________________
37373237
डुकं करणे । करम्बः दध्योदनः दधिसक्तवः पुष्पं च । कडत् मदे । कडम्बः जातिविशेषः जनपदविशेषश्च । कटे वर्षावरणयोः । कटम्वः पकान्नविशेषः वादित्रं च । कडम्बकटम्बौ वृक्षौ च । वट वेष्टने । वटम्बः शैलः तृणपुत्रश्च ॥ ३२९॥ कदेर्णिद्वा ॥ ३२२|| कद वैकृव्ये इत्यस्मात् सौत्रादम्बः प्रत्ययः स च णिद्वा भवति । कादम्बः हंसः । कदम्बः वृक्षजातिः || ३२२ || शिलविलादेः कित् ॥ ३२३ ॥ शिलादिभ्यः किदम्वः मत्ययो भवति । शिलत् उच्छे । शिलम्बः ऋषिः तन्तुवायच । विलत्वरणे । विलम्बः वेषविशेषः रङ्गावसरश्च । आदिग्रहणादन्येऽपि ॥ ३२३ ॥ हिण्डिविले: किम्बो नलुक् च ॥ ३२४ ॥ आभ्यां किदिम्वः प्रत्ययो नस्य च लुगू भवति । हिडुङ गतौ च विलत् वरणे । हिडिम्बः विलिम्वश्व राक्षसौ ॥ ३२४ ॥ डीनीबन्धिशुधिचलिभ्यो डिम्बः ॥ ३२५ ॥ एभ्यो डिदिम्य: प्रत्ययो भवति । डीङ् विहायसा गतौ । डिम्बः राजोपद्रवः । णीग् प्रापणे । निम्वः वृक्षविशेषः । वन्धंश् बन्धने । विम्बं प्रतिच्छन्दः देहव । विम्बी वल्लिजातिः । शृधू शब्दकुत्सायाम् । शिम्बः मृगजातिः । शिम्बी निष्पाववल्ली च । चल कम्पूने | चिम्बा यवागूजातिः ॥ ३२५॥ कुयुन्दिचुरितुरिपुरिमुरिकुरिभ्यः कुम्बः ॥३२६॥ | एभ्यः किम् प्रत्ययो भवति । कुटत् कौटल्ये । कुटुम्बं दारादयः । उन्दै क्लेदने । उदुम्बः समुद्रः । चुरण स्तेये । तुरण त्वरणे सौत्रः । चुरुम्बः तुरुम्बश्च गहनम् । पुरत् अग्रगमने । पुरुम्बः आहारः । मुरत् संवेष्टने । मुरुम्बः मृद्यमानपाषाणचूर्णम् । कुरत् शब्दे । कुरुम्बः अङ्कुरः। निपूर्वात् निकुरुम्बः राशिः ॥ २२६ ॥ गृदृरमि| हनिजन्यर्तिदलिभ्यो भः ॥ ३२७ ॥ एभ्यो भः प्रत्ययो भवति । गृत् निगरणे । गर्भः जठरस्थः माणी । दृश् विदारणे । दर्भः कुशः । रमिं क्रीडायाम् । रम्भा अप्सराः कदली च । हनक हिसागत्योः । दम्भा गोधेनुनादः । जनैचि प्रादुर्भावे | जम्भः दानवः दन्तश्च । जम्भा मुखविदारणम् । ऋक् गतौ । अर्भः शिशुः । दल विदारणे । दल्भः ऋषिः वल्कलं विदारणं च ॥ ३२७ ॥ इणः कित् ॥ ३२८ ॥ इण्क् गतावित्यस्मात् किद्भः प्रत्ययो भवति । इभः हस्ती ॥ ३२८ ॥ | कॄगृगृशलिकलिकडिगर्दिंरासिरमिवडिवल्लेरभः ॥ ३२९ ॥ एभ्योऽभः प्रत्ययो भवति । कृत् विक्षेपे । करभः त्रिवर्ष उष्ट्रः । शृग् हिसायाम् । शरभः श्वापदविशेषः । गृत् निगरणे । गरभः उदरस्थो जन्तुः । पलफलशल गतौ । शलभः पतङ्गः । कलि शब्दसंख्यानयोः । कलभः हस्ती यौवनाभिमुखः । कडत् मदे । कभः हस्तिपोतकः ॥ गर्द शब्दे । गर्दभः खरः । राम्रङ् शब्दे । रासभः स एव । रमिं क्रीडायाम् । रमभः महर्ष । वडः सौत्रः । वडभी वेश्माग्रभूमिका । ऋफिडादित्वाल्लत्वे वलभी । वल्लि संवरणे । वल्लभः स्वामी दयितश्च ॥ ३२९ ॥ सनेर्डित् ॥ ३३० ॥ पण भक्तावित्यस्मात् डिदभः प्रत्ययो भवति । सभा परिषत् शाला च ॥ ३३० ॥ ऋषिवृषिलुसिभ्यः कित् ॥ ३३९ ॥ एभ्यः किदम प्रत्ययो भवति । ऋषैत् गतौ । दृषू सेचने । ऋषभः वृपभश्च पुङ्गवः भगवांश्चादितीर्थकरः । ऋषभः वायुः । लुसिः सौत्रः । सभः हिंसः मत्तहस्ती वनं च ॥ ३३९ ॥ सिटिकिभ्यामिभः सैरविट्टौ च ॥ ३३२ ॥ अभ्यामिभः प्रत्ययो दन्त्यादिः सैर विश्वादेशौ यथासंख्यं भवतः । षिद् बन्धने । सैरिभः महिषः । टिकि गतौ । ठिहिभः पक्षी ॥ ३३२ ॥