________________
श्रीमश
वृधद वृद्धौ । बुधसानः गर्भः । वर्धसानः गिरिः मृत्युः गर्भः पुरुपश्च ॥ २८१ ॥ श्याकठिखलिनल्यविकुण्डिभ्य इनः ॥ २८२ ॥ एभ्य इनः पं० प्रत्ययो भवति । श्यैा गतौ । श्येनः पक्षी अभिचारयज्ञश्च । कठ कृच्छ्रजीवने । कठिनममृदु । खल संचये च । खलिनम् अवमुखसंयमनम् । णल गन्ये । नलिनं पमम् । अव रक्षणादौ । अविनं जलं मृगः नाशः अग्निः राजा अध्वर्युः विधानं गुप्तिश्च ॥ कुडुङ्दाहे । कुण्डिनः ऋषिः । कुण्डिन नगरम् ॥ २८२ ॥ वृजितुहिपुलिपुटिभ्यः कित् ॥ २८३ ॥ एभ्यः किदिनः प्रत्ययो भवति । वृजकि वर्जने । वृजिनं पापं कुटिल च । तुहु अदने । तुहिनम् हिसमन्धकारश्च । पुल महत्वे । पुटत संश्लेपणे । पुलिनं पुटिनं च नदीतीरं वालुकासंघातश्च ॥ २८३ ॥ विपिनाजिनादयः ॥ २८४ ॥ विपिनादयः शब्दाः किदिनप्रत्ययान्ता निपात्यन्ते । टु वी बीजसंताने दुवेपृङ् चलने इत्यस्य वा इच्चोपान्त्यस्य । विपिनं गहनम् अब्ज जलदुर्ग च । अज क्षेपणे च । अस्य बीभावाभावश्च अजिनं चर्म । आदिग्रहणादन्येऽपि ॥ २८४ ॥ महेर्णिदा ॥ २८५ ॥ मह पूजायामित्यस्मादिनः प्रत्ययः स च किद्वा भवति । माहिनं राज्यं बल च । महिनं राज्यं शयनं च । महिनः माहात्म्यवान् ॥ २८५ ॥ खलिहिंसिभ्यामीनः ॥२८६॥ आभ्यामीनः प्रत्ययो भवति । खल संचये च । खलीनं कवियम् । हिसुप् हिंसायाम् ।। हिंसीनः श्वापदः ॥ २८६ ॥ पठेर्णित् ॥ २८७ ॥ पठ व्यक्तायां वाचीत्यस्मात् णिदीनः प्रत्ययो भवति । पाठीनः मत्स्यः ॥२८७॥ यम्यजिशक्यर्जिशीयजितृभ्य उनः ॥ २८८ ॥ एभ्य उनः प्रत्ययो भवति । यमूं उपरमे । यमुना नदी । अज क्षेपणे च । वयुनं विज्ञानम् अङ्गं च । वयुनः विद्वान् चन्द्रः यज्ञश्च । शक्लंट शक्तौ । शकुनः पक्षी । अर्ज अर्जने । अर्जुनः ककुभः वृक्षविशेषः पार्थः श्वेतवर्णः श्वेताश्वः कार्तवीर्यश्च । अर्जुनी गौः । अर्जुनं तृणं श्वेतमुवर्ण च ॥ शी स्वप्ने । शयुनः अजगरः । यजी देवपूजादौ । यजुना क्रतुद्रव्यम् । तृ प्लवनतरणयोः । तरुणः समर्थः युवा वायुश्च । ऋफिडादित्वाल्लत्वे, तलुनः ॥ २८८ ॥ लपेः श च ॥ २८९ ॥ लपी कान्तावित्यस्मादुनः प्रत्ययः तालव्यः शकारश्चान्तादेशो भवति । लशुनं कन्दजातिः ॥२८९॥ पिशिमिथिक्षुधिभ्यः कित् ॥२९०॥ एभ्यः किदुनः प्रययो भवति । पिशव अवयवे । पिशुनः खलः । पिशुन मैत्रीभेदकं वचनम् । मिश्रृङ् मेघाहिंसयोः । मिथुनं सीपुसद्वन्द्वम् राशिश्च । क्षुधंच बुभुक्षायाम् । क्षुधनः कीटकः ॥२९०॥ फलेगोऽन्तश्च ॥२९१॥ फल निष्पत्तौ इत्यस्मादुनः प्रत्ययो गश्चान्तो भवति । फल्गुनः अर्जुनः । फल्गुनी नक्षत्रम् ॥२९॥ वीपतिपटिभ्यस्तनः ॥२९२॥ एभ्यस्तनः प्रत्ययो भवति । वीक् भजनादौ । वेतनं भृतिः । पत्लु गतौ । पत्तनम् । पट गतौ । पट्टनम् । द्वावपि नगरविशेषौ 'पट्टनं प्रकटैगम्यं घोटकैनौंभिरेव च । नौभिरेव तु यद्गम्यं पत्तनं तत्प्रचक्षते ॥ २९२ ॥ पृपूभ्यां कित् ॥ २९३ ॥ आभ्यां कित् तनः पत्ययो भवति । पृङ्त व्यायामे। पृतना सेना । पूग्श् पवने । पूतना राक्षसी ॥ २९३ ॥ कृत्यशोभ्यां लक् ॥ २९४ ॥ आभ्यां स्नक् प्रत्ययो भवति । कृतैत् छेदने । कृत्स्नं सर्वम् ।। अशोटि व्याप्तों । अक्ष्णं नयनं व्याधिः रज्जुः तेजनम् अखण्डं च ॥ २९४ ॥ अर्तेः शसानः ॥ २९५ ॥ ऋक् गतावित्यस्मात्तालव्यादिः शसानः प्रत्ययो भवति ।