SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ m निपरी प्रपा रात्रिः प्रमदा इन्द्राणी च ॥ ४४१ ॥ अश्नोतेरीचादेः ॥ ४४२ ॥ अशौटि व्याप्ताचित्यस्माद्वरद् प्रत्यय ईकारश्चादेर्भवति। ईश्वरः विभुः। ईश्वरी स्त्री ॥ ४४२ ॥ नीमीकुतुचेर्दीर्घश्च ॥ ४४३॥ एभ्यो वरट् प्रत्ययो दीर्घश्चैषां भवति । णींम् प्रापणे । नीवरः पुरुषकारः । मींग्श् हिंसायाम् । मीवरः हिंस्रः समुद्रश्च । कुंङ् शब्दे । कूवरः रथावयवः । तुं वृत्त्यादिषु । तूबरः मन्दश्मश्रुः अजननीकश्च । चिंग्ट् चयने । चीवरं मुनिजनवासः निःसारं कन्या च ॥ ४४३ ॥ तीवरधीवरपीवरछित्त्वरछत्वरगहरोपहरसंयबरोदुम्बरादयः॥४४४ाएते वरद् प्रत्ययान्ता निपात्यन्ते। तिम्यतेस्ती च, तीवतेजिरे तीवरं जलं व्यञ्जनं च। ध्यायतेधीच। धीवरः कैवर्तः। प्यायः प्यैडो वा पीच पीवतेोऽरस पीवरः मांसल। छिनत्तेस्तः किच्च। छित्त्वरः शठः जर्जरः पिटकचा छादेर्णिलुकि इस्वचा छत्वरः निर्भत्सकः निकुञ्जश्च । छत्वरं कुड्यहीनं गृहम् शयनमच्छदः छदिश्च । गुहेरचोतः । गहरं गहनं महाविलं भयानकं प्रत्यन्तदेशश्च । उपपूर्वात् हो वादेर्लुक् च । उपहरं संधिः Ri समापं रहास्थानं च । सम्पूर्वाद्यमेर्दश्च । सयदरः रणः संयमी नृपश्च । उन्देः किदुम्चान्तः । उदुम्बरः वृक्षनिशेषः। आदिग्रहणात् उम्बरशम्बरादयो भवन्ति ॥४४४॥ कडेरेवराङ्गरौ ॥ ४४५॥ कडत मदे इत्यस्मात एवर अगर इति प्रत्ययौ भक्तः । कडेवरं मृतशरीरम् । लत्वे, कलेवरम् । कडगरः वनस्पतिः ॥ ४४५ ॥ बट् ॥ ४४६ ॥ सर्वधातुभ्यस्वद् प्रत्ययो भवति । छादयतीति छत्रम् छन्त्री वा धर्मवारणम् । पातीति पात्रमूर्गितगुणाधारः साध्वादिः । पात्री भाजनम् । सायतेः मात्रं स्नानम् । राजते इति राष्ट्र देशः। शिष्यतेऽनेन शास्त्रं ग्रन्थः। असूच क्षेपणे। अस्त्रं धनुः ॥४४६॥ जिसनस्जिगमिनमिनश्यसिहनिविषेवृद्धिश्च ॥४४७॥ एभ्यखद् प्रत्ययो वृद्धिश्चैषां भवति । जिं अभिभवे । जैत्रः जयनशीलः । जैत्रं द्यूतम् । टु डु मँगक् पोपणे च । भात्र पोपः यश्च भृति गृहीत्वा वहति । सं गतौ । | सात्र आलयः । भ्रस्जीत पाके । भ्राष्टम् अम्बरीषम् । गम्लं गतौ । गात्रं मनः शरीरं लोकश्च । णमं प्रहत्वे । नानं शिरः शाखा वैचित्र्यं च । नशौच अदर्शने । नशोधुटीति नोऽन्तः । नाष्टाः यातुधानाः । अश्नोतेरश्नातेर्वा, आष्टम् आकाशः रश्मिश्च । हनं हिंसागत्यो । हावं रक्षः युद्धं वधश्च । विप्लंकी व्याप्तौ । वैष्टः विष्णुः वायुश्च । वेष्ट्र यकृत त्रिदिव वेश्म च ॥ ४४७ ॥ दिवेयौ च ॥ ४४८ ॥ दीव्यतेस्खद् प्रत्यया द्यौ चास्यादेशो भवति । द्योत्रं त्रिदिवं ज्योति. विमानं प्रमाणं प्रतोदश्च ॥ ४४८ ॥ सूमूखन्युषिभ्यः कित् ॥ ४४९ ॥ एभ्यः कित् बट् प्रत्ययो भवति । पूत् पेरणे । सूत्रं तन्तुः शास्त्रं च । मूङ् बन्धने । मूत्र प्रस्तावः । खनूग अवदारणे । खात्रं कूर्दाला तडा ग्रामाधानमृत चौरकृतं च छिद्रम् । उपू दाहे । उष्टः क्रमेलकः ॥ ४४९ ॥ स्त्री ॥ ४५० ॥ स्यतेः सुतेः स्त्यायतेस्तृणातेर्वा प्रद स्यात् डिच्च । स्त्री योपित् ॥ ४५०॥ हुयामाश्रुवसिमसिगुवीपचिवचिधृयम्यमिमनितनिसदिछादिक्षिक्षदिलुपिपतिधृभ्यस्त्रः ॥ ४५१ ॥ एभ्यन्त्रः प्रत्ययो भवति । ईक् दानादनयोः । होत्रं हवनं, होत्रा ऋचः । यांक प्रापणे । यात्रा प्रस्थानं यापनम् उत्सवश्च । मांक माने । मात्रा प्रमाणं कालविशेषः स्तोकः गणना च । श्रृंट् श्रवणे । श्रोत्रं कर्णः । वसिक आच्छादने । वस्त्रं वासः । भसि जुहोत्यादौ स्मरन्ति । भस्खा चर्ममयमावपनम् उदरं च । गुंङ शब्दे । गोत्रः पर्वतः ।
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy