________________
VM-9
निर्वात प्रपूर्वात चिनोतेः चरते डिच्च । निचुरः तरुविशेषः । लत्वे, निचुलः। प्रचुरं प्रायः। चकेरिचास्य । चिकुरं युवतीनामीपनिमीलितमति । चिकुराः केशाः। कुकेः कोऽन्तो वा । कुकुरः यादवः । कुकुरः श्वा । किरः कुर् कोऽन्तश्च । कुकुरः श्वा । शृश् हिंसायाम् गुणः कोऽन्तश्च । शर्करस्तरुणः । यत् स्तवने पोऽन्तश्च । नूपुरः तुलाकोटिः । निपूर्वात् तिष्ठतेः निष्ठुरः कर्कशः । निष्ठुरं काहलम् । व्यथेथ् िच । व्यथतेऽस्माजनः इत्यपादानेऽपि । विथुरः राक्षसः । मदिवात्योर्गोऽन्तश्च । मद्गुरः मत्स्यविशेषः । वागुरा मृगानायः। आदिग्रहणान्मन्यतेर्धश्च । मधुरः रसविशेष इत्यादि ॥ ४२६ ॥ मीमसिपशिखटिखडिखर्जिकर्जिसर्जिकृपिवल्लिमण्डिभ्य ऊरः ॥४२७॥ एभ्य ऊरः प्रत्ययो भवति । मीड्च् हिंसायाम् । मयूरः शिखी । मह्या रौति मयूर इति पृषोदरादिषु संज्ञाशब्दानामनेकधा व्युत्पत्ति लक्षयति । मसैच् परिमाणे । मसूरः अवरधान्यजातिः चर्मासनं च । पशिः सौत्र । पश्यते गम्यते इति पशूरः ग्रामः । खट काहे । खदूरः मणिविशेषः । खडण् भेदे । खडूरः खुरलीस्थानम् । खर्ज माजने च । खजूरः वृक्षविशेषः । कर्ज व्यने । कर्जूरः स एव मलिनश्च । सर्ज अर्जने । सर्जूर अहः । कृपौड् सामर्थे । कर्पूरः गन्धद्रव्यम् । वल्लि संवरणे । वल्लूरः शुष्कं मांसम् । मडु भूपायाम् । मण्डूरः धातुविशेपः ॥ ४२७॥ महिकणिचण्यणिपल्यलितलिमलिशलिभ्यो णित् ॥ ४२८ ॥ एभ्यो णिदूरः प्रत्ययो भवति । मह पूजायाम् । माहूरः शैलः । कण गतौ । काणूरः नागः । चण हिसादानयोश्च । चाणूर मल्लो विष्णुहतः। अण शब्दे । आणूरः ग्रामः । पल गतौ । पालूर नाम नगरमान्ध्रराज्ये । अली भूषणादौ । आलूरः विटः । तलण प्रतिष्ठायाम् । तालूरः जलावर्तः । मलि धारणे । मालूर: दानवः बिल्वश्च । शल गतौ । शालूरः दुर्दुरः ॥४२८॥ स्थाविडेः कित् ॥४२९॥ आभ्यां किदुरः प्रत्ययो भवति । ट्रां गतिनिटत्तौ । स्थूरः बठरः उच्चश्च । स्थूरा जयाप्रदेशः। विड आकोशे । विडूरः वालवाये ग्रामः ॥ ४२९ ।। सिन्दूरकचूंरपत्तूरधुत्तूरादयः ।। ४३० ।। एते ऊरप्रत्ययान्ता निपात्यन्ते । स्यन्देः सिन्द् च । सिन्दुरं चीनपिष्टम् । करोतेश्शेऽन्तश्च । कर्चुरः औषधविशेषः । पतेस्तोऽन्तश्च । पत्तूरं गन्धद्रव्यम् । धुवो द्विरुक्तस्तोऽन्तो इस्वश्च । धुत्तर उन्मत्तकः । दधातेत्तूर इत्यन्ये । आदिग्रहणात् कस्तूरहारहूरादयो भवन्ति ॥ ४३० ॥ कुगुपतिकथिकुथिकठिकठिकुटिगडिगुडिमुदिसूलिदंशिभ्यः केरः॥ ४३१ ॥ एभ्यः किदेरः प्रत्ययो भवति । कुंङ् शब्दे । कुवेरः धनद । गुंत् पुरीपोत्सर्गे । गुबेरं युद्धम् । पत्ल गतौ । पतेरः पक्षी पवनश्च । कथण वाक्यप्रवन्धे । कथेरः कथकः कुहकः शकुन्तश्च । कुथच पूतिभावे । कुथेरः शिडाकीसंभारः । कठ कृच्छ्रजीवने । कठेरः दरिद्रः। कुठिः सौत्र कुठेरः निःसृतसारः अर्जकश्च । कुटत् कौटिल्ये। कुटेरः शम्मा गड सेचने । गडेर मेघः । प्रस्रवणशीलश्च । गुडत् रक्षायाम् । गुडेर राजा पण्यं च । वालभक्ष्यम् । मुदि हर्षे। मुदेरः मूर्खः। मूल प्रतिष्ठायाम् । मूलेरः वनस्पतिः। मूलेर पण्यम् । दशं दशने । दशेरः सर्पः सारमेयः जनपदश्च ॥ ४३१ ॥ शतेरादयः॥ ४३२॥ शतेर इत्यादयः शब्दाः केरमत्ययान्ता निपात्यन्ते । शलूं शातने तश्च । शतेरः वायुः तुषारश्च । आदिग्रहणात् गुधेरशृङ्गवेरनालिकेरादयो भवन्ति ॥ ४३२ ॥ कठिचाकसहिभ्य ओरः॥ ४३३ ॥ एभ्य ओरः प्रत्ययो भवति । कठ कृच्छ्जीवने ।