________________
दीप्तौ। काष्ठं दारु । काष्ठा दिक् अवस्था च । उपू दाहे । ओष्ठः दन्तच्छदः ॥१६२॥ पीविशिकुणिपृषिभ्यः कित् ॥१६३॥ एभ्यः किन ठः प्रत्ययो भवति । पी च् पाने । पीठमासनम् । विशंत् प्रवेशने । विष्ठा पुरीषम् । कुणत् शब्दोपकरणयोः। कुण्ठः अतीक्ष्णः । पृषू सेचने । पृष्ठः अङ्कुशः शरीरैकदेशश्च ॥ १६३ ॥ कुषे ॥ १६४ ॥ कुषश् निष्कर्षे इत्यस्मात् । प्रत्ययो भवति स च वा कित् । कुष्ठं व्याधिः गन्धद्रव्यं च ॥ कोष्ठः कुशूल: उदरं च ॥ १६४ ॥ शमेलुक् च वा ॥१६५।। शमूच उपशये इत्यस्मात् ठ प्रययो भवति लुक् चान्तस्य वा भवति । शठः धूर्तः। शण्ठः स एव नपुंसकं च ॥१६५॥ पष्टैधिटादयः॥१६६॥ पष्ठादयः शब्दाष्ठमत्ययान्ता निपात्यन्ते । पुपेः किन ठः पषादेशश्च । पष्ठः प्रस्थः पर्वतश्च। एधतेरिट च । एधिठं वनम् । एघिठः गिरिसरिद्रुहः। आदिशब्दादन्येऽपि ॥१६६॥ मृजशकम्यसिरभिरपिभ्योऽठः ॥ १६७ ॥ एभ्योऽठः प्रत्ययो भवति । मुंत् प्राणत्यागे । मरठः दध्यतिद्रवीभूतम् कृमिजातिः कण्ठः प्राणश्च । जृष्च् जरसि । जरठः कठोरः । शृश् हिसायाम् । शरठः आयुधं पापं क्रीडनशीलश्च । कमूङ् कान्तौ । कमठः भिक्षाभाजनम् कूर्मास्थि कच्छपः मयूरः वामनश्च । अम गतौ । अमठः प्रकर्षगतिः । रमि क्रीडायाम् । रमठः देशः कृमिजातिः क्रीडनशील म्लेच्छः देवश्च विलातानाम् । रप व्यक्त वचने । रपठः विद्वान् मण्डूकश्च ॥ १६७॥ पञ्चमात् डः ॥ १६८ ॥ पञ्चमान्तात् धातोर्डः प्रत्ययो भवति । षण् भक्तौ । पण्डः वन वृषभश्च ॥ बाहुलकात् सत्वाभावः। भण शब्दे । भण्डः प्रहसनकरः वन्दी | च । चण शब्दे । चण्डः क्रूर। पणि व्यवहारस्तुत्योः। पण्डः शण्ठः। गणण संख्याने । गण्डः पौरुषयुक्तः पुरूषः। मण शब्दे । मण्डः रश्मिः अग्रम् अन्नविकारश्च । वन भक्तौ । वण्ड; अल्पशेफः निश्चर्माग्रशिश्नश्च । शमूदमृच् उपशमे । शण्डः उत्सृष्टः पशुः ऋपिश्च । दण्डः वनस्पतिमतानः राजशासनं नाले प्रहरणं च । रमिं क्रीडायाम् । रण्डः पुरुषः, रण्डा स्त्री, रण्डमन्तःकरणम् । त्रयमपि स्वसंवन्धिशून्यमेवमुच्यते । तमेस्तनेर्वा तण्ड. ऋषिः। वितण्डा तृतीयकथा । गमेः गण्डः कपोलः । भामि क्रोधे । भाण्डमुपस्करः ॥ १६८ ॥ कण्यणिखनिभ्यो णिद्वा ॥ १६९॥ एभ्यो डा प्रत्ययो भवति स च णिद्वा । कण अण शब्दे । काण्डः शरः फलसं-2 घातः पर्व च । कण्डं भूषणं पर्व च । आण्डः मुष्कः अण्डः स एव योनिविशेपश्च । खनूग अवदारणे । खाण्डः कालाश्रयो गुडः। खण्डः इक्षुविकारोऽन्यः। खण्डं शकलम् ॥ १६९ ॥ कुगुहुनीकुणितुणिपुणिमुणिशुन्यादिभ्यः कित् ॥१७०॥ एभ्यः कित् डः प्रत्ययो भवति । कुङ् शब्दे । कुडः घटः हलं च । गुंशब्दे । गुडः गोलः इक्षुविकारश्च । गुडा सन्नाहः । हुंक दानादनयोः । हुडा मूर्खः मेपश्च । णीग् पापणे । नीडं कुलायः । कुणत् शब्दोपकरणयोः। कुण्डं भाजनम् जलाधारविशेषश्च । कुण्डः भर्तरि जीवति जारेण जातः अपदिबन्द्रियश्च । तुणत् कौटिल्ये । तुण्डं मुखम् । पुणत् शुभे । पुण्डः भिन्नवर्णः। मुणत् प्रतिज्ञाने। मुण्डः परिचापितकेशः। शुनत् गतौ । शुण्डा सुरा इस्तिहस्तश्च । आदिग्रहणादन्येभ्योऽपि भवति ॥ १७०॥ ऋसृतृव्यालियविचमिवमियमिचुरिकुहेरडः ॥१७१॥ एभ्योऽडः प्रत्ययो भवति । अंक गतौ । अरटः तरुः । सं गतौ सरडः भुजपरिसर्पः तरुश्च । तृ प्लवनत रणयो । तरडः वृक्षजातिः । व्यग् संवरणे । व्याडः दुःशीलः हिंस्रः पशुः
Avocados