________________
श्री हेमश०
॥ ४३ ॥
पं० उ०
गोत्रा पृथ्वी । गोत्रम् अन्ववायः । वक् प्रजनादौ । वेत्रं वीरुद्विशेषः । डुपचं पाके । पक्त्रं पिठरं गार्हपत्यं च । वचं भाषणे । वक्त्रम् आस्यम् छन्दोजातिश्र । शृ स्थाने । धः धर्मः वृक्षः रविव । घर्त्र नभः गृहसूत्रम् च । धर्त्रा द्यौः । यमूं उपरमे । यत्रं शरीरसंधानम् अरघट्टादि च । अम् गतौ । अत्रं पुरीतत् । मनिंच् ज्ञाने । मत्रः छन्दः । तनूयी विस्तारे । तत्रं प्रसारितास्तन्तवः शाखं समूहः कुटुम्बं च । पदलं. विशरणादौ । सत्रं यशः सदः दानं छम यागविशेषव । छदण् संचरणे । छादयतीति छात्रः शिक्षकः । क्षित् निवासगत्योः । क्षेत्रं कर्पण भूमिः भार्या शरीरमाकाशं च । क्षद संवरणे सौत्रः । क्षत्रं राजवीजम् । लुप्लुती छेदने । लोप्त्रम् अपहृतं द्रव्यम् । पत्लृ गतौ । पञ्च पर्णे यानं च। धूग्य कम्पने । धोत्रं रज्जुः ॥ ४५१ ॥ श्वितेर्वश्च मो वा ॥ ४५२ ॥ श्विता वर्ण इत्यस्माचः प्रत्ययो वकारस्य च मकारो वा भवात । इमे वेत्रं च रोगौ ॥ ४५२ ॥ गमेरा च ॥ ४५३ ॥ गम्लं गतावित्यस्मात्रः प्रत्यय आकारश्रान्तादेशो भवति । गात्रं शरीरम् । गागा खद्दावयवः ॥ ४५३ ॥ चिमिदिशंसिभ्यः कित् ॥ ४५४ ॥ एभ्यः त्रिः प्रत्ययो भवति । चिंगद चयने । चित्रम् आर्यम् आलेख्यं वर्णश्च ॥ जिमिदांच् स्नेहने | मित्रं सुहृत् । अमित्रः शत्रुः । मित्रः सूर्यः शंस्तुतौ च । शस्त्रं स्तोत्रमायुधं च ॥ ४५४ ॥ पुत्रादयः ॥ ४५५ ॥ पुत्र इसादयः शब्दास्त्रप्रत्ययान्ता निपात्यन्ते । पुनाति परते व पितृपूतिमिति पुत्रः सुतः । यदाहुः 'पूतीति नरकस्याख्या दुःखं च नरकं विदुः । पुन्नाम्नो नरकात् त्रायत इति व्युत्पत्तिस्तु संज्ञाशब्दानामनेकधा व्याख्यानं लक्षयति । आदिग्रहणादन्येऽपि || ४५५ || वृग्नक्षिपचिवच्यमिनमिवभिवपिवधियजिपतिकडिभ्योऽत्रः ||४५६ || एभ्योऽञः प्रत्ययो भवति। वृगूद् वरणे। वस्त्रा चर्मरज्जुः। णक्ष गतौ । नक्षत्रम् अश्विन्यादि । डु पचप् पाके । पचत्रं रन्धनस्थाली । वचक् भाषणे । वचत्रं वचनम् । अम गतौ अम भाजनम् । णमं प्रत्ये । नमत्रं कर्मारोपकरणम् । दुवमू उद्भिरणे । बमत्रं प्रक्षेपः । डु वषी वीजसंताने । वपत्रं क्षेत्रम् । वधि बन्धने । वधत्रम् आयुधः वज्रं वि शूरथ । यजी देवपूजादौ । यजत्रः यज्वा । यजत्रमग्निहोत्रम् । पत्लु गतौ । पतनं व वाहनं व्योम च । कडत् मदे कड दाराः । लवे, कलत्रं दारा जघनं च ॥ ४५६ ॥ सोविंदः कित् ॥ ४५७ ॥ सुपूर्वाद् विदः किदत्रः प्रत्ययो भवति । सुष्ठु बेचि विन्दति विद्यते वा सुविदत्रं कुटुम्बं धनं मङ्गलं च ॥ ४५७ ॥ कृतेः कृन्त् च ॥ ४५८ ॥ कृतैच् छेदने इत्यस्मादत्रः प्रत्ययो भवति अस्य च कुन्तादेशः । कृन्तत्रः मशकः । कृन्तत्रं छेदनं लाइलाग्रं च ॥ ४५८ ॥ बन्धिवहिकटयश्यादिभ्य इत्रः ॥ ४५९ ॥ एभ्य इत्रः प्रत्ययो भवति । बन्धंशू बन्धने । वन्धित्रं मन्थः । वहीं प्रापणे । वहित्रं वाहनं वहनं च । कटे वर्षावरणयोः । कटित्रं लेख्यचर्म । अशौटि व्याप्तौ अशा भोजने वा । अशित्रं रश्मिः हविः अग्निः अन्नपानं च । आदिग्रहणात् लुनातेः, लवित्रम् कर्मद्रव्यम् । पुनातेः पवित्रं मङ्गल्यम् । भटतेः, भत्रिशुले पकमासम् । कडतेः, कडित्रं कटित्रमेन । अमतेः, अमित्रः रिपुः इत्यादि ॥ ४५९ ॥ भूगृवदिचरिभ्यो णित् ॥ ४६० ॥ एभ्यो णिदित्रः प्रत्ययो भवति । भू सत्तायाम् । भावित्रं त्रैलोक्यं निधानं भद्रं च । गृत निगरणे । गारित्रं नमः अन्नपानम् आश्चर्ये च । वद व्यक्ताया वाचि । वादित्रम् आतोद्यम् । चर
11