________________
प्रत्ययान्ता निपात्यन्ते । क्रमः कश्च । क्रकचः करपञ्चः । आदिशब्दादन्येऽपि ॥ ११५॥ पिशेराचक् ॥ ११६ ॥ पिशत् अवयवे इत्यस्मादाचा प्रत्ययो भवति । श्रीहेमश०
पं००वि ॥२७॥
पिशाचः व्यन्तरजातिः॥११६॥ मृबपिभ्यामिचः॥११७॥ आभ्यामिचः प्रत्ययो भवति । मुंत् माणत्यागे । मरिचमूपणम् । पौषि लजायाम्। त्रपिचा कुथा॥११७॥ म्रियतेरीचण् ॥११८ ।। मुंत माणसागे इत्यस्मादीचण् प्रत्ययो भवति । मारीचः रावणमातुलः ॥ ११८ ॥ लपेरुचः कश्च ॥ ११९ ॥ लपी कान्तावित्यस्मादुचः प्रत्ययोऽन्यस्य च को भवति । लकुचः वृक्षजातिः ॥ ११९ ॥ गुडेरूचद् ॥ १२० ॥ गुडत् रक्षायामित्यस्मादूचद् प्रत्ययो भवति । गुडूची छिन्नरुहा । कुटादित्वाद ङित्त्वम् ॥ १२० ॥ सिवेर्डित् ॥ १२१ ॥ पिच् ऊतौ इयस्मादूचट् प्रत्ययो डित् भवति । सूचः पिशुनः स्तिभिश्च । सूची संधानकरणी ॥ १२१॥ चिमेझैचडश्चौ ॥ १२२ ॥ चिमिभ्यां प्रत्येकं डोचडश्च इति प्रत्ययौ भवतः । वचनभेदान्न यथासंख्यम् । चिग्द चयने । चोचः वृक्षविशेषः । चञ्चा तृणमयः पुरुषः। डुमिंग प्रक्षेपणे । मोचा कदली । मञ्चः पर्यकः ॥ १२२ ॥ कुटिकुलिकल्युदिभ्य इञ्चक् ॥ १२३ ॥ एभ्य इञ्चक् प्रत्ययो भवति । कुटेः, कुटिश्चः क्षुद्रकर्कटः । कुले , कुलिञ्चः राशिः । कले., कलिञ्चः उपशाखावयवः । उद आघाते सौत्र । उदिञ्च कोणः येन तूर्य वाद्यते, परपुष्टश्च ॥ १२३ ॥ तुदिमदिपयदिगुगमिकचिभ्यच्छक् ॥ १२४ ॥ एभ्यच्छक् प्रत्ययो भवति । तुदीत् व्यथने । तुच्छ स्तोकः । मदैच हर्षे ।
मच्छ. मत्स्य प्रमत्पुरुषश्च । मच्छा स्त्री । पदिच् गतौ । पच्छः शिला । अदक् भक्षणे । अच्छ: निर्मल । गुंङ् शब्दे । गुच्छः स्तबकः । गम्लं गतौ । ३ गच्छ क्षुद्रक्षः । कचि बन्धने । कच्छः कूर्मपादः कुक्षिः नद्यवकुटारश्च । कच्छा जनपदः । वाहुलकात् कत्वाभावः ॥ १२४ ॥ पीपूडो ह्रस्वश्च ॥ १२५ ॥
आभ्यां छक् प्रत्ययो इस्खश्च भवति । पीच पाने । पिच्छम् शकुनिपत्रम् । पिच्छः गुणविशेषः । यद्वान् पिच्छिल उच्यते । पूङ पवने । पुच्छं वालधिः ॥ १२५ ॥ गुलुञ्छपिलिपिञ्छैधिच्छादयः ॥ १२६ ॥ एते छमत्ययान्ता निपात्यन्ते । गुडेर्ल उम् चान्तः। गुलुञ्छः स्तवकः। पीलेरिपिनोन्तो इस्वश्च । पिलिपिञ्छ। रक्षोविशेषः । एधेरिट् च । एपिच्छः नगः । आदिग्रहणात पिञ्छादयोऽपि भवन्ति ॥ १२६ ॥ वियो जक् ॥ १२७ ॥ वक् प्रजनकान्त्यसनखादनेषु च इत्यस्मात् जक् । प्रत्ययो भवति । वीजम् उत्पत्तिहेतुः ॥ १२७ ॥ पुव पुन् च ॥ १२८ ॥ पूङ् पवने इत्यस्मात् जक् प्रत्ययोऽस्य च पुन् इत्यादेशो भवति । पुनः राशिः ॥१२८॥ कुवः कुब्कुनौ च ॥ १२९ ॥ कुंङ शब्द इत्यस्माजक् प्रत्ययोऽस्य च कुन् कुन् इत्यादेशौ भवतः । कुब्ज' वक्रानताङ्गः गुच्छश्च । कुञ्जः हनु पर्वतैकदेशश्च । निकुजः गहनम् ॥ १२९ ॥ कुटेरजः ॥ १३० ॥ कुटत् कौटिल्य इत्येतस्मादजः प्रत्ययो भवति । कुटजः वृक्षविशेप । कुटादित्वात् डिन्त्वम् । कुटजी ॥ १३० ॥ भिषेभिषभिष्णौ च वा ॥ १३१ ॥ भिषरजः प्रत्ययो भिषभिष्ण इत्यादेशौ चास्य वा भवतः । भिषिः सौत्र । भिषजः । आदेशवलान गुण । भिष्णज. वैध । भेषजमौषधम् ॥ १३१ ॥ मुर्मुर् च ॥ १३२ ।। मुवै बन्धने इत्यस्मादनः प्रत्ययोऽस्य च मुरित्पादेशो भवति । मुरजः मृदङ्गः ॥१३२॥ बलेवान्तश्च वा ॥१३३॥
CN