ॥ ४७२ ॥ एभ्यो डिदलः प्रत्ययो भवति । मजौर शुद्धौ । मलं वाह्य रजः अन्तर्दोषश्च । खनुग् अवदारणे । खलः दुर्जनः निष्पीडितरसं पिण्याकादि । खलं सस्पग्रहणभूमिः । इनर हिंसागत्योः आपूर्वः । आहलः विषाणं नखरश्च ॥ ४७२ ॥ स्थो वा ॥ ४७३ ॥ तिष्ठतेरलः प्रत्ययः स च डिदा भवति । स्थलं प्रदेशविशेषः । स्थालं भाजनम् ॥ ४७३ ॥ मुरलोरलविरलकेरलकपिालकज्जलेजलकोमलभृमलसिंहलकाहलशूकलपाकलयुगलभगलचिदलकुन्तलोत्पलादयः ॥ ४७४ ॥ एतेऽलमत्ययान्ता निपात्यन्ते । मुयुयोर्बलोपः किच । मुरलाः जनपदः । उरलः उत्कटः । विपूर्वाद्रमेडिच । विरलः असंहतः । किरः केर् च । करलाः जनपदः । कम्पेरिखोऽन्तो नलोपश्च । कपिअलः गौरतित्तिरिः । कषीपोजोऽन्तो जश्च । कज्जलं मपी । इज्जल: वृक्षविशेषः । कमेरत ओच । कोमलं मृदु । भ्रमे म च । भृमलः वायुः कृमिजातिव । भृमलं चक्रम् । हिंसेराधन्तविपर्ययध । सिहलाः जनपदः । कणेहों दीर्घश्च । काहल. अव्यक्तवान् । काइला वाद्यविशेषः । शकेरूचास्य । शूफलः अवाधमः । पचेः पाक् च । पाकला हस्तिज्वरः । युजेर कित् ग च । युगलं युग्मम् । भातेर्गोऽन्तो हस्वश्च । भगलः मुनिः । विन्देर्नलोषश्च । विदल वेणुदलम् । कनेरत उत् तोऽन्तश्च । कुन्तलाः जनपदः केशाय । उत्पूर्वोत् पिवतेईसश्च । उत्पलं पमम् । आदिग्रहणात् सुवर्चलामुद्गलपुद्गलादयो भवन्ति ॥ ४७४ ॥ ऋकृमृवृतनितमिचषिचपिकपिकीलिपलिवलिपश्चिमगिगण्डिम-११ ण्डिचण्डितण्डिपिण्डिनन्दिनदिशकिभ्य आलः ॥ ४७५ ॥ एभ्य आलः प्रत्ययो भवति । अंक गतौ । अराल वक्रम् । डु इंग् करणे । करालम् उच्चम् । मृत् प्राणत्यागे । मरालः ईसः महाश्च । वृग्ट वरण । वरालः वदान्यः । तनूयी विस्तारे । तनालं जलाशयः । तमूच काक्षायाम् । तमाल: वृक्षः व्यालश्च । चपी भक्षणे । चपालं यूपशिरसि द्रव्यम् । चप सान्त्वने । चपाल यज्ञद्रव्यम् । कपिः सौत्रः । कपालं घटायवयवः शिरोऽस्थि च । कील बन्धे । कोलालं मधं जलममृक् च । पल गतौ । पलालम् अकणा बीयादिः । बल प्राणनधान्यावरोधयोः । वलालः वायुः । पचुङ व्यक्तीकरणे । पश्चालः ऋषिः राजा च । पश्चाला जनपदः । मगु गतौ । मङ्गालः देशः । गडु बदनैकदेशे । गण्डालः मत्तहस्ती । मदु भूषायाम् । मण्डालः ऋषिः राजा च । चडुङ् कोपे । चण्डालः श्वपचः । अकृतज्ञमकार्यनं दीघरोपमनार्जवम् ।। चतुरो विद्धि चडालान् जन्मना चेति पश्चमम् ॥ १॥ तदुङ आघाते । तण्डालः क्षुपः । पिडुङ संघाते । पिण्डालः कन्दजातिः। टुनदु समृद्धी । नन्दालः राजा । णद अव्यक्त पाब्दे । नदालः नादवान् । शफलंद शकौ । शकाला. जनपदः मूर्खधनीच ॥ ४७२ ॥ कूलिपिलिविशिषिडिमृडि
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy