________________
श्रीहमश ॥२९॥
भुजगश्च । लिहीक आस्वादने । लेहडः वा चौर्यग्रासी च । अब रक्षणादौ । अबडः क्षेत्रविशेषः । चमू अदने । चमड' पशुजातिः । टु वमू उः उद्दरणे । वमडः लूताजातिः । यमू उपरमे । यमडो वनस्पतिः युगलं च । चुरण स्तेये । चोरडः चोरः । कुहणि विस्मापने । कुहडः उन्मत्तकः ॥ १७१ ॥ विहडकहोडकुरडकेरडक्रोडायः ॥ १७२ ॥ एतेऽडप्रत्ययान्ता निपात्यन्ते । विपूर्वाद्धन्तेरनो लुक्च ॥ विहडः शकुनिः मूढचित्तश्च । कपेईः प्रत्ययाकारस्य चौकारः । कहोडः ऋपिः । कुरेर्गुणाभावश्च । कुरडः मार्जारः । किरतेः केर् च । केरड. राज्ये राजा । कृगः कित प्रत्ययाकारस्य चौकारः । क्रोड: किरिः अकश्च । आदिग्रहणालहोडादयो भवन्ति॥१७२॥ जुकतृभूभृवृभ्योऽण्डः॥१७३॥एभ्योऽण्डः प्रत्ययो भवति । जृष् च् जरसि । जरण्ड अतीतवयस्कः । कृत् । विक्षेपे । करण्ड. समुद्ग समुद्रः कृमिजातिश्च । तृ प्लवनतरणयोः। तरण्ड: प्लवः वायुश्च । शश् हिंसायाम् । शरण्ड. हिंस्रः आयुधं च । सं गतौ । सरण्डः कृमिजातिः इपीका वायुः भूतसंघातः तृणसमवायश्च । टुडु भृगक पोपणे च । भरण्डः भण्डजातिः पक्षी च । वृगट् वरणे । वरण्डः कुड्यम् तृणकाष्ठादिभारश्च ॥ १७३ ॥ पूगो गादिः ॥ १७४ ॥ पूगश्पवने इत्यस्मात् गकारादिरण्ड प्रत्ययो भवति । पोगण्डः विकलाङ्गः युवा च ॥१७४॥ वनेस्त च ।।१७५॥ वन भक्तावित्यस्मांदण्डः प्रत्ययो भवति तकारश्चान्तादेशः । वतण्डः ऋपिः ॥ १७५ ॥ पिचण्डैरण्डखरण्बादयः ॥ १७२ ॥ एतेऽण्डप्रत्ययान्ता निपात्यन्ते । पिचेरगुणतं च । पिचण्डः लघुलगुडः । ईरेगुणश्च । एरण्डः पञ्चाङ्गुलः। स्वाह भक्षणे । अन्त्यस्वरादेररादेशश्च । स्वरण्डः सर्वतकम् । आदिग्रहणात् कूष्माण्डश्यण्डशयाण्डादयो भवन्ति ॥१७॥ लगेरुडः ॥ १७७ ॥ लगे सझे इत्यस्मात् उडः प्रत्ययो भवति । लगुडः यष्टिः । गृजभूभ्यस्तु उडो विहित एव ॥ १७७ ॥ कुशेरुण्डक् ॥ १७८ ॥ कुशच् श्लेष इत्यस्मात् उण्डक् प्रत्ययो भवति । कुशुण्डः वपुष्मान् ॥ १७८ ॥ शमिपणिभ्यां ढः ॥ ७९ ॥ आभ्यां ढः प्रत्ययो भवति । शम्च् उपशमे । शण्डः नपुंसकम् । पण भक्तौ । पण्डः स एव । बाहुलकात्सत्वाभाव ॥१७९॥ कुणेः कित् ॥१८०॥ कुणत् शब्दोपकरणयोरित्यस्मात् कित् ढः प्रत्ययो भवति । कुण्डः धूर्तः। बाडुलकान्न दीर्घः ॥ १८० ॥ नत्रः सहे. पा च ॥ १८१ ॥ नपर्वात् पहिमपणे इत्यस्मात् दः प्रत्ययः पा चास्यादेशो भवति । अपाढा नक्षत्रम् ॥ १८१॥ इणुर्विशावेणिप्रकृवृतृजद्दसृपिपणिभ्यो णः॥१८२॥ एभ्यो णः प्रत्ययो भवति । इणक् गतौ। एणः कुरङ्गः। उवै हिसायाम् । उर्णा मेषादिलोम ध्रुवोरन्तरावर्तश्च । १ शोच तक्षणे । शाणः परिमाणम् शस्त्रतेजनं च । वेणग् गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । वेण्णा कृष्णवेण्णा च नाम नदी । पृश् पालनपुरणयोः । पर्ण पत्रं शिरश्च । कृत् विशेष । कर्णः श्रवणं कौन्तेयश्च । वृश् वरणे । वर्णः शुक्लादिः बाह्मणादिः अकारादिः यशः स्तुतिः प्रकारश्च । तृ प्लवनतरणयोः । तर्णः वत्सः । जुष्च् जरसि । जर्णः चन्द्रमाः वृक्षः कर्क. क्षयधर्मा शकुनिश्च । दैत् आदरे । दर्णः पर्णम् । सप्लं गतौ । सर्णः सरीसृपजाति । पणि ana व्यवहारस्तुत्योः । पण्णम् व्यवहार ॥ २८२ ॥ घृवीहाशुष्युषितृषिकृष्यतिभ्यः कित् ॥ १८३॥ एभ्यः कित् णः प्रत्ययो भवति । ७ सेचने ।