________________
भक्षणे च । चारित्रं वृत्तं स्थित्यभेदश्च ॥४६०॥ तनितृलापात्रादिभ्य उत्रः ॥४६१॥ एभ्य उत्रः प्रत्ययो भवति । तनूयी विरतारे । तनुत्रं कवचम् । तृ प्लवनतरणयोः । तस्त्रं प्लवः घासहारी च । लांक आदाने । लोत्रम् अपहृतद्रव्यम् । पां पाने । पोत्रं हलसूकरयोर्मुखम् । पालने । त्रोत्रमभयक्रिया । आदिग्रहणात् वृणोतेः, वरुत्रम् अभिप्रेतमित्यादयः ॥ ४६१ ॥ शामाश्याशक्यम्ब्यमिभ्यां लः ॥ ४६२ ॥ एभ्यो लः प्रत्ययो भवति । शोंच तक्षणे। शाला सभा । मांक माने । माला सक् । श्यैङ् गतौ । श्यालः पत्नीभ्राता । शलंट शक्तौ । शक्ल: मनोज्ञदर्शनः मधरवाक शक्तश्च । अबुङ् शब्दे, अम गतौ । अम्लः अम्लश्च रसः॥ ४६२ ॥ शुकशीमूभ्यः कित् ॥ ४६३ ॥ एभ्यः कित् लः प्रत्ययो भवति । शुक गतौ । शुक्लः सितो वर्णः । शी स्वप्ने । शीलं स्वभावः व्रतं धर्मः समाधिश्च । मूङ् बन्धने। मूलम् वृक्षपादावयवः आदिः हेतुश्च ॥४६॥ भिल्लाच्छभल्लसौविदल्लादयः॥४६४॥ भिल्लादय शब्दाः किल्लप्रत्ययान्ता निपात्यन्ते । भिदेलश्च । भिल्लः अन्त्यजातिः । अच्छपूर्वात् भलेः । अच्छभल्लः ऋक्षः । सुपूर्वाद्विदेरलोऽन्तः सोश्च वृद्धिः । सोविदलः कञ्चुकी। आदिग्रहणादल्लपल्लीरलादयोऽपि भवन्ति ॥४६४॥ मृदिकन्दिकुण्डिमण्डिमडिपटिपादिशकिकेवृदेवृकमियामिशलिकलिपालगुध्वश्चिचञ्चिचपिवहिदिहिकुहितृमृपिशितुसिकुस्यनिद्रमेरलः ॥ ४६५॥ एभ्योऽला प्रत्ययो भवति । मृद्श् क्षोदे । मर्दलः मुरजः । कदु रोदनाहानयोः । कन्दल. प्ररोहः । कुडुङ् दाहे । कुण्डलं कर्णाभरणम् । मदु भूषायाम् । मण्डलं देशः परिवारश्च । मगु गतौ । मङ्गलं शुभम् । पट गतौ । पटलं छदिः समूहः आवपनं नेत्ररोगश्च । ण्यन्तात्, पाटलः वर्णः । शक्लंद शक्तौ । शकलं भित्तमसारं च । केटङ् सेचने । केवलं परिपूर्ण ज्ञानम् असहायं च। देवङ् देवने। देवलः ऋपिः देवत्रातः क्रीडनचा कमू कान्तौ। कमलं पद्यम् । णिङि कामलो नेत्ररोगः। य{ उपरमे। यमलं युग्मम् । शल गतौ । शललं शेधागरुदशङ्खः । कलि शब्दसंख्यानयोः । कललं गर्भप्रथमावस्था । पल गतौ । पललम् भृष्टतिलातसीचूर्णम् । गुंड शब्दे । गवलः महिषः । धृगश् कम्पने । धवलः श्वेतः । अञ्चू गतौ च । अञ्चलः वस्त्रान्तः । चञ्चू गतौ । चञ्चलः अस्थिरः । चप सान्त्वने । चपलः स एव । वहीं पापणे । वहलं सान्द्रम् । दिहीक लेप। देहली द्वाराधःपट्टः। कुहणि विस्मापने। कोहलः भरतपुत्रः। वाहुलकाद्गुणः। तृप्लवनतरणयो।तरलः अधीरः हारमध्यमणिश्च, संगती, सरलः अकुटिलः वृक्षविशेषश्च। पिशव अवयवे। पेशलः मनोज्ञः। तुस शब्दे। तोसला जनपदः। कुसच् श्लेपे । कोसलाः जनपदः । अनक माणने। अनलः आमिः। द्रम गतौ । द्रमलं जलम् ॥४६५॥ नहिल र्दीर्घश्च ॥ ४६६ ॥ आभ्यामलः प्रत्ययोऽनयोश्च दीपों भवति । णहीच वन्धने । नाहला म्लेच्छः । लगु गतौ । लागलं हलम् ॥४६६॥ ऋजनेोऽन्तश्च ॥ ४६७ ॥ आभ्यामल. प्रत्ययो गकारथान्तो भवति । ऋक् गतौ । अर्गला परिघः । जनैचि प्रादुर्भावे । जङ्गलं निर्जलो देशः ॥ ४६७ ॥ तृपिवपिकुपिकुशिकुटिवृषिमुसिभ्यः कित् ॥ ४६८ ॥ एभ्यः किदलः प्रत्ययो भवति । तृपौच प्रीतौ । तृपला लता । तृपलं शुष्कपर्णम् शुष्कतृणं च। हुवी वजिसंताने। उपल: पापाणः । कुपच कोपे। कुपला मवालः । कुशच् श्लेपणे । कुशलः मेघावी । कुशलम् आरोग्यम् । कुटत् कौटिल्ये । कुटलः ऋषिः । वृष सेचने । वृपला दासजातिः।