________________
to
उ० वि
लुरु चान्त्यस्य भवति । ओपन्यस्यामिति उखा स्थाली ऊर्ध्वक्रिया वा ॥ ८८ ॥ महेरुचास्य वा ॥ ८९ ॥ मह पूजायामित्यस्मात् खः प्रत्ययः कित् अन्तलुक् अकारस्य चोकारादेशो वा भवति । मुखमाननम् । मसः याः अध्वर्युः इश्वरश्च ॥ ८९ ॥ न्युखादयः ॥९० ॥ न्युद्वादयः शब्दाः खपत्यपान्ता निपात्यन्ते । नयतेः ख उन्चान्तः । न्युलाः पडोडाराः । आदिग्रहणादन्येऽपि ॥९०॥ मयधिभ्यामूखेखौ ॥११॥ मयि गतौ एघि वृद्धौ इसाभ्यां यथासंख्यमुखेख इत्येतो प्रत्ययौ भवतः। मयूखः रश्मिः। एधिखः वराहः।।१२।।गम्यामिरम्यजिगद्यदिछागडिखडिगृभृवृस्वृभ्यो गः॥१२॥एभ्यो गः प्रत्ययो भवति। गम्लं गतौ । गङ्गा देवनदी। अम गतौ। अङ्गम् । शरीरावयवः। अगः समुद्रः वह्निः राजा च । अङ्गा जनपदारमि क्रीडायाम् । रङ्गः नाटयस्थानम् । अज क्षेपणे च । वेगः त्वरा रेतश्च । गद व्यक्तायां चाचि । गद्गः वाग्विकलः । अदंक भक्षणे । अतः समुद्रः अग्निः पुरोडाशश्च । छोच छेदने । छागः वस्तः । गड सेचने । गडः मृगजातिः । खडण् भेदे । खड्डः मृगविशेपोऽसिश्च । गृत निगरणे । गर्गः ऋषिः । टुडु,गक पोषणे च । भर्गः रुद्रः सूर्यश्च । वृकुट् वरणे । वर्ग संघात । औस्व शब्दोपतापयोः । स्वर्गः नाकः ॥९२ ॥ पूमुदिभ्यां कित् ॥ ९३ ॥ आभ्यां किद्गः प्रययो भवति । पुगश् पवने । पूगः संघः क्रमुकश्च । मुदि हर्षे । मुद्गः धान्यविशेषः ॥ ९३ ॥ भृवृभ्यां नोऽन्तश्च ॥ ९४ ॥ आभ्यां किन्दः प्रत्ययो नकारश्चान्तो भवति । टु डु भृगक पोषणे च । भृङ्गः पक्षी भ्रमर वर्णविशेषः लवङ्गश्च । वृग्ट् वरणे । वृङ्गः पक्षी उपपतिः ॥ ९४ ॥ द्रुमो जिदा ॥ ९५ ॥ द्रम गतावित्यस्मादः प्रत्ययो भवति स च णिद्वा । द्राङ्गं शीघ्रम् । दाङ्गः पाशुः । द्रङ्गः नगरम् । द्रना शुल्कशाला ॥ ९५ ॥ शृङ्गशादियः ॥ ९६ ॥ शृङ्गादयः शब्दा गप्रत्ययान्ता निपात्यन्ते । शृश् हिंसायामित्यस्य इस्वो नोऽन्तश्च । शृङ्गं विपाणम् शिखरं च । तस्यैव नोऽन्तो वृद्धिश्च । शाः पती । आदिग्रहणात् हुंग् हरणे हार्गः परितोषः । मृत प्राणत्यागे । मार्गः पन्थाः ॥ ९६ ॥ तडेरागः ॥ ९७ ॥ तडण् आघाते इत्यस्मादागः प्रत्ययो भवति । तडागम् सर ॥९७ ॥ पतितमितृपकल्वादेरङ्गः ॥९८॥ एभ्योऽङ्ग प्रत्ययो । भवति । पत्ल गतौ । पतङ्ग पक्षी शलभः सूर्यः शालिविशेपश्च । तमूच काङ्क्षायाम् । तमङ्गः हर्म्यनियुह । तृ प्लवनतरणयोः । तरङ्ग ऊर्मि । पृश् पालनपूरगयो । परङ्गः खगः वेगश्च । कुत् विक्षेपे । करन कर्मशीलः । शृश् हिंसायाम् । शरङ्ग पक्षिविशेषः । लग्श् छेदने । लवङ्गः सुगन्धिवृक्ष । आदिग्रहणादन्येभ्योऽपि । ॥ ९८ ॥ सृवृनृभ्यो णित् ॥ ९९ ॥ एभ्यो णिदगः प्रत्ययो भवति । सं गतौ । सारङ्गः हारेणः चातक शवलवर्णश्च । वृग्द वरणे । वारङ्गः काण्डखड्गयोः, 5 शल्यं शकुनिश्च । नृश् नये । नारङ्ग क्षजातिः ॥ ९९ ॥ मनेर्मन्मातौ च ॥ १०० ॥ मनिच ज्ञाने इत्यस्मादन प्रत्ययो मत्मातौ चास्यादेशौ भवतः । मतगः ऋपिः हस्ती च । मातग हस्ती अन्यजातिश्च ॥ १०० ॥ विडिविलिकुरिमृदिपिशिभ्यः कित् ॥ १०१ ॥ एभ्यः किदङ्गः प्रययो भवति । विड आक्रोशे । विडङ्गः वृक्षजातिः गृहावयवश्च । विलन वरणे, विलत् भेदने वा । विलगः औषधम् । कुरत् शब्दे । कुरङ्गः हरिण' । कुरङ्गी भोजकन्या । मृदश् क्षोदे । मृदङ्गः
ZEN