________________
भीडमन ॥ ३५॥
प्रत्ययो भवति । भुजप् पालनाभ्यवहारयोः । भुजपः राजा यजमानपालनादग्निश्च । कुतिः सौत्रः । कुतपः छागलोम्नां कम्बलः आस्तरणं श्राद्धकालश्च । कुटत् ११ कौटिल्ये । कुटपः प्रस्थचतुर्भागः नीड च शकुनीनाम् । विद् शब्दे । विटपः शाखा । कुणत् शब्दोषकरणयोः । कुणपः मृतकं कुपितं शब्दार्थसारूप्यं च । कुपश् । निफ। कुपपः विन्यः संदंशश्च । उपू दाहे । उपपः दाहः सूर्यः वन्हिश्च ॥ ३०५॥ शंसे श इचातः ॥ ३०६ ॥ शंम् स्तुतौ चेत्यस्मादपः प्रसयस्तालव्यः शकारोऽन्तादेशोऽकारस्य चेकारो भवति । शिशपाः वृक्षविशेषः ॥ ३०६॥ विष्टपोलपवातपादयः ॥ ३०७ ॥ विष्टपादयः शब्दा किदपप्रत्ययान्ता निपात्यन्ते । विपेस्तोऽन्तश्च । विष्टपं जगत् सुकृतिनां स्थानं च । बलेरुल् च । उलपं पर्वतणम् पङ्कजं जलं च । उलपः ऋषिः । वातेस्तोऽन्तश्च । वातपः ऋपिः । आदिग्रहणात् खरपादयो भवन्ति ॥ ३०७ ॥ कलेरापः ॥३०८ ॥ कलि शब्दसंख्यानयोरित्यस्मादापः प्रत्ययो भवति । कलापः काञ्ची समूहः शिखण्डश्च ॥३०८ ॥ विशेरिपक् ॥ ३०९ ॥ विशंत् भवेशने इत्यस्मादिपक् प्रत्ययो भवति । विशिप राशिः। विशिषं तृणं वेश्म आसनं पद्मं च ॥३०९॥ दलेरीपो दिल् च ॥ ३१०॥ दल विशरणे इत्यस्मादीपः प्रत्ययो भवति दिल् चास्यादेशो भवति । दिलीपः राजा ॥ ३१० ॥ उडेरुपक् ॥ ३११ ॥ उड् संघाते इत्यस्मात् सौत्रादुपक् प्रत्ययो भवति । उडुपः प्लवः । जपादित्वात् बत्वे । उडुवः ॥ ३११ ॥ अश ऊपः पश्च ॥ ३१२ ॥ अशौटि व्याप्तावित्यस्मादपः प्रययः पश्चान्तादेशो भवति । अपूपः पकानविशेपः ॥ ३१२ ॥ सतैः षप ॥ ३१३ ॥ सं गतावित्यस्मात् पपः प्रत्ययो भवति । सर्पपः रक्षाघ्नं द्रव्यम् शाक च ॥३१३॥ रीशीभ्यां फः ॥३१४॥ आभ्यां फः प्रत्ययो भवति । रीच् श्रवणे । रेफः कुत्सितः । शीफू स्वप्ने । शेफः मेः ॥३१॥ कलिगलेरस्योच॥३१५॥ आभ्यां फाप्रत्ययोऽस्य चोकारो भवति । कलि शब्दसंख्यानयोः, गल अदने । कुल्फः गुल्फः जाङ्घिसंधिः। गुल्फः पदोपरिग्रन्थिः ॥३१५॥ गफकफशिफाशोफादयः ॥३१६॥ शफादयः शब्दाः फप्रत्ययान्ता निपात्यन्ते । श्यतेः कायतेश्च इस्वश्च । शफः खुरः प्रियंवदश्च कफः श्लेष्मा । श्यतेरित्वमो-४ त्वं च । शिफा वृक्षजटा । शोफः श्वयथुः खुरश्च । आदिशब्दात रिफानफामुनफादयो भवन्ति ॥३१६॥ वलिनितनिभ्यां वः ॥३१७॥ वलि संवरणे निपूर्वोच्च तनूयी विस्तारे इत्यस्माच वः प्रत्ययो भवति । वल्वः वृक्षः । नितम्बः श्रोणिः पर्वतैकदेशः नटश्च ॥३१७॥ शम्यमेणिद्वा ॥३१८॥ आभ्यां वः प्रत्ययः स च णिद्वा भवति । शमूच् उपशमे । शम्वः वज्रः कर्षणविशेषः वेणुदण्डः तोत्रम् अस्त्रिं च । शम्बशाम्बौ जाम्बवतेयौ । अम्बा माता । आम्बः अपह्नवः ॥३१८॥ शल्यलेरुचातः॥३१९॥ आभ्यां वः प्रत्ययोऽकारस्य चोकारो भवति । पलफलशल गतौ । शुल्वं ताम्रम् । अली भूषणादौ । उल्वं रजतम् गर्भवेष्टनम् । शुल्वं बम्भ्रुः तरक्षुश्च ॥ ३१९ ॥ तुम्बस्तम्बादयः ॥ ३२० ॥ तुम्बादयः शब्दा वमत्ययान्ता निपात्यन्ते । ताम्यतेरत उत्त्वं च । तुम्बम् अलाबु चक्राङ्गं च । स्तम्भेलक् च । स्तम्बः तृणं विटपः संघातः अङ्कुरसमुदायः स्तवकः पुष्पापीडश्च । आदिग्रहणात् कुशाम्पादयो भवन्ति ॥ ३२० ॥ कृकडिकटिवटेरम्ब ॥ ३२१ ॥ एभ्योऽम्बः प्रत्ययो भवति ।