SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ २०. श्रीमश वालुका । कै शब्दे । कतः गोत्रकृत् । लांक आदाने । लता वल्ली । दृग्ट वरणे । व्रतं शास्त्रविहितो नियमः ॥ २०८ ॥ कृवृकल्यलिपिलिविलीलिलानाथिभ्य ॥ २१"S आतक् ॥२०९॥ एभ्य आतक् प्रत्ययो भवति । कृत विक्षेपे । किरातः शवरः। ग्ट वरणे। बातः समूहः उत्सेधजीविसंघश्च । कलि शब्दसंख्यानयोग कलातः ब्रह्मा। अली भूषणादौ । अलातम् उल्मुकम् । चिलत् वसने । चिलाता म्लेच्छ। विलन् वरणे। विलातः शवाच्छादनवखम् । इलत् गत्यादौ ।इलातः नगः। लाक् आदाने । लातः मृत्तिकादानभाजनम् । नाङ उपतापैश्चर्याशीषु। नाथातः आहार प्रजापतिश्च॥२०९॥ दृश्यारुहिशोणिपलिभ्य इतः॥२१०॥ एभ्य इतः प्रत्ययो भवति । इंग् हरणे । हरितः वर्णः। श्यैङ् गतौ । श्येतः वर्णः मृगः मत्स्यः श्येनश्च । रुहं वीजजन्मनि । रोहितः वर्णः मत्स्यः मृगजातिश्च ॥ लत्वे, लोहितः वर्णः । लोहितम् असृक् । शोण वर्णगत्यो। शोणितं रुधिरम् । पल गतौ । पलितं श्वेतकेशः॥२१०॥ नत्र आपेः॥२११॥ नञ्पूर्वादा; व्याप्तावित्यस्मादितः प्रत्ययो भवति । नापितः कारुविशेषः ॥ २११ ॥ क्रुशिपिशिषिकुषिकुस्युचिभ्यः कित् ॥ २१२ ॥ एभ्यः किदितः प्रत्ययो भवति । क्रुशं आहानरोदनयो । कुशितं पापम् । पिशत् अवयवे । पिशितं मांसम् । पृषू सेचने । पृषितं वारिबिन्दुः । कुश् निष्कर्षे । कुषितं पापम् । कुसच् श्लेषे । कुसितः ऋषिः । कुसितम् ऋणं श्लिष्टं च । उचच समवाये । चितं स्वभावः योग्यं चिरानुयातं श्रेष्ठम् च ॥ २१२॥ हग ईतण ॥ २१३ ॥ हंग हरणे इत्यस्मादीत प्रत्ययो भवति । हारीतः पक्षी ऋषिश्च ॥ २१३ ॥ अदो भुवो डुतः ॥२१४॥ अद्पूर्वात् भुवो डुतः प्रत्ययो भवति। अद् विस्मितं भवति तेन तस्मिन् वा मनः अद्भुतमाश्चर्यम् ॥२१४॥ कुलिमयिभ्यामूतक् ॥२१॥ आभ्यामृतक् प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः । कुलूताः जनपदः । मयि गतौ । मयूता वसतिः ॥ २१५ ॥ जीवेर्मश्च ॥२१६ ॥ जीव प्राणवारणे इत्यस्मादृतक् प्रत्ययो भवति मन्तादेशश्च । जीमूतः मेघः गिरिश्च ॥ २१६॥ करोतः च ।। २१७ ॥ कबृङ् वर्णे इत्यस्मादोतः प्रत्ययः पश्चान्तादेशो भवति । कपोतः पक्षी वर्णश्च ॥२१७॥ आस्फायडित ॥२१८|| आपर्वात स्फायैङ् वृद्धाविसस्मात् डिदोत. प्रसयो भवति । आस्फोता नाम ओषधिः ॥२१८॥ विशिभ्यामन्तः ॥ २१९ ॥ आभ्यामन्तः प्रत्ययो भवति । जृप्च् जरसि । जरन्तः भूतग्रामः वृद्धः महिपश्च । विशंत् प्रवेशने । वेशन्तः पल्वलम् वल्लभः अप्राप्तापवर्ग: आकाशं च ॥ २१९ ॥ रुहिनन्दिजीविप्राणिभ्यष्टिदाशिषि ॥ २२० ॥ एभ्य आशिषि टिदन्तः प्रत्ययो भवति । रुहं जन्मनि । रोहतात् रोहन्तः वृक्षः। रोहन्ती औषधिः ॥ टु नदु समृद्धौ । नन्दतात् नन्दन्तः सखा आनन्दश्च । नन्दन्ती सखी । जीव प्राणधारणे । जीवतात् जीवन्तः आयुष्मान् । जीवन्ती शाकः। अनक् पाणने । पाण्यात् माणन्तः वायुः रसायनं च । प्राणन्ती स्त्री ॥ २२० ॥ तृजिभूवदिवहिवसिभास्यदिसाधिमदिगडिगण्डिमण्डिनन्दिरेविभ्यः ।। २२१॥ एभ्यष्टिदन्तः प्रत्ययो भवति । आशिषीत्येके । तृ प्लवनतरणयोः । तरन्तः आदित्यः भेकश्च । तरन्ती स्त्री । जिं अभिभवे । जयन्तः रथरेणुः ध्वज इन्द्रपुत्रः जम्बूद्वीपपश्चिमद्वारम् पश्चिमानुत्तरविमानं च । जयन्ती उदयनपितृष्वसा । भू सत्तायाम् । भवन्तः कालः । भवन्ती। वद व्यक्तायां वाचि । वदन्तः । वदन्ती । वहीं प्रापणे।
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy