________________
१४१ चोकारो भवति । कुमारः महासेनः अभ्रष्टः बालश्च ॥ ४०९ ॥ कनेः कोविदकर्बुदकाञ्चनाश्च ॥ ४१० ॥ कनै दीप्तावित्यस्मादारः ४। प्रत्ययोऽस्य च कोविद कर्बुद काश्चन इत्यादेशा भवन्ति । कोविदारः कर्बुदारः काञ्चनारश्च वृक्षविशेषा' ॥ ४१० ॥ द्वारशृङ्गारभृ
ङ्गारकहारकान्तारकेदारखारडायः ॥ ४११ ॥ एते आरमत्ययान्ता निपात्यन्ते । उम्भत् पूरणे द्वादेशश्च । द्वारं द्वाः । श्रयतेस्तालव्यादिः शृङ्गश्च । शृङ्गारः रसविशेषः विदग्धता च । भृगो भृङ्ग च । भृङ्गारः हस्तिमुखाकारगलन्तिका । कलेहश्च स्वरात्परः । कहलारः उत्पलविशेषः । कमेस्तोऽन्तो दीर्घश्च । कान्तारमरण्यम् । कदेः सौत्रस्यात एच । केदारः वमः। खनेडिच । खारी चतुोणम् । खारडिति टकारो डन्यर्थः । आदिग्रहणात शिशुमारादयो भवन्ति ॥ ४११ ॥ मदिमन्दिचन्दिपदिखदिसहिवहिकृसभ्य इरः ॥ ४१२ ॥ एभ्य इरः प्रत्ययो भवति । मदैच् हर्षे । मदिरा सुरा । मदुङ् स्तुत्यादौ । मन्दिरं वेश्य नगरं च । चदु दीप्याडादनयोः । चन्दिर चन्द्रमाः हस्ती च । चन्दिरं चन्द्रिकावत् जलं च । पदिच् गतौ । पदिरः मार्गः। खद हिंसायाम् । खदिरः वृक्षविशेषः । पहि मर्षणे । सहिरः पर्वतः । वहीं प्रापणे । वहिरः वलीवर्दः । कुंक् शब्दे । कविरः अक्षिकोणः । सं गतौ । सरिरं जलम् । लत्वे, सलिलम् ।। ४१२ ॥ शवशशेरिचातः ॥४१३ ॥ आभ्यामिरः प्रत्ययोऽकारस्य चेकारो भवति । शव गतौ तालव्यादिः । शिविरम् सैन्यसांनवेशः । शश प्युतिगतौ । शिशिरं शीतलम् ऋतुश्च ॥ ४१३ ॥ अन्थेः शिथ् च ॥ ४१४ ॥ श्रथुङ् शैथिल्ये इत्यस्मादिरः प्रत्ययोऽस्य च शिथ् इत्यादेशो भवति । शिथिरं श्लथम् । लत्वे, शिथिलम् ॥४१४॥ अशेणित् ॥ ४१५॥ अश्नातेरश्नोतेर्वा णिदिरः प्रत्ययो भवति । आशिरः विष्णुः आदित्यश्च । माशिरः बहाशी ॥ ४१५॥ शुषीषिवन्धिरुधिरुचिमुचिमुहिमिहितिमिमुदिखिदिच्छिदिभिदिस्थाभ्यः कित् ॥ ४१६॥ एभ्यः किदिरः प्रत्ययो भवति । शुपंच शोषणे । शुपिरं छिद्रम् । इपत इच्छायाम् । इपिरं तृणम् । इपिरः अग्निः आहारः क्षिपः सेव्यश्च । वन्धंश् बन्धने । बधिरः श्रुतिविकलः । रुधुपी आवरणे । रुधिरं द्वितीयो धातुः । रुचि अभिप्रीत्यां च । रुचिरं दयितं दीप्तिमच । मुच्छंती मोक्षणे । मुचिरः धर्मः सूर्यः मेघश्च । मुहौच वैचित्त्ये । मुहिरः कन्दर्पः सूर्यश्च । मुहिरं तमः । मिहं सेचने । मिहिरः मेघः सूर्यश्च । मिहिरं तोयम् । तिमच आर्द्रभावे । तिमिरं तमः तोयं रोगश्च कश्चित् । मुदि हर्षे । मुदिरः मेघः सूर्यश्च । खिदंत परिघाते । खिदिरः त्रासः तस्करश्च । छिद्रंपी द्वैधीकरणे । छिदिरः उन्दुरः अग्निश्च । छिदिरं शास्त्रम् । भिद्रूपी विदारणे । भिदिरः अशनिः भेदश्च । ठां गतिनिवृत्तौ । स्थिरः अचलः ॥४१६॥ स्थविरपिठिरास्फिराजिरायः॥ ४१७॥ एते किदिरप्रत्ययान्ता निपात्यन्ते । तिष्ठतेवोऽन्तो इस्वश्च । स्थविरः वृद्धः । पचतेरत इत्वं ठश्च । पिठिरं साधनभाण्डम् । पिठेवा रूपम् । स्फायतेर्डिच्च । स्फिरः स्फारः वृद्धिश्च । अजे-भावाभावश्च । अजिरम् अङ्गणम् नगरं देवः वेश्म च । आदिग्रहणादन्येऽपि ॥ ४१७॥ कुशपपूगमञिकुटिकटिपटिकण्डिशौण्डिहिंसिभ्य ईरः ॥ ४१८ ॥ एभ्य ईरः प्रत्ययो भवति । कृत् विक्षेपे । करीरः वनस्पतिविशेषः वंशायङ्कुरथ । शृश् हिंसायाम् । शरीरं वपुः ।