SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ मोहेमश० recodreereaerocreerea पृश पालनपूरणयोः। परीरं बलं लागलमुखं च । पूगुश पवने । पवीरं रणस्थानं फलं पवित्रं वीजावपनं च । मन्जिः सौत्रः। मञ्जीरं नूपुरः। कुटन कौटिल्ये। कुटीरम् । आलयः कर्कटकः चन्द्राश्रयराशिश्च । कोटीरं मुकुटः । वाहुलकाद्गुणः । कटे वर्षावरणयोः । कटीरं जनपद: जपनं जलं च । पट गतौ । पटीः कन्दर्पः । पटीरे कार्मुकम् स्फिक च । कड मदे । कण्डीरं हरितकम् । शौण्ड गर्ने । शौण्डीरः गर्वितः सत्त्ववान् तीक्ष्णश्च । हिसुए हिंसायाम् । हिसीर श्वापदः हिंस्रश्च ॥ ४१८ ॥ घसिवशिपुटिकुरिकलिकाभ्यः कित् ॥४१९॥ एभ्यः किदीरः प्रत्ययो भवति । घरेल अदने । क्षीरं दुग्धं मेघश्च । वशक् कान्तौ । उरीरं वीरणीमूलम् । पुटत संश्लेपणे । पुटीर: कूर्मः । कुरत् शब्दे । कुरीरं मैथुनं वेश्म च । कुरीरः मालाविशेष कम्बलश्च । कुल वन्धुसंस्थानयो । कुलीरः कर्कटः । के शब्दे । कीर शुकः काश्मीरकश्च ॥ ४१९॥ कशेोऽन्तश्च ॥ ४२० ॥ कश शब्दे इसस्मात्तालव्यान्तादीरः प्रत्ययो मश्चान्तो भवति। कश्मीरा जनपदः ॥४२०॥ वनिवपिभ्यां णित् ॥ ४२१॥ आभ्यां णिदीरः प्रत्ययो भवति । वन भक्तौ । वानीरः वेतसः। डुवपी वीजसताने । वापीरः मेघः अमोघः निष्पत्ति क्षेत्र च ॥ ४२१॥ जम्बीराभीरगभीरगम्भीरकुम्भीरभडीरभण्डीरडिण्डीरकिराियः ॥ ४२२ ॥ एते ईरप्रत्ययान्ता निपात्यन्ते । जनेोऽन्तश्च । जम्बीरः वृक्षविशेषः आप्तोतेर्भश्च । आभीरः शूद्रजातिः । गर्भः स्वरान्नस्तु वा । गभीरः अगाधः अचपलश्च । गम्भीर. स एव । स्कुम्भः सौत्रात् सलोषश्च । कुम्भीरः जलचरः । भडुङ् परिभाषणे । अस्य नलुक च वा । भडीरः भण्डीरश्च योद्धवचने । डीडो डित् द्वित्वं पूर्वस्य नोऽन्तश्च । डिण्डीरः फेनः । किरतेोऽन्तश्च । किर्मीर: कर्बुर । आदिग्रहणात् तूणीरनासीरमन्दीरकरवीरादयो भवन्ति ॥ ४२२ ॥ वाश्यसिवासिमसिमथ्युन्दिमन्दिचतिचड्क्यतिकाईचकिबन्धिभ्य उरः ॥ ४२३ ॥ एभ्य उरः प्रत्ययो भवति । वाशिच् शब्दे । वाशुरः शकुनिः गर्दभश्च । वाशुरा रात्रिः । अमूच क्षेपणे । असुरः दानवः । वासण उपसेवायाम् । वासुरा रात्रिः मसुरा च । मसैच परिमाणे । मसुरा पण्यत्री । मसुरं चर्मासनम् धान्यविशेषश्च । मथे पिलोडने। मथुरा नगरी। उन्दैप क्लेदने। उन्दुरः मुपिकः । मदुङ् स्तुत्यादौ । मन्दुरा वाजिशाला। चतेग् याचने। चतुरः विदग्धः ।चह्निः सौत्रः । चकति चेष्टते चतुरः रथः अनवस्थितश्च । अकुङ् लक्षणे । अङ्करः प्ररोहः तस्मतानभेदश्च । घञ्युपसर्गस्य बहुलमिति बहुलवचनात् दीर्घत्वे, अङ्करः । कर्व गतौ । कचुरः शवलः । चकि तृप्तिप्रतिघातयोः । चकुरः दशनः। वन्यश् बन्धने । बन्धुर मनोज्ञः नम्रश्च ॥ ४२३ ॥ मङ्के लुक् वोचास्य ॥ ४२४ ॥ मकुङ् मण्डन इसस्मादुरः प्रत्ययो नकारस्य लुक् अकारस्य चोकारो वा भवति । मुकुरः आदर्श मुकुलं च । मकुरः आदर्श कल्कः बालपुष्पं च ॥ ४२४ ॥ विधेः कित् ॥ ४२५ ॥ विधत् विधाने इत्यस्मात् किदुरः प्रत्ययो भवति । विधुरं वैशसम् ॥ ४२५ ॥ श्वशुरकुकुन्दुरदर्दुरनिचुरप्रचुरचिकुरकुकुरकुकुरकुर्कुरशर्कुरनूपुरनिष्ठुरविथुरमद्गुरवागुरादयः ॥ ४२६ ॥ एते किदुरमत्ययान्ता निपासन्ते । आशुपूर्वात् शुपूर्वाद्वा अश्नोतेरश्नातेवो आकारलोपश्च । श्वशुरः जम्पयोः पिता । कुर्वात् स्कुदुङ् आप्रवणे इत्यस्मात् सलुक् च । कुकुन्दरौ नितम्बकूपौ । दृणातेर्दोऽन्तश्च । द१रः मण्डूकः मेघश्च ।
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy