________________
भीमशः
॥ ४२ ॥
कठोरः अमृदुः चिरंतनश्च । चकि तृप्तौ च । चकोरः पक्षिविशेषः पर्वतविशेषश्च । पहि मर्पणे । सहोरः विष्णुः पर्वतश्च ॥ ४३३ ॥ कोरचोरमोरकिशोरघोरहोरादोरादयः ॥ ४३४ ॥ कोर इत्यादयः शब्दा ओरप्रत्ययान्ता निपात्यन्ते । कायतेश्वरतेम्रियतेश्च डि । कोरः बालपुष्पम् । चोरः तस्करः । मोरः मयूरः । कृशेरिचोपान्त्यस्य । किशोरः तरुणः बालाश्वश्च । इन्तेर्डित् घश्च । घोरं कष्टम् । हंग् हरणे । होरा निमित्तत्वादिनां चक्ररेखा । दु दांग दाने, दोंच् छेदने वा दोरः कटिसूत्रं तन्तुगुणश्च । आदिग्रहणादन्येऽपि ॥ ४३४ ॥ किशृवृभ्यः करः ॥ ४३५ ॥ एभ्यः करः प्रत्ययो भवति । किः सौत्रः । केकरः वक्रदृष्टिः । शृश् हिसायाम् । शर्करा मत्स्यण्डिकादिः कर्कशः क्षुद्रपाषाणावयवश्च । वृग्ट् वरणे । वर्करः छागशिशु ॥ ४३५ ॥ सुपुषिभ्यां कित् ॥ ४३६ || आभ्यां कि करः प्रत्ययो भवति । पूत् प्रेरणे । सूकरः वराहः । पुप् पुष्टौ । पुष्करं पद्मं सूर्यमुखं हस्तिहस्ताग्रम् आकाशं मुरजः तीर्थनाम च ॥ ४३६ ॥ अनिकाभ्यां तरः ॥ ४३७ || आभ्यां तरः प्रत्ययो भवति । अनक् प्राणने । अन्तरं वहिर्योगोपसंव्यानयोः छिद्रमध्यविरहविशेषेषु च । कैं शब्दे । कातरः भीरुः ॥ ४३७ ॥ इण्पूभ्यां कित् ॥ ४३८ ॥ आभ्यां कित् तरः प्रत्ययो भवति । ईणूक गतौ । इतरः निर्दिष्टप्रतियोगी । पुग्श् पवने । पूतर जलजन्तुः ॥ ४३८ ॥ मीज्यजिमामयशौवसिकिभ्यः सरः ॥ ४३९ ॥ एभ्यः सरः प्रत्ययो भवति । मीच हिंसायाम् । मेसरः वर्णविशेषः । जिं अभिभवे । जेसरः शूरः । अज क्षेपणे च । वेसरः अश्वतरः । वेस्टग् गतावित्यस्य वा जठरेत्यादिनिपातनादरे रूपम् । मां माने । मासरः आयामः । मदैच् हर्षे । मत्सरः क्रोधविशेषः । अशौटि व्याप्तौ । अक्षरं वर्णः मोक्षपदम् आकाशं च । अक्षेर्वा अरे रूपम् । वसं निवासे । वत्सरः संवत्सरः परिवृत्सरः अनुवत्सरः अनुसंवत्सरः विवत्सरः उद्वत्सरः वर्षाभिधानानि । इडा मानेन वसन्त्यत्र कालावयवा इति इड्संवत्सरः, इडया मानेन वसन्त्यत्रेति इडावत्सरः वर्षविशेषाभिधाने, परिवत्सरादीन्यपि वर्षविशेषाभिधानानीत्येके । कि इत्यदादौ स्मरन्ति । केसरः सिंहसटः पुष्पावयवः वकुलय । बाहुलकान्न पलम् ॥ ४३९ ॥ कृधूतदृषिभ्यः कित् ॥ ४४० ॥ एभ्यः कित् सरः प्रत्ययो भवति । डु कृंग् करणे । कृसरः कृसरा वा विलेपिकाविशेषः वर्णविशेपश्च । धूत् विधूनने । धूसरः भिन्नवर्णः वायुः धान्यविशेपथ । तनूयी विस्तारे । तसरः कौशेयसूत्रम् । ऋषैत् गतौ । ऋक्षरः कण्टकः ऋत्विक् च । ऋक्षरा तोयधारा ॥ १४०॥ कृगृमृदृट्टग्यतिखटिकटिनिपदिभ्यो वरद् ॥ ४४१ ॥ एभ्यष्टिद्वरः प्रसयो भवति । कृत् विक्षेपे । कर्वरः व्याघ्रः विष्किरः अञ्जलिथ । कर्वरी भूमिः शिवा च । गृत् निगरणे । गर्वरः अहंकारः महिपश्च । गर्वरी महिपी संध्या च । शृश् हिंसायाम् । शर्वर· सायाहः रुद्रः हिस्रश्च । शर्वरं तमः अन्नं च । शर्वरी रात्रिः । दृश् विदारणे । दवरं वज्रम् । दर्बरी सेवा । गट् वर | वर्वरः कामः चन्दनं केशविशेषः लुब्धकश्च । वर्वरी नदी भार्या च । चते याचने । चत्वरं चतुष्पथमरण्यं च । चत्वरी रथ्या देवता वैदिव । खट काने । खवरं रससंकीर्णशाकपाकः। कडे वर्षावरणयोः। कवरः व्यालाश्वः । कवरी दधिविकारः । पदंऌ विशरणादौ निपूर्वः । निषद्रः कर्दमः वहिः कर्मकरः कन्दर्पः इन्द्रश्च । निपरमासनम् ।