________________
मुरः । पिशत् अवयवे । पिशङ्गः वर्णः ॥ १०१ ॥ स्फुलिकलिपल्याद्द्भ्य इङ्गक् ॥ १०२ ॥ स्फुल्यादिभ्य आदन्वेभ्यश्च शक् प्रत्ययो भवति । स्फुलत् संचये च । स्फुलिङ्गः स्फुलिङ्गा च अग्निकणः । काले शब्दसंख्यानयोः । कलिङ्गः राजा । कलिङ्गा जनपदः । पल गतौ । पलिङ्ग ऋषिः शिला च । पातेः पिङ्गः । भातेः भिङ्गः । द्वावपि वर्णविशेषौ । ददातेः दिङ्गः अध्यक्षः । दधातेः धिङ्गः श्रेष्ठी । लातेः लिङ्गं स्त्रीत्वादि हेतुश्च । आलिङ्गः वाद्यविशेषः । श्यतेः शिङ्गः वनस्पतिः किशोरथ ॥ १०२ ॥ भलेरिदुतौ चातः ॥ १०३ ॥ भलिण् आभण्डने इत्यस्मादिङ्गक् प्रत्ययो भवति अकारस्य चेका रोकारौ भवतः । भिलिङ्गः कर्मारोपकरणम् । भुलिङ्गः ऋषिः पक्षी च । भुलिङ्गाः साल्वावयवाः ॥ १०३ ॥ अदेर्णित् ॥ १०४ ॥ अदं भक्षणे इत्यस्मात् णिदिङ्गक् प्रत्ययो भवति । आदिङ्गः वाद्यजातिः ॥ १०४ ॥ उच्चिलिङ्गादयः ॥ १०५ ॥ उचिलिङ्गादयः शब्दा इङ्गक्प्रत्ययान्ता निपात्यन्ते । उत्पूर्वाचलेरस्थेत्वं च । उचिलिङ्गः दाडिमी । आदिग्रहणादन्येऽपि ॥ १०५ ॥ माङस्तुलेरुङ्गक् च ॥ १०६ ॥ माङ्पूर्वात्तुल उन्माने इत्यस्मात् उङ्गक् इङ्गक् च प्रत्ययौ भवतः । मातुलुङ्गः बीजपूरः । मातुलिङ्गः स एव ॥ १०६ ॥ कमितमिशमिभ्यो डित् ॥ १०७ ॥ एभ्यो डिदुङ्गः प्रत्ययो भवति । कमूङ् कान्तौ । कुङ्गा जमपदः । तमूच् काङ्क्षायाम् । तुङ्गः महावर्ष्या । शमूच् उपशमे । शृङ्गः मुनिः । शृङ्गा विनता । थुङ्गाः कन्दल्यः ॥ १०७ ॥ सतैः सुर्च ॥ १०८ ॥ स्रं गतावित्यस्मादुङ्गः प्रत्ययः सुचस्यादेशो भवति । सुरुङ्गा गूढमार्गः ॥ १०८ ॥ स्थातिनिभ्यो घः ॥ १०९ ॥ एभ्यो यः प्रत्ययो भवति । ष्ठां गतिनिवृत्तौ । स्थाघः गाधः। ॐ प्रापणे च । अर्धः मूल्यम् मानप्रमाणं पादोदकादि च ॥ जनैचि प्रादुर्भावे | जङ्घा शरीरावयवः ॥ १०९ ॥ मघाघङ्घाघदीर्घादयः ॥ ११० ॥ एते घप्रत्ययान्ता निपात्यन्ते । मङधैर्नघलोपश्च । मघा नक्षत्रम् । हन्तेर्हस्य घथ । घङ्घः घस्मरः । वङ्घा काङ्क्षा | अमेर्लुक् च । अयं पापम् । दृणातेर्दीर् च । दीर्घ आयातः उच्चश्च । आदिशब्दादन्येऽपि ॥ ११० ॥ सतैरघः ॥ १११ ॥ सं गतावित्यस्मादधः प्रत्ययो भवति । सरघा मधुमक्षिका ॥ १११ ॥ कूपूसमिणभ्यश्चद् दीर्घश्च ॥ ११२ ॥ कुभ्यां सम्पूर्वाचेणश्च चद् प्रत्ययो दीर्घश्च भवति । टो उयर्थः । कुंङ् शब्दे । कूचः हस्ती । कूची प्रमदा चित्रभाण्डम् उदश्विद्विकारश्च । पूग्श् पवने । पूचः पूची मुनिः । इण्क् गतौ । समीचः ऋत्विक् । समीचं मिथुनयोगः । समीची पृथ्वी उदीची च । दीर्घवचनाद्गुणो न भवति ॥ ११२ ॥ कूर्चचूर्चादयः ॥ ११३ ॥ कूर्च इत्यादयः शब्दाश्रदप्रत्ययान्ता निपात्यन्ते । कवते: किरतेः करोतेर्वा ऊरादेशश्चान्तस्य । कूर्च श्मश्रु आसनं तन्तुवायोपकरणं यतिपवित्रकं च । कूर्चमिव कूर्चकः कूर्चिकेति च भवति । चरतेश्वोरयतेर्वा चूरादेशश्च । चूर्चः वलवान् । आदिशब्दादन्येऽपि ॥ ११३ ॥ कल्यविमदिमणिकुकणिकुटिकृभ्योऽचः ॥ ११४ ॥ एभ्योऽचः प्रत्ययो भवति । कलि शब्दसंख्यानयोः । कलचः गणकः। अव रक्षणादौ । अवचः उच्चैस्तरः । मदैच् हर्षे । मदचः मत्तः । मण शब्दे । मणचः शकुनिः। कुंड शब्दे । कवचं वर्म । कण शब्दे । कणचः कुणपः । कुटत् कौटिल्ये । कुटचः वृक्षजातिः । कृत् विक्षेप | करचः धान्यावपनम् ॥ ११४ ॥ क्रकचादयः ॥ ११५ ॥ क्रकच इत्यादयः शब्दा अच
NNNNNN
22