________________
वल प्राणनधान्यावरोधयोरित्यस्मात अजः प्रत्ययो वकारश्चान्तो वा भवति । वल्लजः मुजविशेषः । वलजा सयुसो धान्यपुजः ॥ १३३ ॥ उदजादयः॥ १३४ ॥ उटजादयः शब्दा अजप्रत्ययान्ता निपात्यन्ते । बटेर्वस्योत्वं च । उटजं मुनिकुटीरः । आदिशब्दात भूर्जभरुजादयो भवन्ति ।। १३४ ॥ कुलेरिजक ॥ १३५॥ कुल वन्धुसंस्त्यानयोरित्यस्मात् इजक् प्रत्ययो भवति । कुलिजं मानम् ॥ १३५ ॥ कृगोऽनः।। १३६ ।। करोतेरजः प्रत्ययो भवति । करजः वृक्षजातिः॥ १३६ ॥ झमेझः॥ १३७॥ झमू अदन इसस्मात झ. प्रत्ययो भवति । झञ्झा ससीकरो मेघवातः ॥ १३७ ॥ लुपेष्टः॥ १३८ ॥ लुप स्तेय इत्यस्मा प्रत्ययो भवति । लोष्टो मृत्पिण्डः ॥ १३८ ॥ नमितनिजनिवनिसनो लुक् च ॥ १३९ ॥ एभ्यष्टः प्रत्ययो भवति लुक् चान्तस्य भवति । णमं प्रहत्ते । नदः भरतपुत्रः । तनूयी विस्तारे । तट कूलम् । जनैचि प्रादुर्भावे । जटा ग्रथितकेशसंघातः । वन पण संभक्तौ । वटः न्यग्रोधः । सटा अग्रथितः केशसंघातः ॥ १३९ ॥ जनिपणिकिजुभ्यो दीर्वश्च ॥ १४० ॥ एभ्यष्टः प्रसयो दीर्घश्चैषां गुणापवादो भवति । जनैचि प्रादुर्भावे । पणि व्यवहारस्तुत्यो । जाण्टः । पाण्टः । पक्षिविशेषावेतौ । किज़ सौत्रौ । कीटः क्षुद्रजन्तुः । जूटः मौलिः ॥ १४० ॥ घटाघाटाघण्टादयः॥ १४१ ॥ एते दमत्ययान्ता निपात्यन्ते । हन्तेयायनश्च । घटा वृन्दम् । घाटा वाङ्गम् । घण्टा वाद्यविशेषः । आदिग्रहणाच्छटादयो भवन्ति ॥१४१॥ दिव्यविश्रुकुर्विशकिकङ्किकृपिचपिचमिकम्येधिकर्किमर्किकक्खित्कृसभवृभ्योऽटः ॥१४२।। । एभ्योऽटः प्रत्ययो भवति । दिवच् क्रीडादौ । देवटः देवकुलविशेषः शिल्पी च । अव रक्षणादौ । अवटः प्रपातः कूपश्च । श्रृंद् श्रवणे । श्रवट छत्रम् । कुंक् शब्दे। कवटः उच्छिष्टम् । कर्व गतौ । कर्वदं क्षुद्रपत्तनम् । शक्लंट् शक्तौ । शकटम् अनः। ककुङ् गतौ । कङ्कटः सन्नाहः । कङ्कटं सीमा । कृपौङ् सामर्थे । कपटं वासः ।। चप सांत्वने । चपटः रसः । चमू अदने । चमटः घस्सरः । कमूङ् कान्तौ । कमटः वामनः । एघि दृद्धौ । एधटः वल्मीक । कर्किमी सौत्रौ । कर्कटः कपिलः | कुलीरश्च । कर्कटी त्रपुसी । मर्कट: कपि क्षुद्रजन्तुश्च । कक्ख हसने । कक्खटः कर्कशः। तृ तरणप्लवनयोः। तरटः पीनः। डुकंग करणे। करटः काकः करिकपोलश्च ।। सं गतौ । सरटः कृकलासः । टुडु,गक पोपणे च । भरटः प्लविशेषः भृत्यः कुलालश्च । वृग्ट् वरणे । वरटः क्षुद्रधान्यम् प्रहारश्च ॥ १४२॥ कुलिविलिभ्यां कित् ॥ १४३ ॥ आभ्यां किदटः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः । कुलटा बन्धकी । विलत् वरणे । विलटा नदी ॥ १४३ ॥ कपटकीकटादयः ॥१४४॥ | कपटादयः शब्दा अटप्रत्ययान्ता निपात्यन्ते । कम्पेनेलोपश्च । कपटं माया । ककेरत ईच । कीकटः कृपणः । आदिशब्दालघटपर्पटादयो भवन्ति ॥ १४४ ॥ अनिशपचूललिभ्य आटः॥१४५ ॥ एभ्य आटः प्रत्ययो भवति । अनक् प्राणने । अनाटः शिशुः । शुश हिसायाम् । शराटः शकुन्तः । पृश् पालनपूरणयोः। पराट आयुक्तकः । वृश् संभक्तौ । वराटः सेवकः । ललिण् ईप्सायाम् । ललाटम् अलिकम् ॥ १४५ ॥ सुसृपेः कित् ॥ १४६ ॥ आभ्यां किदाटः प्रययो भवति । सं. गतौ । स्राटः पुरस्सरः । सप्तुं गतौ । सपाटः अल्पः कुमुदादिपत्रं च । सपाटी उपानत् कुप्यम् अल्पपुस्तकश्च ॥ १४६ ॥ किरो लश्च वा ॥ १४७ ॥
Procinecrocercemerocreenarscreecemchnoecove